SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ओगाहणा 83- अभिधानराजेन्द्रः - भाग 3 ओगाहणा समुद्रबाह्यवेदिकान्ते यदि वा ईषत्प्रारभाराभिधपृथिवीपर्यन्तं पृथिवी-| कायिकतयोत्पद्यते तदा भवत्युत्कर्षतो यथोक्ता, तथा तैजसशरीरावगाहना सनत्कुमारदेवस्यापि जघन्यतोऽङ्गु लासंख्येयभागप्रमाणा| तैजसशरीरावगाहना। कथमिति चेदुच्यते इह सनत्कुमारादय एकेन्द्रियेषु विकलेन्द्रियेषु वा नोत्पद्यन्ते तथा भवस्वाभाव्यात् किन्तु तिर्यक् पञ्चेन्द्रियेषु मनुष्येषु वा ततो यदा मन्दरादिषु पुष्करिण्यादिषु जलावगाह कुर्वन्तः स्वभवायुः क्षयात्तत्रैव प्रत्यासन्ने देशे मत्स्यतयोत्पद्यन्ते तदाऽङ्गुलासंख्येयभागप्रमाणा द्रष्टव्या।अथवा पूर्वसम्बन्धिनी मनुष्यस्त्रियं मनुष्येणोंपभुक्तामुपलभ्य गादानुरागादिहागत्य परिष्वजते परिष्वज्य च तदवाच्यप्रदेशे स्वावाच्यं प्रक्षिप्य कालं कृत्वा तस्या एव गर्भे पुरुषबीजे समुत्पद्यते तदा लभ्यते ततोऽघः पातालकलशानां लक्षयोजनप्रमाणावगाहनां द्वितीयत्रिभागं यावतिर्यक् यावत्स्वयंभूरमणपर्यन्तमूर्वे यावदच्युतकल्पस्तावदवगन्तव्या। कथमिति चेदुच्यते इह सनत्कुमारादिदवानामन्यदैव निश्रया अच्युतकल्पं यावद्गमने भवतिनचतत्र वाप्यादिषु मत्स्यादयः सन्ति तत इह तिर्यग्मनुष्येषूत्पत्तव्यम्। तत्रयदा सनत्कुमारदेवोऽन्यदैव निश्रया अच्युतकल्पं गतो भवति तत्र च गतः सन् स्वायुःक्षयात्कालं कृत्वा तिर्यक्स्वयंभूरमणपर्यन्ते यदिवाऽधःपातालकलशानां द्वितीये विभागे वायूदकयोरुत्सरणापसरणभाविनिमत्स्यादितयोत्पद्यते तदा भवति तस्य तिर्यगधो वा यथोक्तक्रमेण तैजसशरीरावगाहनेति (एवं जाव सहस्सारदेव-स्सत्ति)एवं सनत्कुमारदेवगतेन प्रकारेण जघन्यत उत्कर्षतश्च तैजसशरीरावगाहना तावद्वाच्या यावत्सहस्रारदेवभावनाऽपि च सर्वत्रापि च समाना आनतदेवस्यापि जघन्यतोऽङ्गुलासंख्येयभागप्रमाणा तैजसशरीरावगाहना नन्वानतादयो देवा मनुष्येष्वेवोत्यन्ते / मनुष्याश्च मनुष्यक्षेत्र एवेति कथमङ्गुलासंख्येयभागप्रमाण उच्यते / इह पूर्वसम्बन्धिनी मनुष्यस्त्रियमन्येन मनुष्येणोपभुक्तामानतदेवः कश्चनाप्यवधिज्ञानत उपलभ्यासन्नमृत्युतया विपरीतस्वभावत्वात् सत्वचरितवैचित्र्यात् कर्मगतेरचिन्त्यत्वात् कामवृत्तेमलिनत्वाच्च / उक्तं च। “सत्वानां चरितं चित्रं, विचित्रा कर्मणां गतिः। मलिनत्वं च कामानां, वृत्तिः पर्यन्तदारुणा" इति। गाढानुरागादिहागत्य कुतोऽपि गूढान्तां परिष्वज्य तदवाच्यप्रदेशे स्वावाच्यं प्रक्षिप्यातीव मूर्छितं स्वायुःक्षयात्कालं कृत्वा यदा तस्या एव गर्भे मनुष्यबीजे | मनुष्यत्वेनोत्पद्यते / मनुष्यबीजं च जधन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वादश मुहूर्तान् यावदवतिष्ठति। उक्तं च / “मणुस्सवीएणं भंते! कालाओ केव चिरं होइ? गोयमा ! जहन्नेणं अंतो मुहुत्तं उक्कोसेणं वारस मुहुत्ता इति" / ततो द्वादशमुहूर्ताभ्यन्तरे उपभुक्तां परिष्वज्य मृतस्य तत्रैवोत्पत्तिर्मनुष्यत्वेन द्रष्टव्या। उत्कर्षतोऽधो यावदधोलौकिका ग्रामास्तिर्यग यावन्मनुष्यक्षेत्रमूर्ध्व यावदच्युतः कल्पस्तावदवसेया। कथमिति चेदुच्यते। इह यदानतदेवः कस्याप्यन्यस्य निश्रया अच्युतकल्पंगतो भवति स च तत्र गतः सन् कालं कृत्वाऽधो लौकिकग्रामेषु यदि वा मनुष्यक्षेत्रपर्यन्तं मनुष्यत्वेनोत्पद्यते तदा लभ्यते / एवं प्राणतारणाच्युतकल्पदेवानामपि भावनीयं तथा चाह।" "एवं जाव आरणदेवस्स अच्चुयदेवस्स एवं चेव नवरं | उडेजावसयाई विमाणाई" इति अच्युतदेवस्यापि जघन्यत उत्कर्षतश्च | तैजसशरीरावगाहना। एवमेव एवं प्रमाणैव परं सूत्रपाठे। “उड्डेजाव सयाई | विमाणाई” इति वक्तव्यम्।