________________ गोयरचरिया १००६-अभिधानराजेन्द्रः भाग-३ गोयरचरिया सङ्कल्पनानन्तरंतुन दुष्टमित्येतदाहस्वोचिते तु यदारम्भे,तथा संकल्पनं कृचित्। न दुष्टं शुभभावत्वात्,तच्छुद्धापरयोगवत् // 7 // स्वस्थ शरीरकुटुम्बादेः उचितो योग्यः स्वोचितः तस्मिन्,तुशब्दः पुनःशब्दार्थः,यदिति संकल्पनम् आरम्भे पाकादिरूपे सति,तथा तेन प्रकारेण स्वयोग्यातिरिक्तपाकशून्यतया,संकल्पनमिदं स्वार्थमुपकल्पितमन्नमतो मुनीनामुचितदानेनाऽऽत्मानमथ पूतपापमाधास्यामीति चिन्तनं,क्वचित् कस्मिंश्चिदेवारम्भे न तु साध्वनुचितद्रव्यपाकरूपे,तदित्यस्येह दर्शनात्तत्संकल्पनं, नदुष्टम् नदोषवत्,न तत् पिण्डदूषणकारणम्,कुत इत्याह-शुभभावत्वात् चित्तविशुद्धिमात्रत्वात्,न हि तत् / संकल्पनं साध्वाद्यर्थपृथिव्यादिजीवोपमर्दनिमित्तम्,अपि तु दायकस्य शुभभावमात्रं तदिति भावः / किंवदित्याहशुद्धापरयोगवत्,यः शुद्धः प्रशस्तोऽपरयोगः संकल्पनव्यतिरिक्तव्यापारो मुनिवन्दनादिः तद्वत् / यथाहि मुनिविषयो नमनस्तवनादिरनवद्यो व्यापारोन पिण्डदूषणकारणमेवमेवंविधसंकल्पनमपीति भावनेति॥७॥ यदुक्तमसंभविनोऽसंकल्पितस्याभिधानादाऽऽप्तस्यानाप्ततेति, तत् परिहरन्नाहदृष्टोऽसंकल्पितस्यापि,लाभ एवमसंभवः। नोक्त इत्याप्ततासिद्धिः,यतिधर्मोऽतिदुष्करः॥ 8 // दृष्ट उपलब्धोऽसंकल्पितस्यापि यत्याद्यर्थमसंभावितस्यापि,न केवलं संकल्पितस्यैव लाभो भवतीत्यदृष्ट इत्यपिशब्दार्थः / लाभः प्राप्तिः,पिण्डस्येति गम्यते। यतो गृहस्था अदित्सवोऽपि स्वगृहकान्तारादिषु,तथा भिषणामभावेऽपि तथा रात्र्यादौ भिक्षाऽनवसरेऽपि पार्क कुर्वन्ति,तथा कथञ्चिद्ददत्यपीति दृश्यते। आह च “संभवइ य एसो वि हु,केसिंचि य सूयगाइभावे वि। अवि सेसुवलंभाओ, तत्थ वि तल्लाभसिद्धीओ॥१॥" एवं च यदुक्तम् “यो न संकल्पित" इत्यादि,तथा “न चैवं सदगृहस्थानाम्" इत्यादि च। तत्परिहृतम्। गाथा चेह "सडाविय केइ इहं,विसेसओ धम्मसत्थकुसलमई / इय न कुणंति वियडणमेवं भिक्खाइए च इमे।। 1 / / " यद्यसंकल्पितस्यापि पिण्डस्य लाभो दृष्टस्ततः कि मिति ? आह-एवमिति-अनेनासंकल्पितप्रकारेण पिण्डलाभदर्शने सति,असंभवः-असंभावना,अप्राप्तिसंकल्पितपिण्डस्य, नोक्तो नाभिहितः,आतेन / ततः किमिति? आह-इतिशब्दो हेत्वर्थः / तेन असंभविपिण्डस्यानभिधानाद्धेतोः,संभविन एवाभिधानादित्यर्थः / आतताया असभविपिण्डाभिधानसंभावितानप्ताताव्यतिरेकभूतायाः, सिद्धिः प्रतिष्ठा,आप्ततासिद्धिः,शास्तुरिति गम्यते। अथवा-भवत्ससंकल्पितपिण्डस्य संभवः,तथापि तवृत्तेर्दुष्करत्वात्तत्प्रणेतुरनाप्ततैवेत्याहयतिधर्मो मूलगुणोत्तरगुणसमुदायरूपः,अतिदुष्करोऽतीव दुष्परिपाल्य इति प्रसिद्धमेव,नानेनाऽऽप्तस्यानाप्तता भवति। अनन्योपायत्वान्मोक्षस्येति। आह च "दुक्करयं अह एवं,जइधम्मो दुक्कारो चिय पसिद्धोकिं पुण एस पयत्तो,मोक्ख फलत्तेण एयस्स"॥ 1 // इति। ततो हे कुतीर्थिकाः ! यदि यूयमात्मनो यतित्वेन सर्वसंपत्करी भिक्षां मन्यध्वे, तदा अकृतादिगुणोपेतपिण्डपरिग्रहः कार्य इति प्रकरणगर्भार्भ इति / 8|| हा०६ अष्ट०। पञ्चा०। पिण्डाद्यशोधने दोषः "पिडं असोहयंतो, अचरित्ती इत्थ संसओ नत्थि। चारित्तम्मि असंते,सव्वा दिक्खा निरत्थीया।॥