________________ चउरंग १०५३-अभिधानराजेन्द्रः भाग-३ चउरंग ए त्ति प्रकृष्ट हानमपगमः प्रहाणं, तस्यायो लाभः प्रहाणायः, तस्मिन् / यद्वा-सूत्रत्वात्प्रहाणौ प्रहान्या वा तद्विबन्धकानन्तानुबन्ध्यादिकर्मसु प्रहीणेषु कुतश्चिदीश्वरानुग्रहादेस्तदप्राप्तेः, अन्यथा हि तद्वैफल्यापत्तिः। अनेन-"अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेत्, स्वभ्रं वा स्वर्गमेव वा।" // 1 // इत्यपास्तं भवति / अथ कथं पुनस्तेषां प्रहाणिरित्याह-आनुपूर्व्या क्रमेण, न तु झगित्येव, तयाऽपि (कयाइ उत्ति) तुशब्दस्यैवकारार्थत्वात्कदाचिदेव, न सर्वदा, जीवाः प्राणिनःशुद्धिं क्लिष्टकर्मविगमात्मिकाम् 'अनु' तद्विघातिकर्मापगमस्य, पश्चात्प्राप्ताः, आददते स्वीकुर्वन्ति मनुष्यताम् / पाठान्तरतः (आजायंते मणुस्सयं ति) सुप्प्रत्ययात् मनुष्यतायां तदैव तन्निवर्तकमनुजगत्यादिकोदयादिति भावः / अनेन मनुजत्वनिबन्धककर्मापगमस्य तथाविधकालादिसव्यपेक्षत्वेन दुरापतया मनुष्यत्वदुर्लभत्यमुक्तमिति सूत्रार्थः॥७॥ कदाचिदेतदवाप्तौ श्रुतिः सुलभैव स्यादत आहमाणुस्सं विग्गहं लद्धं, सुई धम्मस्स दुलहा। जं सोचा पडिवजंति, तवं खंतिमहिसयं // 8 // (माणुस्सं ति) सूत्रत्वान्मानुष्यकं मनुष्यसम्बन्धिनं विशेषणं गृह्यते, आत्मना कर्मपरतन्त्रेणेति विग्रहः। तं मनुजगत्याधुपलक्षितमौदारिकशरीरम् ( लद्धं ति ) अपेर्गम्यमानत्याल्लब्ध्वाऽपि श्रुतिराकर्णनं कस्य धारयति, दुर्गतौ निपततो जीवानिति धर्मः। तथा च वाचक:“प्राग्लोकविन्दुसारे, सवक्षिरसन्निपातपरिपठिता। धृ धारणार्थो धातु-स्तदर्थयोगाद्भवति धर्मः॥१॥ दुर्गतिभयप्रपाते, पतन्तमभयकरदुर्लभप्राणे। सम्यक्त्वरितो यस्माद्, धारयति ततः स्मृतो धर्मः॥२॥" तस्यैवमन्वर्थनाम्नो धर्मस्य दुर्लभा दुरापा प्रागुक्ताऽऽलस्यादिहेतुतः। स च-"मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराहे। द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः" / / इत्यादि सुगतादिकल्पितोऽपि स्यादतस्तदपोहायाऽऽहयं धर्म श्रुत्वा प्रतिपद्यन्ते अङ्गीकुर्वन्तितपोऽनशनादिद्वादशविधं, क्षान्तिं क्रोधजयलक्षणं मानादिजयोपलक्षणं चैषा अहिंसयति अहिंस्रतामहिंसनशीलतामेनन च प्रथमव्रतमुक्तमेतच शेषव्रतोपलक्षणम्, एतत्प्रधानत्वात्तेषाम्, एतत्तुल्यानि हि शेषव्रतान्येवं च तपसः क्षान्त्यादिचतुष्कस्य महाव्रतपञ्चकस्य चाभिधानाहशविधस्यापि यतिधर्मस्याभिधानमिह च यद्यपि श्रुतेः शाब्द प्राधान्य तथापि तत्त्वतो धर्म एव प्रधान, तस्या अपि तदर्थत्वा-दिति, स एव यच्छब्देन परामृश्यते / अथ च कावा नीयते यस्मात् छुत्वा प्रतिपद्यन्ते तपःप्रभृतिना श्रुत्वा “सोचा जाणति कल्लाणं, सोचा जाणति पावगं" इत्यागमात् तत एवमतिमहार्थतया दुरापेयमिति सूत्रार्थः / / 8 // श्रुत्यवातावपि श्रद्धादुर्लभतामाहआहच सवणं लद्धं, सद्धा परमदुलहा। सोचा नेयाउयं मग्गं, वहवे परिभस्सई // 6 // (आहचेति) कदाचित् श्रवणं प्रक्रमाद्धकर्णनम्, उपलक्षणत्वान्मनुष्यत्वं च, लब्ध्वेति, अपिशब्दस्य गम्यमानत्वात् लब्ध्वा- | ऽप्यवाप्याऽपि, श्रद्धा