________________ घडावित्ता १०३६-अभिधानराजेन्द्रः भाग-३ घडिमंतय घडावित्ता-अव्य० (घटयित्वा) निर्माप्येत्यर्थे,आ०म० द्वि०। घडिअघडा-(देशी) गोष्ठ्याम,दे० ना०२वर्ग। घडिमंतय-न० (घटीमात्रक) घटीसंस्थानमृण्मयभाजनविशेषे.वृ०। / कप्पइ णिग्गंथीर्ण अंतोलित्तं घमिमंतयं ति धरित्तए वा परिहरित्तए वा। अस्य सूत्रस्य संबन्धमाहओहाडिएँ चिलिमिलिए,दुक्खं बहुसो अइंति निति विय। आरंभो घडिमंते,निसिं च वुत्तं इमं तु दिवा // चिलिमिलिकया,उपलक्षणत्वात्कटद्वयेन च,अवघाटिते पिनद्धे सति द्वारे रजन्यां मात्रकमन्तरेण बहिः कायिक्यादिव्युत्सर्जनार्थ बहुशो निर्गमप्रवेशेषु दुःखमार्यिका निर्गच्छान्ति,प्रविशन्ति च अत्रायं घटीमात्रकसूत्रस्यारम्भः / यद्वानिशायां रात्रौ मात्रके यथा कायिकी व्युत्सृज्यते, तथाऽनन्तरसूत्रेऽर्थतः प्रोक्तम्,इदं तु सूत्रं दिवा मात्रकमधिकृत्योच्यते इति। अनने संबन्धेनाऽऽयातस्यास्य व्याख्या-कल्पते निर्ग्रन्थीनामन्तलिप्तं घटीमात्रकं घटीसंस्थानं मृन्मयभाजनविशेष धारयितुं वा परिहर्तुं वा / धारयितुं नाम-स्वसत्तायां स्थापयितुं,परिहतु परिभोक्तुम् एष सूत्रार्थः। अथ नियुक्ति:घडिमंतंऽतो लित्तं,निग्गंथीणं अगिण्हमाणीणं / चउगुरुगाऽऽयरियादी,तत्थ वि आणाइणो दोसा।। अन्तर्मध्ये लिप्त लेपेनोपदिग्धं घटीमात्रक निर्ग्रन्थीनामगृह्णातीनां चतुगुरुकाः (आयरियाइ ति) आचार्य एतत्सूत्रं प्रवर्तिन्या न कथयति चतुर्गुरु,प्रवर्त्तिनी आर्यिकाणां न कथयति चतुर्गुरु ,आर्यिका न प्रतिशृण्वन्ति मासलघु,तत्रापि घटीमात्रकस्याग्रहणेऽकथनेऽप्रतिश्रवणे वाऽऽज्ञादयो दोषाः। आह-स घटीमात्रकः कीदृशो भवति? इत्याहअपरिस्साई मसिणो,पगासवइणो स मिम्मओ लहुओ। सुयसियदद्दरपिहुणो,चिट्ठइ अरहसि वसहीए।। स इति घटीमात्रकः पानकेनात्यन्तभावितत्वादवश्यं न परिस्रवतीत्यपरिस्रावी,मसृणः सुकुमारः,प्रकाशः प्रकटं वदनं मुखमस्येति प्रकाशवदनः,मृन्मयो मृत्तिकानिष्पन्नो,लघुकः स्वल्पभारः,शुचि पवित्रं, चाक्षमित्यर्थः / शितं श्वेतं शुक्लवर्णाद्युपेतं,दर्दरपिधानं वस्त्रमयं बन्धनं यस्य स शुचिसितदर्दरपिधानः,एवंविधः,अरहसि प्रकाशप्रदेशे वसत्या तिष्ठति। नो कप्पइ निग्गंथाणं अंतोलित्तं घडिमंतं धारित्तए वा परिहत्तए वा। अस्य व्याख्या प्राग्वत्। __अत्र नियुक्तिःसाहू गिण्हइ लहुगा,आणाइ विराहणा अणुवहि त्ति। विइयं गिलाणकारणे,साहूण वि सो अवादीसु॥ यदि साधुर्घटीमात्रकं गृह्णाति तदा चत्वारो लघुकाः, आज्ञादयश्च दोषाः, विराधना च संयमात्मविषया। तत्र (अणुवहि ति) साधूनामयसुवपधिर्न भवति / किमुक्तं भवति ? यत्किल साधूनामुषकारे न | व्याप्रियते,तन्नोपकरणं,किंतु अधिकरणम्। “जं जुजइ उवयारे,उवगरणं तसि होइ उवगरणं / अइरेयं अहिगरणं," इति वचनात्। यः स्वाधिकरणं, तत्र परिस्फटितेऽपि संयमविराधनाऽऽत्मविराधनाव्यतिरिक्तोपधिभारवहनादनागाढपरितापनादिका (विइयं ति) द्वितीयपदमत्र भवति। किं पुनस्तदित्याह-ग्लानकरणे समुत्पन्ने साधूनामपि घटीमात्रकग्रहणं वुवते,तदपि शौचवादिषु शिष्येषु देशविशेषेषु वा,तदुत्तरत्र भावयिष्यते। अथ किमर्थमत्र चतुर्लघु प्रायश्चित्तमुक्तम् ? अत्रोच्यतेदुविहपमाणतिरेगे,सुत्तादेसेण तेण लहुगाओ। मज्झिमगं पुण उवडिं,पडुच्च मासो भवे लहुओ। द्विविधं द्विप्रकारं गणनाप्रमाणभेदाधतप्रमाणं,ततोऽतिरिक्ते उपधौ सूत्रादेशेन चतुर्लघुका भवन्ति / यत उक्तं निशीथसूत्रे-“जे भिक्खु गणणाइरित्तं वा पमाणाइरित्तं वा उवहिं धरेइ,से अवस्सं चाउम्मासियं, परिहरणे हाण उग्घाइयं 'इत्यतः सूत्रादेशेन चतुर्लघुकं यदातपविनिष्पन्नं चिन्त्यते तदा अयं घटीमात्रको मध्यमोपधिष्ववतरतीति कृत्वा मध्यम पुनरुपधिं प्रतीत्य लघुको मासो भवति॥ अवधारयितुं परिहर्तुं चेति पदद्वयव्याख्यानमाहधारणयाउ अभोगो,परिहरणा तस्स होइ परिभोगो। दुविहेण वि सो कप्पइ,परिहारेणं तु परिभोत्तुं / / इह द्विधा परिहारः / तद्यथा-धारणा परिहरणा,अभोगोऽव्यापारण, संयमोपवृंहणार्थं स्वसत्तायां स्थापनमित्यर्थः / परिहरणा नाम तस्य घटीमात्रकादेरूपकरणस्य परिभोगो व्यापारणम् एतेन द्विविधेनापि परिहारेण सघटीमात्रको निर्गन्थीनां परिभोक्तुं कल्पते,सच दिवसंचेत्पानकपूर्णस्तिष्ठति। अथ किमर्थमथं गृह्यत इत्याहउज्जाहो वोसिरणे,गिलाणआरोवणा य धरणम्मि। विइयपए असई वा,भिन्नो वा अद्धलित्तो वा।। संयतीभिरुत्सर्गतो द्रव्यप्रतिबद्धायां वसतौ स्थातव्यं,तत्र घटीमात्रकाग्रहणेऽगारिकाणां पश्यता बहिः कायिकीव्युत्सर्जने उड्डाहः प्रवचनलाघवमुपलायते। अथ कायिक्या वेगं धारयन्ति,ततो धारणे ग्लानारोपणा,यत एवमतो गृहीतव्यो घटीमात्रकः संयतीभिः। द्वितीयपदम्-असत्यविद्यमाने घटीमात्रके, यदिवा विद्यते घटीमात्रकः परं भिन्नो भग्नः,अर्द्धलिप्तो वा,अत एवोहा अव्याप्रियमाणा,ततो बहिर्गत्वा कायिकीयतना व्युत्सर्जनीया,निर्ग्रन्थाः पुनरप्रतिबद्धोपाश्रये तिष्ठन्ति,अतस्ते घटीमा-- त्रकं न गृह्णन्ति। कारणे तु गृह्णन्त्यपिलाउऐं असइ सिणेहो,ठाइ तहिं पुव्वभाविऍ कडाहे। सेहो व सोयवाई,धरंति देसंच ते पप्प / / अलाबुपात्रकस्याभावेग्लानार्थं चस्नेहं ग्रहीतव्यं,पूर्वभाषितंकटाहकं घटीमात्रकं वा गृहीतव्यं,यतस्तत्र गृहीतः स्नेहः तिष्ठति,न परिश्रयति, शैक्षो वा कश्चित् साधूनां मध्ये अत्यन्तं शौचवादी,न शौचार्थ घटीमात्रक गृह्णीयात्,देशं वा देशविशेषं शौचवादबहुलं प्राध्य घटीमात्रकं धारयन्ति यथा गौडविषये। अथ तस्यैव ग्रहणे विधिमाहगहणं तु अहागडए,तस्सासइ होइ अप्पपरिकम्म।