________________ चउरंग १०५२-अभिधानराजेन्द्रः भाग-३ चउरंग - कम्मा नाणाविहा कट्ट, पुढो विस्संभिया पया।॥ 2 // समन्तादापन्नाः प्राप्ताः समापन्नाः / 'ण' इतिवाक्यालङ्कारे / क्वेत्याह-संसारे, तत्रापि क्व, नानेत्यनकार्थो गोत्रशब्दश्च नामपर्यायः, ततो नानागोत्रास्वनेकाभिधानासु जायन्ते जन्तव आस्विति जातयः क्षत्रियाद्याः, तासु। अथवा-जननानि जातयः, ततो जातिषु क्षत्रियादिजन्मसु नानाहीनमध्यमोत्तमभेदेनानेकं गोत्रं यासुतास्तथा तासु। अत्र हेतुमाहक्रियन्त इति कर्माणि, ज्ञानावरणादीनि, नानाविधानि अनेकप्रकाराणि, कृत्या निर्वयं, (पुढो त्ति ) पृथक् पृथक् भेदेन। किमुक्तं भवति?, एकैकशः ( विस्संभिय त्ति) विशेरलाक्षणिकत्वात् विश्वं जगद् विभ्रति पूरयन्ति क्वचित् कदाचिदुत्पत्त्या सर्वजगद्व्यापनेन विश्वभृतः / उक्तं च"णस्थि किर सोपएसो, लोए वालग्गकोडिमत्तो वि। जम्मणमरणावाहा, जत्थ जिएहिं न संपत्ता" | // 1 // इदमुक्तं भवति-अवाप्यापि मानुषत्वं स्वकृतविचित्रकर्मानुभावतः पृथग्गतिभागिन्य एव भवन्ति, काः ?प्रजा जनसमूहरूपाः, तदनेन प्राप्तमनुष्यत्यानामपि कर्मवशाद्विविधगतिगमनं मनुष्यत्वं दुर्लभहेतुरुक्तः / यद्वा-संसारे कर्माणि नानाविधानि कृत्वा पृथगिति भिन्नासु नानागोत्रास्वनेककुलकोट्युपलक्षितासु जातिषु देवाद्युत्पत्तिरूपासु समापन्नाः संप्राप्ताः, वर्त्तन्त इति गम्यते / “णं" इति प्राग्वदविश्रम्मिताः सञ्जातविश्रम्भाः सत्यः, प्रक्रमात्कर्मस्वेव तद्विपाकदारुणत्वापरिज्ञानात् / काः ? प्रजायन्ते इति प्रजाः प्राणिन इति सम्बन्धः। तदनेन प्राणिनां विविधदेवादिभवभवन मूलत एव मनुजत्वदुर्लभत्वे कारणमुक्तमिति सूत्रार्थः / / 2 / / __ अमुमेवार्थ भावयितुमाहएगया देवलोएसु, नरएसु वि एगया। एगया आसुरं काय, आहाकम्मेहि गच्छइ॥३॥ (एकदेति ) एकस्मिन् शुभकर्मानुभवकाले दीव्यन्ति देवाः, तेषां लोका उत्पत्तिस्थानानि देवगत्यादिपुण्यप्रकृत्युदयविषयतया लोक्यन्ते इति कृत्वा तेषु देवलोकेषु, नरान् कायन्ति योग्यतयाऽऽह्वयन्तीति नरकाः, तेषु रत्नप्रभादिषु नारकोत्पत्तिस्थानेषु, अपिशब्दस्य चार्थत्वात् तेषु चैकदा शुभानुभवकाले, तथैकदा तथाविधभावनाभावितान्तःकरणावसरे, असुराणामयमासुरस्तमसुरसम्बन्धिन, चीयत इति कायः, निकायमित्यर्थः / बालतपःप्रभृतिरपि तत्प्राप्तिरिति दर्शनार्थं देवलोकोपादानेऽपि पुनरासुरकायग्रहणम्। अथवा-देवलोकशब्दस्य सौधर्मादिषु रूढत्वात्तदुपादानमुपरितनदेवोपलक्षणमिदं चाधस्त्यदेवोपलक्षणमिति न पौनरूक्तयम् (आहाकम्मेहिं ति) आधानमाधा करणमित्यर्थः / तदुपलक्षितानि कर्माण्याधाकर्माणि, तैः / किमुक्तं भवति ?-स्वयं विहितैरेव सरागसंयममहारम्भासुरभावनादिभिर्देवनारकासुरगतिहेतुभिः क्रियाविशेषैर्यथाकर्मभिर्वा तत्तद्गत्यनुरूपचेष्टितैर्गच्छन्ति यान्ति / इति सूत्रार्थः // 3 // एगया खत्तिओ होइ, तओ चंभालवोक्कसो। तओ कीडपयंगो य, तओ कुंथुपिपीलिया / / 4 / / (एकदेति) मनुष्यजन्मानुरूपकर्मप्रकृत्युदयकाले, (खत्तिय त्ति) 'क्षण' हिंसायाम् / क्षणनानि क्षतानि, तेभ्यस्त्रायत इति क्षत्रियो राजा भवतिः, तत इति तदन्तरं तको वा प्राणी चण्डालः प्रतीतः / यदि वा शूद्रेण ब्राह्मण्यां जातश्चण्डालः, “वोक्कसो" वर्णान्तरभेदः / तथा च वृद्धा-"वंभणसुद्दीओ जाओ निसातो त्ति वुचति, वंभणेण वेसीए जाओ अंवट्ठो त्ति दुश्चति, तत्थ निसाएणं जो अंवट्ठीए जाओ सो वोक्कसो भण्णति।" इह च क्षत्रियग्रहणादुत्तमजा-तयः, चण्डालग्रहणान्नीचजातयः, “वोक्कस' ग्रहणाच्च सङ्कीर्णजातय उपलक्षिताः, ततः मानुषत्वादुद्द्त्येति शेषः, कीटःप्रतीतः, पतङ्गः शलभः / चःसमुचये, ततस्तको वा (कुंथुपिपीलिक त्ति) चशब्दस्य सुप्तनिर्दिष्टत्वात्कुन्थुः पिपीलिका च, भवतीति सर्वत्र संबध्यते। शेषतिर्यग्भेदोपलक्षणं चैतदिति सूत्रार्थः।।४।। किमित्थं पर्यटन्तस्ते निर्विद्यन्ते, न वेत्याहएवमावट्टजोणीसु. पाणिणो कम्मकिदिवसा। न निव्विज्जति संसारे, सव्वद्वेसुय खत्तिया / / 5 / / कम्मसंगेहि संमूढा, दुक्खिया बहुवेयणा। अमाणुसासु जोणीसु, विणिहम्मति पाणिणो।।६।। एवममुनोक्तन्यायेन, आवर्तनमावर्तः परिवर्त इति योऽर्था युवन्ति मिश्रीभवन्ति कार्मणशरीरिण औदारिकादिशरीरैराशु जन्तवो युपन्ते सेवन्ते ता इति वा योनय आवर्तापलक्षिता योनयस्तासु, प्राणिनो जन्तवः, कर्मणोक्तरूपेण, किल्विषा अधमाः कर्मकिल्विषाः, प्राकृतत्वाद्वा पूर्वापरनिपातः / किल्विषाणि क्विष्टतया निकृष्टान्यशुभानुबन्धीनि कर्माणि येषां ते किल्विषकर्माणो न निर्विद्यन्ते कदैतद्विमुक्तिरिति नोद्विजन्ते, क्व आवर्तयोनय इत्याहसंसारे भवे, केष्विव के न निर्विद्यन्ते इत्याह-सर्वे च तेऽर्थाश्च मनोज्ञशब्दादयो, धनकनकादयो वा सर्वार्थास्तेष्विव, क्षत्रिया र जानः / किमुक्तं श्रवति / यथा मनोज्ञान् शब्दादीन भुजानानां तेषांतदर्थोऽभिवर्धत, एवं तासुयोनिषु पुनरूत्पत्त्या कलङ्कलीभावमनुभवतामपि भवाभिनन्दिनां प्राणिनामिति, कथमन्यथा न तत्प्रतिघातार्थसुद्यच्छेयुरिति भावः 1 पाठान्तरं वा-"सबढ़ इय खत्तिय ति" इवो भिन्नक्रमः, ततः सर्वैः शयनादिभिरर्थः प्रयोजनमस्येति सर्वार्थः, क्षत्रियः, स चार्थाद्रभष्टराज्यः, तथैतेऽपि प्राणिनः सुखान्य-भिलपन्तः, अनिर्विद्यमानाश्च कर्मभिानावरणीयादिभिःसङ्गाः सम्बन्धाः कर्मसंयोगास्तैः, यद्वा--कर्माण्युक्तरूपाणि, तत्क्रियाविशेषात्मकानि वा, तथा सज्यन्तेऽमीषु जन्तव इति सङ्गा, शब्दादयोऽभिष्वङ्गविषयाः, त एव च कर्माणि च सङ्गाश्च कर्मसङ्गास्तैः, समिति भृशं, मूढाः वैचित्र्यमुपगताः संमूढा दुःखमसातात्मकं जातमेषामिति दुःखिताः। कदाचित्तन्मानसमेव स्यादत आह-बहुवेदना वेदनाः शरीरय्यथा येषां ते तथा, मनुष्याणामिमा मानुष्याः, न तथाऽमानुष्यास्तासु नरकतिर्यगाभियोग्यादिदेवदुर्गतिसंबन्धिनीषु, योनिष्वभिहितरूपासु, विहन्यन्ते विशेषण निपात्यन्तेऽर्थात् कर्मभिः कोऽर्थो न तत उत्तारं लभन्ते, प्राणिनो जन्तवः, तदनेन सत्यप्यावर्ते निर्वेदाभावात्कर्मसङ्गसंस्तवात् दुःखहेतुर्नरकादिगत्यनुत्तरणेन प्राणिनो मनुजत्वं न लभन्त इत्युक्तमिति सूत्रद्वयार्थः / / 5 / / 6 // कथं तर्हि तदवाप्तिरित्याहकम्माणं तु पहाणाए, आणुपुथ्वी कयाइ उ। जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं // 7 // कर्मणां मनुजगतिनिबन्धकानां, तुः पूर्वस्माद्विशेषद्योतकः,