________________ गोयरचरिया 983 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया भण्डनप्रलुठनादिना संयमविराधना, सर्वत्र चाऽऽत्मपात्रभेदादिनोभयविराधनेति सूत्रार्थः।।१२।। अत्रैव विधिमाहअणुन्नए नावणए, अप्पहिढे अणाउले। इंदियाइं जहाभाग, दमइत्ता मुणी चरे // 13 // अनुन्नमो-द्रव्यतो भावतश्च / द्रव्यतो-नाकाशदर्शी, भावतो-न जात्याद्यभिमानवान् / नावनतो द्रव्यभावाभ्यामेव, द्रव्यानवनतोऽनीचकाय:, भावानवनतः-अलब्ध्यादिना अदीनः / अप्रहृष्टः अहसन्, अनाकुल: क्रेाधादिरहितः, इन्द्रियाणि स्पर्शनादीनि, यथाभागं यथाविषयं, दमयित्वा इष्टानिष्टेसु स्पर्शादिषु रागद्वेषरहितो मुनिः साधुश्चरेगच्छेत्, विपर्यये प्रभूतदोषप्रसङ्गात् / तथाहि-द्रव्योन्नतो लोकहास्यः, भावोन्नत ईर्या न रक्षति। द्रव्यावनतः वक इति संभाव्यते, भावावनतः क्षुद्रसत्त्व इति, प्रहृष्टो योषिद्दर्शनाद्रक्त इति लक्ष्यते,, अदान्त: प्रव्रज्याऽनर्ह इति सूत्रार्थः।।१३।। किंचदवदवस्स न गच्छेज्जा,भासमाणो य गोयरे। हसंतो नाभिगच्छेज्जा, कुलं उच्चावयं सया ||14|| द्रुतं द्रुतं, त्वारितमित्यर्थः। भाषमाणो वा गोचरे न गच्छेत् / तथा हसन्नामिगच्छेत्, कुलमुच्चावचं सदा। उचं द्रव्यभावभेदाद् द्विधा-द्रव्योचं धवलगृहवासि, भावोचं जात्यादियुक्तम् / एवमवचमपि द्रव्यतः कुटीरकवासि भावतो जात्यादिहीनभिति / दोषा उभयविराधनालोकोपघातादय इति सूत्रार्थः॥१४॥ अत्रैव विधिमाहआलोअंथिग्गलं दारं, संधिं दगभवणाणि य। चरंतो न विनिज्झाए, संकट्ठाणं विवञ्जए॥१५॥ अवलोकं नियूहकादिरूपं, थिग्गलं' चितं द्वारादि, सन्धिश्चितं क्षेत्रम्, दकभवनानि पानीयगृहाणि, चरन् भिक्षार्थम्, न विनिध्यायेत्न विशेषेण पश्येत्, शङ्कास्थानमेतदवालोकादि, अतो विवर्जयेत्, तथा च नष्टादौ तत्राशङ्कोपजायत इति सूत्रार्थः।।१५|| रनो गिहवईणं च, रहस्साऽऽरक्खियाण य। संकिलेसकरं ठाणं, दूरओ परिवज्जए॥१६|| राज्ञश्चक्रवत्यदिः, गृहपतीनां श्रेष्ठिप्रभृतीनां, "रहसा ठाणं" इति योगः। आरक्षकाणां च दण्डनायकादीनां, रह:स्थानं गुह्यापवरकमन्त्रगृहादि संक्लेशकरमसदिच्छाप्रवृत्त्या मन्त्रभेदे वाऽऽकर्षणादिनेति दूरतः परिवर्जयेदिति सूत्रार्थः।।१६|| दश०५ अ०१ उ० (21) वृष्टिकाये निपततिवासावासं पज्जोसविसयस्स नो कप्पइ पाणिपडिग्गहियस्स भिक्खुस्स कणगफुसियमित्तमवि वुट्ठिकार्यसि निवयमाणंसि० जाव गाहावइकुलं पविसित्तए वा, निक्खमित्तए वा // 28|| "वासावासं' इत्यादितः “पविसित्तए त्ति'' पर्यन्तम् / तत्र (पाणिपडिग्गहिअस्स त्ति) पाणिपात्रस्य जिनकल्पिकादेः भिक्षोः, (कणगफुसिअमित्तमवि) फुसारमात्रम्, एतावत्थपिवृष्टिकाये निपतति सतिगोचरचर्यायां गन्तुंन कल्पते॥