________________ गोयरचरिया ६६१-अभिधानराजेन्द्रः - भाग 3 याचमानस्य परो गृहस्थ: कदाचिद्धस्तं मात्रं दींभाजनं वा शीतोदकविकटेन अप्कायेन उष्णोदकविकटेनोष्णोदकेनाप्रासुकेन त्रिदण्डोद्धृतेन पश्चाद्वा सचित्तीभूतेन (उच्छोलेज त्ति) सकृदुदकेन प्रक्षालनं कुर्यात् (पहोएजत्ति) प्रकर्षण वा हस्तादेविनं कुर्यात, स भिक्षुर्हस्तादिकं पूर्वमेव प्रक्षाल्यमानमालोचयेत्, दत्तावधानो भवेदित्यर्थः / तच प्रक्षाल्यमानमालोच्य 'अमुक' इत्येवं स्वनामग्राहं निवारयेत् ,यथामैवं कृथास्त्वमिति। यदिपुनरसौ गृहस्थः हस्तादिकं सचित्तोदकेन प्रक्षाल्य दद्यात्, तदप्रासुकमिति ज्ञात्वा न प्रतिगृह्णीयादिति / आचा०२ श्रु०१ अ०६ उ०। किञ्चदोण्हं तु मुंजमाणाणं, एगो तत्थ निमंतए। दिज्जमाणं न इच्छेज्जा, छंदं से पडिलेहए॥३७।। द्वयोर्भुजतो: पालनां कुर्वतोरेकस्य वस्तुन: स्वामिनोरित्यर्थः। एकस्तत्र निमन्त्रयेत् तद्यानं प्रत्यामन्त्रयेत्, तद्दीयमानं नेच्छेदुत्सर्गतः, अपि तु छन्दमभिप्रायम् (से) तस्य द्वितीयस्य, प्रत्युपेक्षेत नेत्रवकृत्रादिविकारैः, किमस्येदमिष्ट दीयमानं, नवेति? इष्टं चेद्, गृह्णीयात्, न चेन्नैवेति / एवं भुजानयोरभ्यवहारोद्यतयोरपि योजनीयम, यतो 'भुजिः पालनेऽभ्यवहारे च वर्तत इति सूत्रार्थः॥३७॥ तत:दोण्हं तु भुंजमाणाणं, दो वि तत्थ निमंतए। दिज्जमाणं पडिच्छेज्जा, जं तत्थेसणियं भवे // 38|| द्वयोस्तु पूर्ववत् भुजतो: भुजानयोर्वा, द्वावपि तत्रातिप्रसादेन निमन्त्रयेयाताम् तत्रायं विधि:-दीयमानं प्रतीच्छेत्गृह्णीयात्, यत्तत्रैषणीयं भवेत्तदन्यदोषरहितमिति सूत्रार्थः।।३८॥ दश०५ अ०१ उ०। (35) ग्राह्यवस्तूनामत्युष्णग्रहणे विधि: - से भिक्खू वा भिक्खुणी वा० जाव पवितु समाणे से जं पुण जाणेज्जा-असणं वा पाणं वा खाइमं वा साइमं वा अबुसिणं वा अस्संजए भिक्खुपडियाए सूवेण वा विहुवणेण वा तालियंटेण वा पत्तेण वा साहाए वा साहामंगेण वा पेहुणेण वा पेहुण हत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा फूमेज वा, वीएज वा, से पुव्वामेव आलोएज्जाआउसो ! त्ति वा मगिणि ! त्ति वामा एतं तुमं असणं वा पाणं वाखाइमं व साइमं वा अचुसिणं सुप्पेण वा० जाव फूमाहिवा, वीयाहि वा, अभिकंखसि मे दातुं. एमेवदलयाहि, से सेवं वदंतस्स परोसुप्पेण वा० जाव०वीयित्ता आहट्ट दलएज्जा, तहप्पगारं असणं वा०४ अफासुयं० जाव णो पडिगाहेजा।। स भिक्षुहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात् / यथाअत्युष्णमोदनादिकम् असंयतो भिक्षुप्रतिज्ञया शीतीकरणार्थ सूर्पणवा, बीजनेन वा, तालवृन्तेन वा, मयूरपिच्छकृतव्यजनेनेत्यर्थः / तथा- पत्रेण वा, शाखया शाखाभङ्गेन, पल्लवेनेत्यर्थः / तथा वhण, वहकलापेनवा, तथा वस्त्रेण वा वस्त्रकर्णेन वा मुखेन वा तथा प्रकारेणान्येन वा केनचित् / (फूडेजा वेकेति) मुखवायुना