________________ गोयरचरिया 167 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया सति न प्रतिगृह्णीयात् / अत्रैय दोषमाह-केवली ब्रूयात- आदान कर्मादानमेतदिति। तथाहि-असंयतो गृहस्थः भिक्षुप्रतिज्ञया तत्राप्युपरि व्यवस्थितमाहारमुत्सिञ्चन आक्षिपन्, निस्सिञ्चन् दत्त्वोद्वरित प्रक्षिपन्, तथा मार्जयन् सकृत हस्तादिना शोधयन्, तथा प्रकर्षेण मार्जयन् शोधयन्, तथाऽवतायरन्, तथा प्रवर्तयन् तिरश्चीनं कुर्वन् अग्निजीवान् हिंस्यादिति / अथानन्तरं भिक्षूणां साधूना पूर्वोद्दिष्टा एषा प्रतिज्ञा, एष हतुकात्मजापोलोरल नायकासपिंडामनाहानिनिक्षिप्तमप्रासुकमनेषणाीय-मिति ज्ञात्वा लाभे सति न प्रतिगृह्णीयात् / आचा०२ श्रु०१ अ०६ उ०॥ (45) पर्युषिताहारोन ग्राह्य:नो कप्पइ निग्गंथाण वा निग्गंथीण वा पारिवासियस्स आहारस्स० जाव तयप्पमाणमित्तमवि भूमिप्पमाणमित्तमवि / तोयविंदुप्पमाणमित्तमवि आहारमाहारित्तए नऽनत्थ आगाढं सरोगायंकेसु॥ अस्य संबन्धमाहउदिओऽयमणाहारो, इमं तु सुत्तं पडुच्च आहारं / अत्थे वा निसि मोयं, पिज्जति सेसं पिमाए व // अयं मोकलक्षणो अनाहार: पूर्वसूत्रे उदितो भणितः। इदं तु सूत्रमाहारं प्रतीत्याऽऽरभ्यते / अर्थतो वा निशि मोकं पीयत इत्युक्तम् / अत: शेषमप्याहारादिकमेवं रात्री आहारयेदिति प्रस्तुतं सूत्रमारभ्यते। अनेन संबन्धेनाऽऽयातस्यास्य व्याख्या-नो कल्पते निर्गन्थाणां निर्गन्थीनां वा परिवासितस्याऽऽहारस्य मध्यात् त्वक्प्रमाणमात्रमपि भूतिप्रमाणमात्रमपितोयबिन्दुप्रमाणमात्रमपि यावदाहारमाहर्तुम्। त्वक्प्रमाणमानं नामतिलतुषत्रिभागमात्र, तचाशनस्य घटते। भूमिप्रमाणमात्रम्-(एतदग्रेतनस्तु 'पारियासिय' शब्दे वक्ष्यते)(बृ०) (सेसं ति) शेषमाहार तस्य परिवासितस्य यदि तिलतुषत्वक्मात्रमप्याऽऽहरति, सतुकादीनां शुष्कचूर्णमेकस्यामक लौयावती भूमिमात्रा लगति तावन्मात्रमपि पिबति, ततोऽस्य पानस्य बिन्दुमात्रमपि यद्यापिबति, तदा चतुर्गुरु, आज्ञा च तीर्थकृता कोपिता भवति। एते चापरे दोषा:मिच्छत्तमसंचइए, विराहणा सत्तुपाणजाईओ। संमुच्छणा य तकण, दवे य दोसो इमो होति / / अशनादि परिवास्यमानं दृष्ट्वा शैक्षोऽन्यो वा मिथ्यात्वं गच्छेत्, उड्डाहं वा कुर्यात-कथमहो ! अम / असंचयिका:? परिवासिते तु संयमात्मविराधना भवति, सक्तुकादिषु धार्यमाणेषु ऊरिणिकादय: प्राणिजातयः संमूर्च्छन्ति, पुपूलिकादिषु लालादिसंमूर्छना च भवति / उन्दुरो वा तत्तर्कणमभिलाषं कुर्वन् पार्श्वतः परिभ्रमन् मार्जारादिना भक्ष्यते, एवमादिका संयमाऽऽत्मविराधना, आत्मविराधना च तत्राशनादौ लालविष: सर्पो लाला मुश्चेत्, त्वाविषो वा जिवन् नि श्वासेन विषीकुर्यात्, उन्दुरो वा लालां मुश्चेत्; द्रवे चाहारे एते वक्ष्यमाणा दोषा भवन्ति। तत्र 'मिच्छत्तमसंचइएति" पदं व्याख्याति सेह गिहिणा व दिद्वे, मिच्छत्तं कहमसंचया समणा? संचयमिणिं करिती, अन्नत्थ वि नूण एमेव // शैक्षण गृहिणा वा केनापि तत्राशनादौ परिवासिते दृष्ट मिथ्यात्वं भवेत् एवंविधं संचयं ये कुर्वन्ति कथं ते श्रमणा असंचया भवन्ति? यथा सर्वस्माद्रात्रिभोजनाद्विरमणमित्यभिग्रहं गृहीत्वा लुम्पन्ति, तथा नूनमिति वितर्कयाम्यहम् -अन्यत्रापि प्राणिवधादावेवमेव समाचरन्ति। अथ द्रवदापोजमनियतारिन्निदबावट निद्धे दवे पणीए, आवजण पाणि तक्कणा पडणा। आहार दिट्ठदोसा, कप्पइ तम्हा अणाहारे॥ इह वक्ष्यमाणेऽन्त्यगतसूत्रे भणितं यत् गृहादिकं तैलवर्जितम् अद्रवं भवति तदेव स्निग्धमुच्यते / यत्तु सौवीरद्रवादिकम् अलेपकृतं, यच्च दुग्धतैलवशाद्रवघृतादिकं लेपकृतं, तदुभयमपि द्रवमित्युच्यते / तथा चाह-"तत्थ पणियं तु निद्ध, तं चिय अहसिया अनिल्लवसं / सोवीरगदुद्धादी, दवं अलेवाड लेवाड।।'' व्याख्यातार्था / प्रणीतं नामगूढस्नेहं घृतपूरादिकम् आर्द्रखाद्यकं, यद्वा-बहि: स्नेहेन मृक्षितं मण्डकादि, अपरं वा स्नेहावगाढं कुरुणादि प्रणीतमुच्यते। तथा चाह''गूढसिणेहं उल्लं, तुखज्जग मक्खियं च जं वाहिं / नेहागाढं कुरुणं,तु एवमाई पणीयं तु // " गतार्था / एवंविधे द्रवे प्रणीते च रात्रौ स्थापिते कीटिकादय: प्राणिजातीया आपद्यन्ते, पतन्तीत्यर्थः / अत्र गृहकोलिकादितर्कणपरम्परा वक्तव्या। (पडण ति) स्पन्दमाने भाजने अधस्तात्प्राणिजातीयाः संपतन्ति। पर: प्राह-तत्त्वतो दोषा आहारे दृष्टा तस्मादनाहारे परिवासयितु कल्पते। सूरिराहअण्णयरो विन कप्पइ, दोसा ते चेव जे भणियप्पुय्वा / तदिवसं जयणाए, विइए आगाढ संविग्गे।। अनाहारोऽपि न कल्पते स्थापयितुं, यदि स्थापयति ततश्चतुर्लघु, त एव च विराधनादयो दोषा:, ये पूर्वमाहारे भणिताः। तस्मादनाहारमपिन स्थापयेत्; यदा प्रयोजनं तदा तद्दिवसं विभीतकहरीतकादिकं मार्यत, अथ न लभ्यते दिने दिने मार्गयतो वा गर्हितः, ततो यतनया यथा अगीतार्था न पश्यन्ति , तथा द्वितीयपदमाश्रित्य आगाढे कारणे संविग्नो गीतार्थः स्थापयति। घनवारेण वर्मणा वा छर्दयति,पार्श्वत: क्षारेणावगुण्डयति, उभयकालं प्रमार्जयति // जह कारणेऽणाहारो, कप्पइ तद्द भेवेज इयरो वि। वोच्छिण्णम्मि मडवे, विइयं अद्धाणमाईसु / / यथा कारणे अत्राहार; स्थापयितुं कल्पत, तथेतरोऽप्याहारोऽपि कारणे कल्पते स्थापयितुम् / कथमित्याह-व्यवच्छिन्ने 'मडवे' कारणे स्थिताः सन्तो द्वितीयपदं संबद्ध्यन्ते / तथाहि-तत्र पिप्पल्यादिकं दुर्लभं, प्रत्यासन्नं ग्रामादिकं तत्र नास्ति, ततः परिवासयेदपि, यथा कारणे पिप्पल्यादिकं स्थापयन्ति, तथा द्वितीयपदे अशनाद्यति स्थापयेत् / (अद्धाणमादी सुत्ति) अध्वप्रपन्ना अध्वकल्पं स्थापयेयुः, आदिशब्दात्प्रतिपन्नरूपार्थस्य ग्लानस्य वा योग्यं पानकादिकं स्थापयेत्।