________________ गोयरचरिया 982 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया वा खाणुं वा कंटए वा घसी वा भिलुगा वा विसमे वा विज्जले वा परियावज्जेज्जा सति परक्कमे संजयामेव परकमेज्जा, णो उजुयं गच्छेज्जा। "से भिक्खू वेत्यादि / स भिक्षुर्भिक्षार्थ प्रविष्टः सन्मार्गोपयोगं दद्यात्तत्रान्तराले यद्येतत्पर्यापद्येत् स्यात् तद्यथा-अवपातो गर्तः, स्थाणुर्वा, कण्टको वा, 'घसी नामस्थलादधस्तादवतरणम्, (भिलुगं त्ति) स्फुटितकृष्णभूराजिः, विषम उन्नतं 'विज्जलं" कर्दमः, तत्राऽऽत्मसंयमविराधनासंभवात्। पराक्रमे मार्गान्तरे सति ऋजुना पथा नगच्छेदिति। अचा०२ श्रु०१ अ०५ उ०। पं०भा०ापं०००। गृहपतिद्वारे कण्टकादिसे भिक्खू वा भिक्खुणी वा गाहावतिकुलस्स दुवारवाह कंटगवॉदियाए पडिपिहितं पेहाए तेसिं पुवामेव उवग्गहं अणणुण्णवितं अपडिलिहियए अपमजिय णो अवगुणेज वा, पविसेज वा, णिक्खमेज वा, तेसिंपुष्वमेव उवग्गहं अणुण्णविय 2 पडिलेहिय 2 पमजिय 2 तओ संजयामेव अवगुणेज वा, पविसेज वा,णिक्खमेज्ज वा।। "से भिक्खू वेत्यादि" स भिक्षुर्भिक्षार्थं प्रविष्टः सन् गुहपतिकुलस्य (दुवारवाहं ति) द्वारभागः,तंकण्टकशाखया पिहितं प्रेक्ष्य येषां तद् गृहं तेषामवग्रहं पूर्वमेवाननुज्ञाप्यायाचित्वा, तथा प्रत्युपेक्ष्य चक्षुषा अपमृज्य च रजोहरणादिना (णोअवगुणेज ति) नैवोद्घाटयेद्, उद्धाट्य च न प्रविशेत्, नापि निष्क्रामेत्, दोषदर्शनात्। तथाहि - गृहपतिः प्रदेषं गच्छेत्, नष्टे च वस्तुनि साधुविषयाशङ्कोत्पद्येत् उद्घाटद्वारे चान्यत् श्वादि प्रविशेदित्येवं च संयमात्मविराधने / सति कारणे अपवादमाह-स भिक्षुर्येषां तद् गृहं तेषां संबन्धिनमवग्रहमनुज्ञाप्य याचित्वा प्रत्युपेक्ष्य प्रमृज्य च गृहोद्घाटनादि कुर्यादिति। एतदुक्तं भवति-स्वतोद्वारमृद्घाट्य न प्रवेष्टव्यमेव, यदि पुनर्लानाचार्यादिप्रायोग्यं तत्र लभ्यते, वैद्यो वा तत्रास्ते, दुर्लभं वा द्रव्यं तत्र भविष्यति, अववमौदर्ये सति एभिः कारणैरुपस्थितेः स्थगितद्वारि व्यवस्थितः सन् शब्दं कुर्यात्, स्वयं वा यथाविध्युद्घाट्य प्रवेष्टव्यमिति। आचा०२ श्रु०१ अ०५ उ०। तत्र प्रविष्टस्य विधिं दर्शयितुमाह(२०) षट्काययतना। अत्रैव विशेषतः पृथिवीकाययतनामाहइंगालछारिए रासिं, तुसरासिंच गोमयं / ससरक्खेहिं पाएहिं संजओ तं नऽइकमे ||7|| अङ्गाराणामयमाङ्गार:, तमाङ्गारं राशिम् / एवं क्षारराशिं, तुषराशिं, गोयमराशिं च / राशिशब्द प्रत्येकमभिसंबध्यते / सरजष्काभ्यां पद्भ्यां सचित्तपृथिवीरजोगुण्डिताभ्यां पादाभ्यां, संयत: साधुः, तमनन्तरोदितं राशिं, नातिक्रमेत् मा भूत्पृथिवीरजोविराधनेति सूत्रार्थः।।