१॥ सिजं असोहयंतो,अचरित्ती इत्थ संसओ नत्थि। चारित्तम्मि असंते,सव्दा दिक्खा निरत्थीया|॥२॥ वत्थं असोहयंतो,अचरित्ती इत्थ संसओ नत्थि। चारित्तम्मि असंते,सव्वा दिक्खा निरत्थीया // 3 // पत्तं असोहयंतो अचरित्ती इत्थ संसओ नत्थि। चारित्तम्मि असंते,सव्वा दिक्खा निरत्थीया"||४| इदं चोत्सर्गतः सति संस्तरणे ज्ञेयम्,असंस्तरणे तु अशुद्धग्रहणेऽप्यदोषः। यदुक्तम् “संथरणम्मि असुद्धं इत्यादि। ध०३ अधि०। [61] भ्रमरदृष्टान्तेन भिक्षायां निर्दोषत्वसिद्धिःजहा दुमस्स पुप्फेसु,भमरो आवियइ रसं। न य पुप्फ किलामेह,सो य पीणेइ अप्पयं / / 2 / / अत्राह-अथ कस्माद्दशावयवनिरूपणायां प्रतिज्ञादीन्विहाय सूत्र-कृता दृष्टान्त एवोक्त इति? उच्यते "दृष्टान्तादेव हेतुप्रतिज्ञे अभ्यूह्ये" इति न्याय प्रदर्शनार्थम् / कृतं प्रसङ्गेन,प्रकृतं प्रस्तुमःतत्र-यथा येन प्रकारेण, दुमस्य प्राग्निरूपितशब्दार्थस्य,पुष्पेषु प्राग्निरूपितशब्दार्थेष्वेव, असमस्तपदाभिधानमनुमेये गृहिद्रुमाणामाहारादिषु पुष्पाण्यधिकृत्य विशिष्टसंबन्धप्रतिपादनार्थमिति / तथा चान्यायोपार्जितवित्तदानेऽपि ग्रहणं प्रतिषिद्धमेव। भ्रमरश्चतुन्द्रियविशेषः। किम् ? आपिबति मर्यादया पिबत्यापिबति / कम् ?रस्यत इति रसस्तं,निर्यासं,मकरन्दमित्यर्थः / एष दृष्टान्तः / अयं च तद्देशोदाहरणमधिकृत्य वेदितव्य इति / एतद्य सूत्रस्पर्शिकनियुक्तौ दर्शयिष्यतो उक्तं च सूत्रस्पर्श त्वियमन्येति। अधुना दृष्टान्तविशुद्धिमाह-नच नैव पुष्पं प्राग्निरूपितस्वरूपं,क्लामयति पीडयति,सच भ्रमरः प्रीणाति तर्पयत्यात्मानमिति सूत्रसमुदायार्थः। अवयवार्थ तु नियुक्तिकारो महता प्रपञ्चेन व्याख्यास्यति। तथा चाहजह भमरो त्तिय एत्थं,दिटुंतो होइ आहरणदेसे। चंदमुहिदारिगेयं,सोमत्तऽवहारणं ण सेसं // 100 / / नि०। यथा भ्रमर इति चात्र प्रमाणे दृष्टान्तो भवत्युदाहरणदेशमधिकृत्य, यथा-चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते,नशेष कलझाङ्कितत्वाऽनवस्थितत्वादीति गाथार्थः // 100 / एवं भमराहरणे,अणियतवित्तित्तणं न सेसाणं। गहणं दिटुंतविसुद्धि सुत्ते भणिया इमा चऽन्ना ।।१०१।।निक) एवं भ्रमरोदाहरणे अनियतवृत्तित्वं,गृह्यत इति शेषः। न शेषाणामविरत्यादीनां भ्रमरधर्माणां,ग्रहणं दृष्टान्त इति / एषा दृष्टान्तविशुद्धिः सूत्रे भणिता,इयं चान्या सूत्रस्पर्शिनियुक्ताविति गाथार्थः // 101 / / दश०१ अ०। पं०व०। (विशेषस्त्वत्र “धम्म" शब्दे। विहङ्गमदृष्टान्तः "विहंगम" शब्दे) (स्थापनाकुलव्याख्या "ठावणाकुल" शब्दे) यतिः श्राद्धगृहे गत्वोपविश्य भक्तादिकं न गृह्णाति,न वेति प्रश्ने,यतिः श्राद्धगृहे कारणं विनोपविश्य भक्तादिकं न गृह्णाति कारणे तुगृह्णाति “तिहभण्णयरागस्स निसिजा जस्स कप्पइ। जराऍ अभिभूयस्स,गिलाणस्स तवस्सिणो" // 60 // इति दशकालिकषष्ठाध्ययने प्रतिपादितात्वादिति / 124 प्र०। सेन० उल्ला०।