SearchBrowseAboutContactDonate
Page Preview
Page 1081
Loading...
Download File
Download File
Page Text
________________ चउवीसत्थय १०५७-अभिधानराजेन्द्रः भाग-३ चउवीसत्थय कीर्तयिष्यामि चतुर्विशतिमपि केवलिन इति / अधुना पदार्थ लोक्यते प्रमाणेन दृश्यते इति लोकः / अयं चेह तावत्पञ्चा-स्तिकाचात्मको गृह्यते तस्य लोकस्य उद्योतकरणशीला उद्यातकरास्तान केवलालोकेन तत्पूर्वकवचनदीपेन वा सर्वलोकप्रकाश-करणशीलानित्यर्थः / तस्मात् दुर्गतौ प्रपतन्तमात्मानं धारयती-ति धर्मः / उक्तञ्च- "दुर्गतिप्रसृतान् जन्तून्, तस्माद्धारयते यतः / धत्ते वैतान् शुभस्थाने, तस्माद्धर्म इति स्मृत." ||1|| तीर्यते संसारसागरो अनेनेति तीर्थ धर्म एव, धर्मप्रधान वा ती धर्मती तत्करणशीला: धर्मतीर्थकरास्तान तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गाऽष्टप्रकारकर्मजेतृत्वाजिनास्तान तथा अशोकाद्यष्ट महाप्रातिहार्यरू पां पूजार्हन्तीत्यर्हन्त: तान् अर्हतः कीर्तयिष्यामि नामभि: स्तोष्ये / चतुर्विशतिरिति संख्या अपिशब्दो भावतस्तदन्यसमुच्चयार्थः / केवलं ज्ञानमेषां विद्यते इति केवलिन: तान् केवलिनः, इतिपदार्थ: / पदविग्रहोऽपि यानि समासभाञ्जि पदानि तेषु दर्शित एव / संप्रति चालनावसर: तत्र तिष्ठतु तावत् / सूत्रस्पर्शिकानयुक्तिरेवोच्यते / स्वस्थानत्वात् / उक्त "अक्खलियसंहियाइ, अक्खाणचउक्कए दरिसियम्मि / सुत्तप्फ- सियनिजुत्ति, वित्यइत्थो इमो होई।।" चालनामपि वाऽ त्रैव वक्ष्याम: तत्र लोकलयोद्योतकरानिति यदुक्तम् / / 1 / / आ० म०वि०। __ अधुना जिनादिप्रतिपादनार्थमाहजियकोहमाणमाया, जिअलोहा तेण जिणा होति / अरिणो हन्ता रयं हंता, अरिहंता तेण वुचंति / / जितक्रोधमानमायाः जितलोभा येन कारणेन भगवन्तस्तेन कारणेन ते जिना भवन्ति / “अरिणो हंता" इत्यादि गाथादलं यथा नमस्कारनिर्युक्तौ व्याख्यातं तथैव द्रष्टव्यम् सांप्रतं कीर्तयिष्यामीत्यादिव्याचिख्यासुरिदमाह-(कित्त ति) प्राकृतत्वात् कीर्तयिष्यामि, नामभिर्गुणैश्च / किं भूतान् ? कीर्तनीयान् स्ववाहा॑नित्यर्थः / कस्येत्यत्राह-सदेयमनुजासुरस्य लोकस्य त्रैलोक्यस्येतिभावः / गुणानुपदर्शयति-दर्शनशानचारित्राणि मोक्षकारणानि तत्रैकवचने समाहारत्वात्तथा तपोवनयोऽत्र दर्शितो यैस्तत्र त एव कर्मविनयात्तपोनियमः। चउवीसं तिय संखा, उसभादीया य भण्णमाणा उ / अविसहगहणाओ, एरवयमहाविदेहेसु // चतुर्विंशतिरिति संख्याते च ऋषभादिका भण्यमाण एव चतु:शब्द एवकारार्थः / अपिशब्दग्रहणात् पुनरैरावतप्रहाविदेहेषु ये भगवन्तस्तद्ग्रहोऽपि वेदितव्य इहसूत्रे" तात्स्थ्यात् तटव्यपदेश'' इतिन्यायादैरावतमहाविदेहाश्चेत्युक्तम् / (आ० म०) सांप्रतमत्रै व चालनाप्रतयवस्थाने विशेषतो निदर्येते तत्र लोकस्योद्योतकनित्युक्तम् अत्राह-अशोभनमिदं यदुक्तं लोक स्येति लोको हि चतुर्दशरज्वात्मकत्वेन परिमित: केवलोद्योतस्यापरिमितो लोकालोकव्यापकत्वात् यद्वक्ष्यति-"केवलियनामणलंभोलोगोयंपगासेई / तत: सामान्यत उद्योतकरान् / यदि वा-लो-क्य-लोकयोरुद्योतकरानिति वाच्यं न तु लोकस्येति तदयुक्तमभि प्रायापरिज्ञानात्। इहलोकशब्देन पञ्चास्तिकाया एव गृह्यन्ते तत आकाशास्तिकायभेद एय। लोक इति नाथ युक्तः नचैतदनार्ष यत उक्तम्-पंचत्थियकायमइओ लोगो इत्यादि / अपरस्त्वाह-लोकस्योद्योतकारानित्येतावदेव साधुधर्मतीर्थकरानितिन वक्तव्यं गतार्थत्वात्। तथाहि-ये