________________ गोयरचरिया 1008 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया तसमुच्चये, अकृतादिपदैश्च क्रयणकापणतदनुज्ञानहननघातनतदनुज्ञानपचनपाचनतदनुज्ञानलक्षणकोटीनवकशुद्धता पिण्डस्योक्तेति, यते: पृथिव्यासंरक्षणप्रयत्नवतः पिण्ड ओदनादिः, उपलक्षणत्वदस्य शय्योपकरणे च समाख्यातो विगतरागादिदोषसकलपदार्थसार्थस्वभावावभासनसहसंवेदनेन निर्वाणनगरगमनासमानमार्गायमाणचरणकरणविशुद्धिहेतुतयोपलभ्यसम्यगभिहितस्तीर्थकरैरिति नान्तरायदोष तेषाम्, पुनः किंविधः पिण्ड इत्याह-विशुद्धः सकलदोषवियुक्तः, तथा विशुद्धत्वादेव शुद्धिकारकः कर्ममलकलङ्कविकलताकारीति / अथवाकस्मादकृतादिगुण पिण्डो यतेः समाख्यात इत्याह-विशुद्धो विशुद्ध एव कुतादिदोषरहित एव शुद्धिकारको भवति नान्यो, विशुद्धयर्थी च यतिर्भवप्रपञ्चोपचितकल्मषमलपअलस्येति // 1 // असंकल्पित एव चेत्युक्तम्, तस्य च परमतेनासंभवमुपदर्शयन्नाहयो न संकल्पित: पूर्व, देयबुद्ध्या कथां नु तम् ? ददाति कश्चिदेवं च, सविशुद्धो वृथोदितम् // 2 // य:पिण्डो न नैव संकल्पितोऽभिसन्धितः पूर्व दानकालात् देयबुद्ध्या दातव्योऽयं मया भिक्षुभ्य इत्येवंरूपया धिया, कथमिति क्षेपे,'नु' इति वितके, केन प्रकारेणन, कथञ्चिदिति यावत्, तं पिण्ड ददाति भिक्षुभ्यः प्रयच्छति कश्चित्कोऽपि दायकः प्राणी, न कोपीत्यर्थः। दानार्थमसंकल्पितस्य असत्त्वेन दातुमशक्यत्वादिति भावः / एवं च अमुना प्रकारेणासंकल्पितस्य देयस्यासंभवे सति सोऽसंकल्पित पिण्डो विशुद्धो निरवद्य इति यदुक्तं प्राक्, तदृथा व्यर्थम्, असंभवादुदितं भणितमिति / असंकल्पित एव पिण्डो ग्राह्यो यतेरित्यमस्तत्रैवाभ्युपगमे दूषणान्तरमाहन चैवं सद्गृहस्थानां, भिक्षा ग्राह्या गृहेषु यत्। स्वपरार्थ तु ते यत्नं, कुर्वन्ति नान्यथा वचित् / / 3 / / न केवलमसंकल्पितपिण्डासंभवेन व्यर्थं तत् प्रतिपादनं, भिक्षा च न गाह्या सद्ग्रहेषु भवतीति वाक्यार्थः। पदार्थस्त्वेवमेति प्रतिषेधे, चशब्दो दूषणान्तरसमुचये एवमिति, असंकल्पितपिण्डाभ्युपगमे सति, सदगृस्हस्थानां ब्राह्मणादिशोभनाऽगारिणां, गृहेषु वेश्भसु,भिक्षासमुदानं, ग्राह्या आदातव्या / कुत एवमेतदित्यत आह-यत् यस्मात्कारणात, स्वपरार्थं तु आत्मभिक्षाचरनिमित्तमेव, ते सद्गृहस्थ: यत्न पाकनिवर्तनप्रयास, कुर्वते विदधति, नान्यथा भिक्षाचरदानासंकल्पेन, स्वार्थमेव क्वचित् कदाचनापि स्वनिमित्तमेव पाकप्रयत्नं सदगृहस्थत्वायोगादिति / यस्मात् स्वकर्माजीवनकुल्यैः समानऋषिभिर्ववाह्यम्, ऋतुगाकमत्वं, देवतापित्रतिथिभर्तव्यपोषणं, शेषभोजनं चेति गृहस्थधर्मः। अतिथिश्च यतिरतिभवति, भोजन-कालोपस्थायित्वात्तस्यापीत्यर्थः // 3 // पर एवाचार्यमतमाशयमानमाहसंकल्पं च विशेषेण, यत्राऽसौ दुष्ट इत्यपि। परिहारो न सम्यक् स्याद्, यावदर्थिकवादिनः // 4 // संकल्पनभिसंधानं, विशेषेणाभुष्मै साधवे मयेदं दातव्यमित्येवमसामान्यतः, यत्र पिण्डे, असौ स एव