२८॥ वासावासं पजोसवियस्स पाणिपडिग्गहियस्स मिक्खुस्स नो कप्पइ अगिहिंसि पिंडवायं पडिगाहित्ता पज्जोसवित्तए, पजोसवेमाणस्स सहसा वुट्टिकाए निवइजा देसं भुचा देसमादाय से पाणिणापाणिं परिपिहित्ता उरंसिवाणं निलिज्जिज्जा, कक्खंयि वा ण समाहमिज्जा, अहाछन्नाणि लेणाणि वा उवागच्छिज्जा, रुक्खमलाणि वा उवागच्छिज्जा जहा से तत्थ पाणिंसि दए वा दगरए वा दगफुसिया वा णो परियावज्जइ ||26|| "वासावासं'' इत्यादितः "परियावज्जइ त्ति'' यावत्। तत्र जिनकल्पिकादेः पाणिपात्रस्य साधोः, (पिंडवायं ति) पिण्डपातं भिक्षां प्रतिगृह्य (अगिहिसि ति) अनाच्छादिते आकाशे (पञ्जोसवित्तए त्ति) पर्युषितुं आहारयितुं न कल्पते (पजोसवेमाणस्स त्ति) कदाचित् आकाशे भुजानस्य देशं यदि सहसा अर्द्धभुक्तेऽपि वृष्टिपातः स्यात्तदा पिण्डपातस्य भुक्त्वा देशं चादाय पाणिमाहारैकदेशसहितं हस्तं पाणिना द्वितीयहस्तेन परिपिधाय आच्छाद्य उरसि निलीयेत निक्षिपेद्वा। तं साहारं पाणिं कक्षायां वा समाहरेत् अन्तर्हितं कुर्यात्, एवं च कृत्वा यथाछन्नानि गृहिभिः स्वनिमित्तमाच्छादितानि लयनानि गृहाणि उपागच्छेत् / वृक्षमूलानि वा यथा (से) तस्य पाणी दकादीनि न पर्यापद्यन्ते, न विराध्यन्ते, न पतन्ति वा / तत्रदकं बहवो विन्दयो, दकरजो विन्दुमात्रम् (दगफुसिआ) फुसारम्, अवश्याय इत्यर्थः। यद्यपि जिनकल्पिकादेर्देशोनदशपूर्वधरत्वेन प्रागेव वर्षोपयोगो भवति, तथा चार्द्धभुक्तेगमनं न संभवति, तथाऽपिछद्मस्थत्वात् कदाचिदनुपयोगोऽपि भवति // 26 // उक्तमेवार्थं निगमयन्नाहवासावासं पङोसवियस्स पाणिपडिग्गहस्स भिक्खुस्स जं किंचि कणफुसियमित्तं पि निवडेति, नो से कप्पइ गाहावइकुलं भत्ताए वा पाणाए निक्खमित्तएवा, पविसित्तए वा॥३०॥ "वासावासं पज्जोसवियाणं' इत्यादितः "पविसित्तए ति" यावत् / तत्र (कणगफुसियमित्तं पिति) कणो लेशः, तन्मात्रकं पानीयं कणकं, तस्य "फुसिआ" फुसारमात्रम्, तस्मिन्नपि निपतति जिनकल्पिकादेर्भिक्षायै गन्तुंन कल्पते॥३०॥ उक्तः पाणिपात्रविधिः। अथ पात्रधारिणो विधिमाहवासावासं पजोसवियस्स पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्धारिअवुट्टिकायंसि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा, पविसित्तए वा, कप्पइ से अप्पवुटिकायंसि संतरुत्तरंसि गाहावइकुलं भत्ताए वा पाणाएवा निक्खमित्तए वा, पाविसित्तए वा॥३१॥ "वासावासं" इत्यादितः "पविसित्तए त्ति" यावत् / तत्र