शीतीकुर्यात्, हस्तादिभिर्वा वीजयेत्, स भिक्षुः पूर्वमेवालोचयेत् दत्तोपयोगो भवेत, तथाकुर्वाणं च दृष्ट्वैतद्देत / तद्यथा-अमुक इति वा भगितीति वेत्यामन्त्र्य मैवं कृथा यद्यभिकास सि मे दातुम् तत एवं स्थितमेव ददस्व, अथ पुनः स परो गृहस्थ: (से) तस्य भिक्षोरेवं वदतोऽपि सूर्पण च यावन्मुखेन वा वीजित्या आहृत्य तथाप्रकारमशनादिकं दद्यात्, स च साधुरनेषणीयमिति मत्वा न परिगृह्णीयादिति। आचा०२ श्रु०१ अ०७ उ०। नि०चू०। (36) आधाकर्मिकादिविचारःइह खलु पाईणं वा पडीणं वा दाहिणं वा उदीणं वा संतेगतिया सड्ढा भवंति गाहावती वा० जाव कम्मकरी वा, तेसिं च णं एवं वुत्तपुथ्वं भवति-जे इमे भवंति समणा भगवंतो सीलमंता वयमंता गुणमंता संजया संबुडा बंभचारिणो उवरया मेहुणाओ धम्माओ, णो खलु एतेसिं कप्पति आधाकम्मिए असणे वा०४ भोत्तए वा, पायत्तए वा, सेजं पुण इमं अम्हं अप्पणो सअट्ठाए णिद्वितं। तं जहा-असणं वा०५ सव्वमेयं समणाणं णिसिरामो, अवियाई वयं पच्छा वि अप्पाणो सअट्ठाए असणं वा०४ वेतेस्सामो, एयप्पगारंणिग्धोसं सोचा णिसम्मतहप्पगारं असणं वा०४ अफासुयं अणेसणिज्जं० जाव लाभे संते णो पडिगाहेज्जा / / (इहेत्यादि) इहेति वाक्योपन्यासे, प्रज्ञापकक्षेत्रे वा / खलुशब्दो वाक्यालङ्कारे, प्रज्ञापकाद्यपेक्षया प्राच्यादौ दिशि सन्ति विद्यन्ते पुरुषाः, तेषु च केचन श्रद्धालवो भवेयुः; तेच श्रावकाः प्रकृतिभद्रका ना, ते चामी गृहपतिर्यावत्कर्मकरी वेति, तेषां चेदमुक्तपूर्व भवेत् णमिति वाक्यालङ्कारे, य इमे श्रमणा: साधवो भगवन्तः शीलवन्तोऽष्टादशशीलाङ्गसहस्त्रधारिणो व्रतवन्तो रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधारिणो गुणवन्तः पिण्डविशुद्ध्याधुत्तरगुणोपेताः संयमा इन्द्रियनोइन्द्रियसंयमवन्तः सुव्रता पिहिताश्रवद्वारा ब्रह्मचारिणो नवविधब्रह्मगुप्तिगुप्ता: उपरता मैथुनधात् अष्टादशविकल्पब्रह्मोपेता:, एतेषां च न कल्पते आधाकर्मिकमशनादिभोक्तं, पातुंवा, अतो यदात्मार्थमस्माकं निष्ठितं सिद्धमशनादि०४, तत्सर्वमेतेभ्य: श्रमणेभ्यो (णिसिरामोत्ति) प्रयच्छाम। अपि च-वयं पश्चादात्मार्थमशनाद्यन्यत् वेतयिष्यामः संकल्पयिष्यामो निवर्त्तयिष्याम इति यावत्, तदेवं साधुरेवं निर्घोषं ध्वनि स्वत एवश्रुत्वाऽन्यतो वा कुतश्चिन्निशम्य ज्ञात्वा तथाप्रकारमशनादि पञ्चात्कर्मभयादप्रासुकमनेषणीयं मत्वा लाभे सतिन प्रतिगृह्णीयादिति। आचा०२ श्रु०१ अ०६ उ०) (37) आकरखन्यादौजे भिक्खू णवगनिवेसे अयआगरंसि वा तंवागरंसि वा तउआगरंसि वा सीसागरंसि वा रयणागरंसि वा वइरागरंसि वा अणुप्पविसित्ता असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेइ, पडिगाहंतं वा साइजइ॥३७॥ अयं लोहं, तं जत्थ उप्पजति, सो अयागारो, तंवं, सीसगं, हिरणं रुप्पयं सुवण्णं, वइरं रत्नविशेष: पाषाणकं, तत्थ जो गेण्हति, तस्य मासलहु, आणादिया य दोसा।