७।। अत्रैवाप्कायादियतनामाहन चरेज वासें वासंते, महियाए पडं तिए। महावाए व वायंते, तिरिच्छसंपाइमेसु || नचरेद्वर्षे वर्षति भिक्षार्थ प्रविष्टो, वर्षणे तुप्रच्छन्ने तिष्ठत्। तथा मिहिकायां वा पतन्त्यां, सा च प्रायो गर्भमासेषु पवति / महावाते वा वाति सति, तदुत्खातरजोविराधनादोषात् / तिर्यक्संपतन्तीति तिर्यक्संपाता: पतङ्गादयः, तेषु वा सत्सु क्वचिदशनिरूपेण न चरेदितिसूत्रार्थः।।८॥ उक्ता प्रथमव्रतयतना। साम्प्रतं चतुर्थव्रतयतनोच्यतेन चरेज वेससोमंते, वंभचेरवसाणुए। वंभयारिस्स दंतस्स, हुज्जा तत्थ विसुत्तिया || नचरेद्वेश्यासामन्तेन गच्छेद्गणिकागृहसमीपे, किंविशिष्टे इति? आहब्रह्मचर्यवशानयने / ब्रह्मचर्य मैथुनविरतिरूपं, वशमानयत्याऽऽत्मायत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्यवशानयनं तस्मिन् / दोषमाहब्रह्मचारिणः साधोर्दान्तस्य इन्द्रियनोइन्द्रिय-दमाभ्यां भवेत्तत्र वेश्यासामन्ते विश्रोतसिका-तद्रूपसंदर्शनस्मरणापध्यानकचबरनिरोधतः ज्ञानश्रद्धाजलोज्झनेन संयमस्य शोषफला चित्तविक्रियेति सूत्रार्थः। एष सकृचरणदोषो वेश्यासामन्तसङ्गत उक्त: / / 6 / / सांप्रतमिहान्यत्र वाऽसकृचरणदोषमाहअणायणे चरंतस्स, संसग्गीए अभिक्खणं। हुजा वयाणं पीला ऊ, सामन्नम्मि य संसओ / / 10 / / अनायतने अस्थाने वेश्यासामन्तादौ चरतो गच्छतः संसपेण संबन्धेन अभीक्ष्णं पुनः२, किमिति? आह-भवेद्रतानां प्राणातिपातविरत्यादीनां पीडा तदाक्षिप्तचेतसो भावविराधना, श्रामण्ये श्रमणभावे च द्रव्यतो रजोहरणादिसंधारणरूपे भूयो भावव्रतप्रधानहेतौ संशयः, कदाचिदनिष्क्रामत्येवेत्यर्थः / तथा च वृद्धव्याख्या-"वेसादिगयभावस्य मेहुणं पीमिज्जई, अणुवओगेणं एसणाकरणे हिंसा, पडुप्पायणे अन्नपुच्छणअवलंवणा-ऽसचवयणं, अणगुण्णा य वेसाइदंसणे अदत्तादाणं, ममत्तकरणे परिगहो, एवं सव्ववयपीडा दव्वसामन्ने पुण संसयो उणिक्खमणेण त्ति" सूत्रार्थः||१०|| निगमयन्नाहतम्हा एयं वियाणित्ता, दोसं दुग्गइववणं / वजए वेससामंतं, मुणी एगंतमस्सिए।।११।। यस्मादेवं तस्मादेतत् विज्ञाय दोषमनन्तरोदितं दुर्गतिवर्द्धन वर्जयेद्वेश्यासामन्तं मुनिरकान्तं मोक्षमार्गमाश्रित इति सूत्रार्थः।।११॥ आह-प्रथमव्रतविराधनाऽनन्तरं चतुर्थव्रतविराधनोपन्यास: किमर्थम्? उच्यते-प्राधान्यख्यापनार्थम्, अन्यव्रतविराधना हेतुत्वेन प्राधान्यं, तब लेशतो दर्शितमेवेति अत्रैव विशेषमाहसाणं च सूइयं गाविं, दित्तं गोणं हयं गयं / संडिब्मं कलहं जुद्ध, दूरओ परिवजए॥१२॥ श्वानं लोकप्रतीतं, सूतां गाम् अभिनवप्रसूतामित्यर्थः दृप्तं च दर्पितम्, किमिति? आह-"गोणं हयं गज" गोणोवलीवर्दः,हयोऽश्वो, गजो हस्ती। तथा किमिति? आह-(संडिब्भ) बालक्रीडास्थानं, कलह वाक्प्रतिबद्धं, युद्धं खङ्गादिभिः, एमळूरतो दूरेण परिवर्जयेत्, आत्मसंयमविराधनासंभवात्। श्वसूतगोप्रभृतिभ्य आत्मविराधना, डिम्भस्थाने वन्दनाद्यागमनपतन