लोकस्योद्योतकरास्ते धर्म-तीर्थकरा एवेति / उचयते इह लोकैकदेशोऽपि ग्रामैकदेशे ग्रामशब्दवत् लोकशब्दप्रवृत्तिदर्शनात् माभूत्त दुद्योतकरेष्ववधिविभङ्गज्ञानिष्वक्र्कचन्दादिषु वाक्यसंप्रत्यय इति, तद्व्यपदेशार्थ धर्मतीर्थकरानित्युक्तम् / आह-यद्येवं धर्मतीर्थकरानित्येतावदेवास्तुलोकस्योद्योतकरानितिन वाच्यम् ? उच्यते-इहलोकेयेऽपिनद्यादिविषमस्थानेषु सुधिकया धर्मार्थमवतरणीर्थकरणाशीलास्तेऽपि धर्मकरा भण्यन्ते। ततो माभूदिति मग्धवुद्धीनां संप्रत्यय इति तदपनोदाय लोकस्योद्योतकरानित्याह-अपर-इत्याह-जिनानित्यतिरिच्यते / तथाहियथोक्तप्रकारा जिना एव भवनित इति। उच्यते-इह केषांचिदिदं दर्शनम् "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम्। गत्वा गच्छन्ति भूयोऽपि, भवं तीर्थनिकारत' इत्यादि। ततस्तन्मतपरिकल्पितेषु यद्योक्तप्रकारेषु माभूत्संप्रत्यय इति तद्व्यवच्छेदार्थमित्याह-जिनामता राणा दिजेतारस्ते तनयपरिकल्पिता जिना न भवन्तीति तीर्थनिकारत: पुनरिह भवाङ् कुरोत्पादादन्यथा स न स्यात्। बीजाभावात् तथोक्तमन्यैरपिअज्ञानपांशुपिहितं, पुरातनं कर्मबीजमविनाशि / तृष्णाजलाभषिक्त, मुभ्रति जन्माङ् कुरं जन्तोः / / 1 / / दग्धे बीजे यथात्यन्तं, प्रादुर्भवति नाङ् कु: / कर्मवीजे तथा दग्धे, न रोहति भवाङ् कुरः // 2 // आह यद्येवं जिनानित्येतावदेवास्तु लोकस्योद्योतकरानित्यादिव्यतिरिच्यते / उच्यते--इहप्रवधने सामान्यतो विशिष्टश्रुतध-रादयोऽपि जिना उच्यन्ते / तद्यथा-श्रुतजिना: अवधिजिनाः, मन:पर्यायज्ञानिजिना:, छद्मस्थवीतरागाश्च / ततो माभूत्तेषु संप्रत्यय इति तदपतोदाय लोकस्योद्योतकरानित्याचप्यदुष्टम् / अपरस्त्वाह–अर्हत इति न वाच्यम् / खल्वनन्तरोदितस्वरूपा अर्हद्व्यतिरेकेणापरे संभवन्ति / उच्यतेअर्हतामेव विशेष्यत्वान्न दोषः / आह-यद्येवं तर्हि अर्हत इत्येताषदेवास्तु लोकस्योद्योतकरानित्यादि पुनरप्यर्थकम् / न तस्य विशेषणत्वात् विशेषण-साफल्यस्य च प्रतिपादितत्वादिति / अपरस्त्वाह-के वलिन इति न वाच्यम् यथोक्तस्वरुपाणामर्हता केवलित्वव्यभिचाराभावात्। "सति च व्यभिचार संभवे विशेषणोपादानं फलवत्' तथा चोक्तम् "संभवे व्यभि। चारविशेषणमर्थवद्भवति / यथा नीलोत्पलमिति / व्यभिचाराभवे तु तदुपादीयमानमपि न कचनार्थ पुष्णातीति / यथा-कृष्णो भ्रमरः शुक्ला बलाहका इति तस्मात् के वलिन इतिरिच्यते नाभिप्रायापरिज्ञानात् इहके वलिन एव यथोक्तस्वरूपा अर्हन्तो नान्ये इति नियमादर्थत्वेन स्वरूपज्ञानार्थमिदं विशेषणमित्यनवद्यम् न खल्वेकान्ततो व्यभिचारसंभवे एव विशेषणोपादानं फलवत् उभयपदव्यभिचारे एकपदव्यभिचारे यथानीलोत्पलमिति / एकपदव्यभिचारे--अब्द्रव्यं पृथिवीद्रव्यमिति / स्वरूपज्ञाने यथा परमाणुरप्रदेश इत्यादि। तस्मात् केवलिन इत्यदुष्टम् आह-यद्येवं केवलिन इत्येवं सुन्दरम्। शेषं तु लोस्योद्योतकरनित्यादि किमर्थमिति / उच्यतेइह श्रुतकेवलिप्रभृतयोऽपि केवलिनो विद्यन्ते तन्मा भूतेषु संप्रत्यय इति तत्प्रतिक्षेपार्थ लोकस्योद्योकरानित्याधुक्तम् / एवं ध्यादिसंयोगापेक्षया विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफ ल्यं वाच्यमिति / (आ०म०द्वि) संप्रति विमल: / विगतमलो विमल: ज्ञानादियोद्वा विमल: तत्र सर्वेऽपि भगवन्त इत्थंभूता इतो विशेषमाह- विमलतणू ना
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy