________________ गोयरचरिया 1007 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया पौरुषध्वनीत्यादि, व्यवहारानुपपादनात्। तथा च "यतिानादियुक्ती यो, गुर्वाज्ञायां व्यवस्थितः / सदाऽनारम्भिणरूतस्य, सर्वसंपत्करी मता'||१|| इत्याचार्याणामभिधानं संभवाभिप्रायेणैव, जिनकल्पिकादौ गुर्वाज्ञाव्यवस्थितत्वादेरिव सदाऽनारम्भित्वस्य फलत एव ग्रहणात् / अन्यथा-लक्षणाननुगमापत्तेर्द्रव्यसर्वसंपत्करीमुपेक्ष्य भावसर्वसम्पत्करीलक्षणमेव वा कृतामिदमिति यथातन्त्रं भावनीयम् // 10 // दीक्षाविरोधिनी भिक्षा, पौरुषघ्नी प्रकीर्तिता। धर्मलाघवमेव स्यात्, तया पीनस्य जीवतः।।११।। (दीक्षेति) दीक्षाया विरोधिनी दीक्षावरणकर्मबन्धकारिणी भिक्षा पौरुषघ्नी प्रकीर्तिता, तया, जीवतः पीनस्य पुष्टाङ्गस्य धर्मलाघवमेव स्यात्। तथाहि-गृहीतव्रतः पृथिव्याधुपमर्दनेन सुद्धोञ्छजीविगुणनिन्दया च भिक्षां गृह्णन् स्वस्य परेषां च धर्मस्य लघुतामेवापादयति / तथा गृहस्थोऽपि यः सदाऽनारम्भविहितायां भिक्षायां तदुचितमात्मानमाकलयन् मोहमाश्रयति, सोऽप्यनुचितकारिणोऽमी खल्वार्हता इति शासनावर्णवादेन धर्मलधुतामेवाऽऽपादयतीति। तदिदमुक्तम् - "प्रव्रज्या प्रतिपन्नो यस्तद्विरोधेन वर्तते। असदारम्भिणस्तज्ञय, पौरुषनीति कीर्तिता / / 1 / / धर्मलाघवकृन्मूढो, भिक्षायोदरपूरणम्। करोति दैन्यात्पीनाङ्गः, पौरुषं हन्ति केवलम्॥२॥" अत्र प्रतिमाप्रतिपन्नभिक्षायां दीक्षाविरोधित्वाभावादेव नातिव्याप्तिरिति ध्येयम्॥११॥ क्रियान्तरासमर्थत्व-प्रयुक्ता वुत्तिसंज्ञिका। दीनान्धादिष्वियं सिद्ध-पुत्रादिष्वपि केषुचित् / / 12 / / / (क्रियान्तरेति) क्रियान्तरासमर्थन प्रयुक्ता, न तु मोहेन, चारित्रशुद्धीच्छया वा, वृत्तिसंज्ञिका भिक्षा भवति; इयं च दीनान्धादिषु संभवति / यदाह 'नि:स्वान्धपङ्गवो ये यु, न शक्ता वै क्रिशन्तरे। भिक्षामटन्ति वृत्त्यर्थ , वृत्तिभिक्षेयमुच्यते / / 1 / / नातिदुष्टाऽपि चामीषा-मेषा स्रयान्न ह्यमी तथा। अनूकम्पानिमितत्वाद्, धर्मलाघवकारिणः / / 2 / / " तथा सिद्धपुत्रादिष्वपि केषुचित्तिभिक्षा संभवति / आदिना सारूपिकग्रहः, दीनादिपदाव्यपदेशत्वाश्चैषां पृथगुक्तिः। श्रूयन्ते चोत्प्रव्रजिता अडी जिनागमे भिक्षुकाः / यतो व्यवहारचूयामुक्तम् "जो अणुसासिओ ण पडिनियत्तो सो सारूविअत्तणेण वा सिद्धपुत्तत्तणेण वा अच्छउ कचि कालं / सारूविओ णाम-सिरमुंडो अरजोहरणो अलाउयाहि भिक्खं हिंडइ, अभज्जो अ। सिद्धपुत्तो णाम-सवालओ भिक्खं हिंडइवा, णवा, वरामएहि वेटलिअं करेइ, लट्ठि वा धरेति ति" केषुचिदित्यनेन ये उत्प्रव्रजितत्वेन क्रियान्तरासमर्थास्ते गृह्यन्ते / येषां पुनरत्यन्तावद्यभीरूणां संवेगातिशयेन प्रव्रज्यां प्रति प्रतिबद्धमेव मानसं, तेषामाद्यैव भिक्षा / एतद्व्यतिरिक्तानामसदारम्भाणां च पौरुषध्न्येव "तत्त्वं पुनरिह केवलिनो विदन्ति'' इत्यष्टकवृत्तिकृद्वचनं च तेषां नियतभावापरिज्ञानसूचकमित्यवधेयम्।।