नतु"उड्डेजाव अचुओ कप्पो" इति। अच्युतदेवो हि यदा चिन्त्यते तदा कथमूर्ध्वं यावदच्युतकल्प इति घटते तस्य तस्य विद्यमानत्वात् केवलमच्युतदेवोऽपि कदाचिदूचे स्वविमानपर्यन्तं यावद्गच्छति तत्र च गतः सन् कालमपि करोति तत उक्तम् “उटुंजाव स याई विमाणाइं” इति / ग्रैवेयकानुत्तरसुरा भगवद्वन्दनादिकमपि तत्रस्था एव कुर्वन्तितत इहागमनासंभवादमुलासंख्येयभागप्रमाणनान लभ्यते। किन्तु यदा वैताढ्यगतासु विद्याधरश्रेणिषूत्पद्यन्ते तदा स्वस्थानादारभ्याधो यावद्विद्याधरश्रेणयस्तावत्प्रमाणा जघन्या तैजसशरीवगाहना। अतोऽपि मध्ये जघन्यतराया असंभवात् / उत्कृष्टा यावदधोलौकिका ग्रामास्ततो-ऽप्यधउत्पादासंभवात्। तिर्यग्यावन्मनुष्यक्षेत्रपर्यन्तस्ततः परं तिर्यगप्युत्पादाभावात्। यद्यपि हि विद्याधरा विद्याधर्यश्च नन्दीश्वरं यावद्गछन्ति अकि संभोगमपि कुर्वन्ति तथापि मनुष्यक्षेत्रात्परतो गर्भे मनुष्येषु नोत्पद्यन्ते ततस्तिर्यग् यावन्मनुष्यक्षेत्रमित्युक्तम्। प्रज्ञा२१ पद। स्था०। (सिद्धानामवगाहनासिद्धशब्दे वक्ष्यामिउत्पलजीवानामवगाहनाऽत्रैवोक्तापर्याप्तानां संज्ञिपञ्चेन्द्रियतिर्यग्योनिकस्य नैरयिकेषूपपन्नस्यावगाहना उववायशब्दे) (13) अथजीवप्रदेशपरिमाणनिरुपणपूर्वक निगोदादी नामवगाहनामानमभिधित्सुराह / लोगस्स य जीवस्स य, होति पएसा असंखया तुल्ला। अंगुलअसंखभागो, निगोयजीयगोलगोगाहो // 13 // लोकजीवयोः प्रत्येकमसंख्येयाः प्रदेशा भवन्ति ते च परस्परेण तुल्या एव। एषां च संकोचविशेषात्। अङ्गुलासंख्येयभागो निगोदस्य तज्जीवस्य गोलकस्य चावगाह इति। निगोदादिसमावगाहनतामेव समर्थयन्नाह / जम्मि, जीओ तमेव, निगोयतो तम्मि चेव गोलो वि। निप्पल जं खेत्ते, तो ते तुल्लावगाहणया / / 14 // यस्मिन् क्षेत्रे जीवोऽवगाहते तस्मिन्नेव निगोदो निगोदव्याप्त्या जीवस्यावस्थानात् / (तोत्ति) ततस्तदनन्तरं तस्मिन्नेव गोलोऽपि निष्पद्यते विवक्षितनिगोदावगाहनातिरिक्तायाः शेषनिगोदावगाहनाया गोलकान्तरप्रवेशेन निगोदमा त्रत्वाद् गोलकावगाहनाया इति। यद्यस्मात्क्षेत्रे आकाशे ततस्ते जीवनिगोदगोलास्तुल्यावगाहनकाः समावगाहनका इति। अथ जीवाद्यवगाहनासमता सामर्थ्येन यदेकत्र प्रदेशे जीवप्रदेशमानं भवति तद्विभणिषुस्तत्प्रस्थापनार्थे प्रश्न कारयन्नाह। उकोसपयपएसे, किर्मगजीवप्पएसरासिस्स। होजेगनिगोयस्सव, गोलस्सव किं समोगाढं // 15 // तत्र जीवमाश्रित्योत्तरम् / जीवस्स लोगमेत्तस्स,सुहुमओगाहणावगाढस्स। एकेकम्मि पएसे, होति पएसा असंखेज्जा / / 16|| तेच किल कल्पनया कोटिशतसंख्यस्य जीवप्रदेशराशेः प्रदेशदशसहस्त्रे स्वरुपजीवावगाहनया भागे हृते लक्षमाना भवन्तीति / अथ निगोदमाश्रित्याह। लोगस्स हिए भागे, निगोयओगाहणाइ जं लद्धं / उक्कोसपए तिगयं, एत्तियमेक्कक्कजीवाओ॥१७॥ लोकस्य कल्पनया प्रदेशको टिशतमानस्य हृते भागे निगोदावगहनया कल्पनातः प्रदेशदशसहस्त्रिमानया यल्लब्ध तश्च
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy