________________ गोयरचरिया 1006 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया एते अन्योऽन्यं मिलिते सूक्ष्मजन्तुभिः संसृज्येते, यच्च मुद्गकृतम्, उपलक्षणत्वादन्यदपि द्विदलं, तदप्यामगोरसोन्मिश्रं सदचिरादेव सूक्ष्मजन्तुभिः संसज्यते, संसक्तं च नियमात्, "एके द्वौ दोषौ समाहृतौ द्विदोषम्" तस्मै, द्विदोषाय भवति, संयमोपघाताऽत्मोपधातरूपं दोषद्वयं करोतीत्यर्थः। दहि तिल्लाई उभयं, पय सोवीरा य हुंति य विरुद्धा। देहस्स विरुद्धं पुण, सीउण्हाणं समाओगे। दधितैले, आदिशब्दादन्यदप्युभयं मिलितं सद्यत्परस्परविराद्धं, ये च | पय:सौवीरे दुग्धकाजिके परस्पर विरुद्धे, एतत् द्रव्यविरुद्ध मन्तव्यम्, देहस्य पुनर्विरुद्धं य: शीतोष्णयोद्रव्ण्यो: परस्परं समायोगः। एतानि पृथक पृथक् भाजनेषु गृह्यमाणानि न सुयमाद्युपधाताय जायन्ते। अपि चनत्थिय मामागाई, माउग्गमो य तासिमब्मासे। सीउण्हगिण्हणाए, सारक्खणमेक्कमेक्कस्स। न सन्ति तासां मामकानि कुलानि-न हि काऽपि स्वीजनं गृहे प्रविशन्तमीय॑या निषेधयतीति भावः / मातृगामश्च नामसमयपरिभाषया स्त्रीवर्गः, चशब्द एवकारार्थः / तत् किमुक्तं भवति? स्त्रीवर्ग एव प्रायेण भिक्षादायकः, स च तासां संयतीनामभ्यासे स्त्रीत्वसंबन्धमधिकृत्य यश्चात्यासन्नो वर्तते, अतस्त्रिप्रभृतीनामपि पर्यटन्तीनां सुखेनैव भक्तपानं पर्याप्तं भवति / शीतोष्णग्रहणेन च संरक्षणमेकैकस्या: परस्परं कृतं भवति / कथं पुनरिति ? अत आहएगत्थ सीयमुसिणं, च एगहिं पाणगं च एगत्थ / दोसऽनस्स अगहणे, चिराडणे होजिमे दोसा / / एकत्र प्रतिगृहे शीत पर्युषितं गृह्णन्ति, एकस्मिन्नुष्णम्, एकत्र चपानकम् / एकच तिसृणामटन्तीनां भवति। अथ द्वे पर्यटतस्तत एकत्र प्रतिग्रहे उष्ण, द्वितीयं तु पानकं, परंदोषान्नं कुत्र गृह्णन्तुं ? स्वार्थ परिभोक्तुं न कल्पते। अथोष्णमध्ये दोषाऽग्नं गृह्णन्ति, तदा देहविरुद्धं भवति / अथ देषानं न गृह्णन्ति, ततो दोषान्नस्याग्रहणे चिराटनम्, चिरंपर्यटन्तीनांतरुणादिकृतो मार्गे स्त्रीवद उद्दीपते। तथा चामुमेवार्थ दर्शयितुं वेदस्वरूपमाहथी पुरिसो अनपुंसो, वेदो तस्स उग्गमें पगारा उ। फुफुम दवग्गिसरिसो, पुरदाहसमो भवे तइओ। वेद स्त्रिधा-स्त्रीवेदः, पुरुषवेदो, नपपुंसकवेदश्च / तस्य तु त्रिधाऽपि यथाक्रम-त्रिविधस्यापि यथाक्रमममी प्रकारा:-स्त्रीवेद: फुफुमानिसदृशः करीषानि तुल्यः / यथा-करीषाग्निरन्तर्धगधगन्नास्ते, न परिस्फुटं प्रज्वलति, न वा विध्याययति, चालितस्तु तत्क्षणादेवोद्दीप्यते, एवं स्त्रीवेदोऽपि / पुरुषवेदस्तु दवाग्निसद्दशः / यथा-दवाग्निरिन्धनयोगतः सहसैव प्रज्वल्य विध्यापयति, एवं पुरुषवेदोऽपि तृतीयो नपुंसकवेदः, स पुरदाहसमः / यथाहि महानगरदाहे