१२।। अन्याबाधेन सामग्र्य, मुख्यया भिक्षयाऽलिवत्। गृह्णतः पिण्डमकृत-मकारितमकल्पितम् / / 13 / / (अन्येति) अन्येषां स्वव्यतिरिक्तानां दायकानामबाधेनाऽपीडनेन मुख्यया सर्वसम्पत्कर्या भिक्षया, अलिवद्धमरवत्, अकृतमकारितमकल्पितं च पिण्डं गृह्णतः / सामग्रयं चारित्रसमृद्ध्या पूर्णत्वं भवति / अलिवदित्यनेनाऽऽनयनप्रतिषेधः, तथासत्यभ्याहृतदोषप्रसङ्गात् / साधुवन्दनार्थमागच्छद्भिगृहस्थैः पिण्डानयनेनायां भविष्यति, तदागमनस्य वन्दनार्थत्वेन साध्वर्थपिण्डानयनस्य प्रासङ्गिकत्यादिति चेत्, नैवमपि मालापडूताद्यनि वारणादिति वदन्ति / / 13 / / नन्वेवं सद्गृहस्यानां, गृहे मिक्षा न युज्यते। अनात्मम्मरयो यत्र, स्वपरार्थं हि कुर्वते॥१४॥ (नन्वेवमिति) ननु एवं संकल्पितपिण्डमस्याऽप्यग्राह्यते सद्गृहस्थानां शोभनब्राह्मणाद्यगारिणां गृहे भिक्षा न युज्यते यतेः, हि यतोऽनात्मम्भरयोऽनुदरम्भरयो यत्र पाकादिविषयं स्वपरार्थंकुर्विते। भिक्षाचरदानासंकल्पेन स्वार्थमवपाकप्रयले सद्गृहत्वस्थभङ्गप्रसङ्गात्, देवतापित्रतिधिं भर्तव्यपोषण शेषभोजनस्य गृहस्थधर्मत्वश्रवणात् / न च दानकालाठपूर्व देयत्वबुध्या असंकल्पितंदातुंशक्यत इत्यपि द्रष्टव्यम्।।१४॥ संकल्पभेदविरहो, विशेषो यावदर्थिकम्। पुण्यार्थिकं च वदता, दुष्टमत्र हि दुर्वच: / / 15 / / (संकल्पेति) अत्र हि "असंकल्पितः पिण्डो यतेह्यः" इति वचने हि संकल्पभेदस्य यतिसंप्रदानकत्वप्रकारदानेच्छात्मकस्य विरहो दुर्वच: केनेति ? आह-यावदर्थिकं यावदर्थिनिमित्तनिरूपादितम्, पुण्यार्थिक पुण्यनिमित्तनिष्पादितं च, पिण्ड दुष्टं वदता अन्यथोक्तासंकल्पितत्वस्य यावदर्थिकपुण्यार्थिकयो: सत्त्वेन तयोग्राह्यत्वाऽऽपत्तेः। तदाह"संकल्पनं विशेषेण, यत्रासौ दुष्ट इत्यपि। परिहारो न सम्यक् स्याद्, यावदर्थिकवादिनः / / 1 / / विषयो वाऽस्य वतव्यः, पुण्यार्थ प्रकृतस्य च। असंभवाभिधानात् स्या-दाप्तस्यानाप्तऽन्यथा" ||2|| इति / / 15|| उच्यते विषयोऽत्रायं, मिन्ने देये स्वभोग्यतः। संकल्पनं क्रियाकाले,दुष्टं पुष्टमियत्तया ||16|| उच्यत इति) अत्रायं विषय उच्यते, यदुत क्रियाकाले पाकनिर्वतनसमये स्वभोग्यादात्मीयभेगार्हात् ओदनादेर्भिन्नेऽतिरिक्ते देये ओदनादौ, इयत्तया "एतावदिह कुटुम्बाय एतावचार्थिभ्य: पुण्यार्थ चेति'' विषयतया, पुष्टं संवलितम्, संकल्पनं दुष्टम, तदाह-"विभिन्न देयमाश्रित्य, स्वभोयाद्यत्र वस्तुनि / संकल्पन क्रियाकाले, तद्दुष्ट विषयोऽनयोः"।१।१६।। द्वा०६द्वा० अकृतोऽकारितश्चान्यैः-रसंकल्पित एव च। यतेः पिण्ड: समाख्यातो, विशुद्धः शुद्धिकारकः / / 1 / / अकृतः क्रयणहननपवनै भैज्यितया स्वयमनिवर्तितः, एवमेवाकारितश्चाविधापितः / चकार: समुचये, अन्यैः कर्मकरादिभिरसंकल्पित एव च क्रयणादिप्रकारैः साधवे इदं दास्यात्मीत्यनभिसंधितः, अन्यैरेव एवकारेणान्यथाविधपिण्डस्य साधोरग्राह्यतामाह / आह च-"पिंडं असोहयंतो, अचरित्ती एत्थ संसओ नत्थि। चारित्तम्मि असंते, सव्वा दिक्खा निरत्थीया।।" चकारउ