पिण्डो, दुष्टो दोषवान्नान्यः, इत्यपि अयमन्तरोदितिऽपि, न के बलमसंकल्पित पिण्डाभ्युपगमो न / सम्यगित्यपि शब्दार्थ, परिहार: पूर्वपक्षवद्युक्तदूषणपरिहरणम्, 'न' नैव, ) सम्यक् संगतः, स्याद्भवेत् / कस्येत्याह-यावदर्थिकवादिनस्तव, तत्र यावन्तो यत् परिमाणास्ते च तेऽर्थिनश्च भिक्षुकादयो यावदर्थिः, ते प्रयोजनं यस्य निष्पादने यावदर्थिकः पिण्डः, तमपि परिहार्यतया यो वदतीत्येवंशील: स तथा, तस्य यावदर्थिकवादिनः, यावदर्थिनिमित्तनिष्पादित पिण्डपरिहारवादित्वाद्भवत इति भावः / यतोऽभिहितम् - "यावंतिय मुद्देस, पासंडीणं भवे समुद्देसं। सभणाणं आएसं, निग्गंथाणं समाएसं / / 1 / / " इति। तथा"असणं पाणगं वा वि, खाइमं साइमं तहा। जं जाणिज्ज सुणेज्जा वा, दाणट्ठा पगडंइमं / / 2 / / तं भवे भत्तपाणं तु, संजयाण अकप्पियं / दितियं पडियाइक्खे, न मे कप्पइ तारिसं / / 3 // " |4|| पूर्वपक्षे वाद्येवाहविषयो वाऽस्य वक्तव्यः, पुण्यार्थ प्रकृतस्य च / असंभवाभिधानात्स्या-दाप्तस्याऽनाप्तताऽन्यथा / / 5 / / यावदर्थिकपिण्डपरिहारवादिना भवता पूर्वोक्तपरिहारासम्यक्त्वमभ्युपगन्तव्यं, नो चेद्विषयो वा गोचरो वा, वाशब्दो विकल्पार्थः / अस्य यावदर्थिकपिण्डस्य वक्तव्यो वाच्यः, अमुमर्थिविशेषमाश्रित्य निवर्तितोऽयं परिहार्य इत्येवं गोचरान्तपरिकल्पनयैवायं शक्यः परिहतु, नान्यथा इति भावः। तथा न केवलंयावदर्थिकपिण्डस्य विषयो वक्तव्यः / पुण्यार्थ पुण्यनिमित्तं, प्रकृतस्य च निष्पादितस्यापि स वक्तव्यः, यतः पुण्यार्थं प्रकृतस्यापि पिण्डस्य परिहारोऽभ्युपगम्यते भवद्भिः / यदाह"असणं पाणगं वो वि, खाइमं साइमं तहा / / जं जाणिज्ज सुणिज्जा वा, पुन्नट्ठा पगडं इम'' 1 इत्यादि / अशक्यपरिहारश्चायमपीति, तस्यापि विषयविशेषा वाच्य इति भावः / अथ किं विषयान्तराभिधाने नेत्याचार्यमतमाशड्क्याह-अन्यथा यावदर्थिकपुण्यार्थप्रकृतपिण्डयोर्विषयविशेषाप्रतिपादने, आप्तस्य क्षीणरागद्वेषमोहदोषतयाऽव्यंसकवचनत्वेनैकान्तहितस्य शास्त्रप्रणेतुरनाप्तता अक्षीणदोषत्वेनाहितत्वं स्याद्भवेत्, कुत इत्याह-असंभवाभिधानात्, अविद्यमान संभवो यस्य यावदर्थिकादिपिण्डपरिहारस्य सोऽसंभवः, तस्याभिधानं, तस्मात्, असंभवश्व तस्य स्वपरार्थ तुते यत्नं कुर्वते, नान्यथेत्यनेन दर्शित एवेति पूर्वपक्षः // 5 // अत्रोत्तरमाहविभिन्नं देयमाश्रित्य, स्वभोग्याद्यत्र वस्तुनि। संकल्पनं क्रियाकाले, तद्दुष्टं विषयोऽनयोः / / 6 / / विभिन्न मतिरिक्तं, देयं दातव्यमोदनादि, आश्रित्यागीकृत्य, कुतो विभिन्नमित्याह-स्वभोग्यात् विवक्षितात्मीयोदनादिभोगार्हात् ,यत्र यस्मिन्, वस्तुनि ओदनादिपदार्थे, संकल्पनमेतावदिह कुटुम्बायैतावच्चार्थिभ्य: पुण्यार्थ चेत्यभिसंधानं, क्रियाकाले पाकानवर्त्तनसमये, तदिति यदेतत्सङ्कल्पनं तद्दुष्टं दोषवद्विपयो गोचरोऽनयो: यावदथिकपुण्यार्थ प्रकृतयोरपि, एवंविधसंकल्पनवन्तावेतौ पिण्डविशेषौ परिहार्याविति भाव इति 6y