वह्निः प्रज्वलितः सन्नाट्टै वा शुष्के वा सर्वत्र दीप्यते, एवमेव नपुंसकवेदोऽपि स्त्रियां पुरुष वा सर्वत्र दीप्यते, न चोपशाम्यति, इत्थं वेदत्रयस्वरूपं दृश्यम्। प्रस्तुतयोजनामाह जह फूमा हसई सइ, घटिया एवमेव थीवेदो। दिप्पइ अतिकिढियाण वि, आलिंगन-छेदणादीहिं।। यथा फु फुकानिर्घटित: सन् (हसइ ति) देदीप्यते, एवमेव स्त्रीवेदोऽप्यालिङ्गनच्छेनादिभिरुदीरितः स्थविराणामपि दीप्यते, किं पुनस्तरुणीमिरूपिशब्दार्थः। आह-स्थविराणां कथं वेदोद्दीपनं भवतीत्युच्यतेन वओ इत्थं पमाणं, न तवस्स्तिं सुयं न परियाओ। अविक्खीणम्मि वेदे, थीलिंगं सव्वहा रक्खं / / न वयो वार्द्धकादिकमत्र विचारे प्रमाणं, न वा तपसित्वमनशनादितप कर्मकारिता, नवा श्रुतमाचारादिकं सुबहप्यवगाहितं, न वा पर्यायो द्राधीय प्रव्रज्याकाललक्षणः / एतेषु सत्स्वपि वेदादयो भवेदित्यर्थः / अपि च-क्षीणऽपि वेदे स्त्रीभिः स्त्रीलिङ्ग सर्वथा रक्ष्यम् / अत एव स्त्री केवलीपथोक्तामार्थिकोपकरणप्रावरणा-दियतनां करोतीति भावः / आह-यदिताः स्नानादिपरिकर्मरहिताः,तत: किं-कोऽपि तासुरागं व्रजति, येनेत्थं यतना क्रियते? उच्यतेकामं तवस्सिणीओ, पहाणुवट्टणविकारविरयाओ। तह वि य सुपाउआणं, अपेसणाणं चिमं होइ॥ काममनुमतं यथा तपस्विन्यः स्नानोद्वर्तनविकारविरताः, तथापि सुप्रावृतानां नित्यमेव बहुभिरुपकरणैराच्छादितानाम्, अप्यैषणानां वा व्यापाराणाम्, इदमनन्तरमेव वक्ष्यमाणं शरीरसौन्दर्यं भवति। तदेवाहरूवं वन्नो सुकुमारया य निद्धच्छवी य अंगाणं। होंति किर सन्निरोहे, अज्जाण तवं चरंतीणं / / रूपमाकृतिः, वणी गौरवत्वादिः, सुकुमारता कोमलस्पर्शता, स्निग्धता च कान्तिमती छविस्त्वक, अङ्गानां शरीरावयवानामिति / नीरूपादीनि आर्यिकाणां संनिरोधे बहुप्रकारेण प्रावरणादिध्रियमाणानां भवन्ति / ततो नियुक्तियुक्ता पूर्वोक्तानां सा यतनेति। बृ०१ उ०] (60) सर्वसंपत्कर्यादिभिक्षानिरूपणम् - त्रिधा मिक्षाऽपि तत्राऽऽद्या, सर्वसंपत्करी मता। द्वितीया पौरुषत्री स्यात, वृत्तिमिक्षा तथाऽन्तिमा ||6|| विधेत्यादि व्यक्तः ||6|| सदाऽनारम्भहेतुर्या, सा भिक्षा प्रथमा स्मृता। एकबाले द्रव्यमुनी, सदाऽनारम्भिता पुनः।।१०।। (सदेति) सदा अनारम्भस्य हेतुर्या भिक्षा, सा प्रथमा, सर्वसंपत्करी स्मृता। तद्धेतुत्वं च सदाऽऽरम्भपरिहारेण, सदाऽऽनारम्भगुणानुकीर्तनाभिव्यङ्ग्य परिणामविशेषहितयतनया वा / सदाऽनारम्भिता तु-एकबाले द्रव्यमुनौ संविग्नपाक्षिकश्रपेन संभवति। इदमुपलक्षणमएकादशी प्रतिमा प्रतिपन्नस्य श्रमणोपासकस्यापि प्रतिमाकालावधिकत्वादनारम्भकत्वस्य न तत्संभवः, न च तद्भिक्षायाः सर्वसंपत्करीमल्पत्वाक्त्यैव निस्तारः / इत्थं हियथा कथसित्सर्वसंपत्करीयमिति व्यवहारोपपपादनेऽपिन