रुचिरूपा, प्रक्रमाद्धर्मविषयैव, परमदुर्लभाऽतिशयदुरापा / कुतः परमदुर्लभत्वमस्या इत्याह-श्रुत्वाऽऽकर्ण्य, न्यायेन चरति प्रवर्तते नैयायिको, न्यायोपपन्न इत्यर्थः / स्वं मार्ग सम्यग्दर्शनाद्यात्मकं मुक्तिपथं प्राप्तमपि, बहवो नैक एव, परीति सर्वप्रकारम् (भस्सइ ति) भ्रस्यन्ति च्यवन्ते, प्रक्रमान्नैयायिकमार्गादव, यथा यमालिप्रभृतयो, यच प्राप्तमप्यपैति तचिन्तामणिवत्परमदुर्लभमेवेति भावः / इहैव केचिन्निह्नववक्तव्यतां व्याख्यातवन्तः, उचितं चैतदप्यास्ते इति सूत्रार्थः // 6 // एतत् त्रयावाप्तावपि संयमवीर्यदुर्लभत्वमाहसुइं च लद्धं सद्धं च, वीरियं पुण दुल्लहं / वहवे रोयमाणा वि, नो य णं पडिवज्जए / / 10 / / श्रुतिं, चशब्दान्मनुष्यतवम्, (लद्धं ति) प्राग्लब्ध्वाऽपि, श्रद्धां च वीर्य प्रक्रमात्संयमविषयं, पुनःशब्दस्य विशेषत्वात् विशेषेण दुर्लभम्, यतो बहवो नैक एव रोचमाना अपि न केवलं प्राप्तमनुष्यत्वाः शृण्वन्तो वेत्यपिशब्दार्थः / श्रद्दधाना अपि, (नो चेति) चशब्दस्यैवकारार्थत्यान्नैव, 'ण' इति वाक्यालङ्कारे / अथवा-(णो य णं इति) सूत्रत्वात् (नोयणं पडिवजइ इति) तत एव प्रतिपद्यन्ते / चारित्रमोहनीयकर्मोदयतः सत्यकिश्रेणिकादिवन्न कर्तुमभ्युपगच्छन्ति इति सूत्रार्थः // 10 // संप्रति दुर्लभस्यास्य चतुरङ्गस्य फलमाहमाणुसत्तम्मि आयाओ, जो धम्मं सोच सद्दहे। तवस्सी वीरियं लद्धं, संवुडे निद्धणे रयं // 11 // मानुषत्वे मनुजत्वे आयात आगतः, किमुक्तं भवति? -मानुषत्वं प्राप्तो य इत्यनिर्दिष्टस्वरूपो, य एव कश्चिद्धम॑ श्रुत्वा (सद्दहे त्ति) श्रद्धते रोचते, (तपस्सि त्ति) दानादिविरहिततया प्रशस्यतपोऽन्यितः, कथं, वीर्य संयमोद्योगं लब्ध्वा संवृतः स्थगितसमस्ताश्रवः। स किमित्याह-(निद्धणे त्ति) निर्द्धनोति नितरामपनयति, रज्यते स्वच्छस्फटिकवच्छु(स्वभावोऽप्यात्माऽन्यथात्वमापद्यत इति रजःकर्म वध्यमानकंवद्धं च तदपनयाच मुक्तिमाप्नोति इति भावः। उभयत्र “लिप्स्यमानसिद्धौ च" / 5 / 3 / 101 इति ( हैम०) वा लट् / इह च श्रद्धानेन सम्यक्त्वमुक्तं, तेन च ज्ञानमाक्षिप्त, दीपप्रकाशयोरिव युगपदुत्पादात्तवोः, तथा च “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति न विरुध्यत इति सूत्रार्थः॥ 17 // इत्यमामुष्मिकं फलमुक्तमिदानीमिहैव फलमाहसोही उजुयभूयस्स, धम्मो सुद्धस्स चिट्ठइ। निष्वाणं परमं जाइ, घयसित्त व पावए / / 12 / / शुद्धिः कषायकालुष्यापगमो, भवतीति गम्यते। क्रजुकभूतस्य चतुरङ्गप्राप्त्या मुक्ति प्रति प्रगुणीभूतस्य, तथा च धर्मः क्षान्त्यादिः, शुद्धस्य शुद्धि प्राप्तस्य तिष्ठत्यविचलिततयाऽऽस्ते इति। अशुद्धस्य तु कदाचित् कषायोदयात्तद्विचलनमपि स्यादित्याशयः, तदवस्थितौ च निर्वाणं निर्वृतिः, स्वास्थ्यमित्यर्थः। परमं प्रकृष्टम्, “एगमासपरियाएसमणे वंतरियाणं तेयलेसं वीईवयति" इत्याद्यागमेनोक्तं नैवास्ते, राजराजस्य तत्सुखमित्यादिना च वाचकवचनेनानूदितं, याति प्राप्नोति, क इव (धयसित्ते व त्ति) इवस्य भिन्नक्रमत्वात्, घृतेन सिक्तो घृतसिक्तः, पुनातीति पावकोऽग्निर्लोकप्रसिद्ध्या, समयप्रसिद्ध्या तु पापहेतुत्वा