________________ गोयरचरिया 676 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया सकृदेव एकवारमेव नित्यभक्तिकस्य भक्ताय वा पानाय वा निर्गमनं कल्पते, चतुर्थभक्तिकस्याप्युत्सर्गतः सकृदेव भिक्षामटितुं कल्पते अथ तदानीं पर्यटताऽपि तेन परपूर्णो भक्तार्थो न लब्धः, ततोऽलब्धे सति तस्य द्वायपि गोचरकालानुज्ञातौ, यस्य विकृष्टभक्तिको दशमद्वादशमादिक्षपकः, तस्य सर्वेऽपि गोचरकाला: कल्पन्ते / (छउट्ठमे वितिहिं ति) षष्ठभक्तिकस्य द्वयोर्गोचरकालयोः, अष्टभक्तिकस्य तु त्रिषु गोचरकालेषु भिक्षामटितुं कल्पते। स्यान्मतिः किमर्थ षठादिभक्तिकानांद्व्यादिगोचरकालानामनुज्ञा? उच्यतेसंखुन्ना जेणऽन्तां, दुगाइ छट्ठादिणं ततो कालो। मुत्तऽणुमुत्ते अवलं, जायइ न य सीतलं होइ॥ संक्षुण्णानि सुकुचितानि येन कारणेन षष्ठादितपसा अन्त्राणि | प्रतीतानि / ततः षष्ठादिभक्तिकानां द्विकादिको गोचरद्वयादिकः कालोऽनुज्ञातः / अपि च प्रथममेकवारं भुक्तस्ततो द्वितीयादिकं वारमनुभुक्तस्त भुक्तानुभुक्तस्य, व्यादीन् वारान भुक्तवत इत्यर्थः। बलं भूयोऽपि षष्ठादिकरणे सामर्थ्यमुपजायते, न चेत्थं तद्भक्तंशीतलं भवति, सद्योगृहीतत्वात्। यदि कमेकवारंपर्यटता यद्गृहीतं तन्मध्यात् किञ्चित् समुद्दिश्य द्वितीयादिवारं समुद्देशनार्थं शेष स्थापयेत्, तदा तद् भवत्येव शीतलं, तच तस्य तमःक्षामदेहस्य कारकमिति कृत्वा द्वयादयो गोचरकाला अनुज्ञाता इति। अत्र पर: प्राह-यद्यसौ षष्ठादिभक्तिको यावन्ति भक्तानि छिनत्ति तावन्त्येकेनैव दिवसेन पूरयति,तत: कोनाम गुणस्तस्य भक्तच्छेदनेन? उच्यतेबहुदेवसिया भक्ता, एकदिणेणं तु जइ वि मुंजेजा। तह विय चागतितिक्खा-एगग्गपभावणाईया॥ बहुदैवसिकानि भक्तानियद्यप्यसावेकदिनेनैव षष्ठादिभक्तिको भुञ्जीत, | तथापि भक्तच्छेदने त्यागतितिक्षैकाग्रप्रभावनादयो गुणा भवन्ति। त्यागो नाम -व्यादीन् दिवसान् सर्वथैव भक्तार्थपरिहारः, तितिक्षा क्षुधापरीषहस्याधिसहनम्, ऐकण्यं तु सूत्रार्थपरावर्तनादौ चित्तस्यानन्योपयुक्तता, प्रभावना नाम-अहो ! अमीषां शासनं विजयते यत्तादृशास्तपस्विन इति / आदिशब्दादन्येषामपि तप:कर्मणि श्रद्धाजननं, गृहिणां वा तद्दर्शनात्प्रव्रज्याप्रतिपत्तिरित्यत: षष्ठादिभक्तिकस्य व्यादिगोचरकालानुज्ञानम्, नित्यभक्तिकस्तु यदि द्वितीयं वार भिक्षार्थमवतरति मासलघु, तृतीयवारं मासगृरु चतुर्थं वारं चतुर्लघु, पञ्चम चतुर्गुरु,षष्ठं षट् लघु, सप्तमं षट्गुरु, अष्टमं छेदः, नवमं मूलं, दशममनवस्थाप्यम्, एकादशं वारं पाराश्चिकम्। चतुर्थभक्तिकादीनामतिदेशमाहजह एस एत्थ वुड्डी, ओअरमाणस्स दसहि सपदं च। सेसेसु विजं जुञ्जइ, तत्थ विवुड्डी उ सोहीए। यथा द्वितीयादिवारं भिक्षामवतरत एषा लघुमासादारभ्य प्रायश्चित्तस्य वृद्धिर्भणिता, दशभिश्च दशसंख्याकैः स्थानैः स्वपदं पाराञ्चिक नित्यभक्तिकस्योक्तम् / तथा शेषेष्वपि चतुर्थभक्तिकादिषु यत् तृतीयवारादिकं प्रायश्चित्तस्थानं युज्यते, तत्र तदारभ्य शोधेः प्रायश्चित्तस्य विवृद्धिः कर्तव्या / तद्यथा- चतुर्थभक्तिकस्तृतीयं वारं भिक्षामवतरतिमासलघु, चतुर्थं मासगुरु, पञ्चमं चतुर्लघु, षष्ठं चतुर्गुरु, / सप्तमं षड् लघु अष्टमं षड्गरु, नवमं छे दः, दशमं मूलम, एकादशमनवस्थाप्यम्, द्वादशं वारं पर्यटतः पाराञ्चिकम् / एवं षष्ठभक्तिकस्यापि द्वादशं वारमवतरतः पराश्चिकम् / यदाह चूर्णिकृत्"छट्ठभत्तियस्स वि वारसहिं पायइ पारंचियं ति"। अष्टमभक्तिकस्य तु चतुर्थवारादारभ्य त्रयोदशं वारं यावत्पर्यटतो लधुमासादिकं पाराञ्चिकान्तमिति / गतं प्रमाणद्वारम् / बृ०१ उ०। द्वितीयवारं प्रविशतिजे भिक्खू गाहावतिकुलं पिंडवायपडियाए पविटे पडियाइक्खित्ते समाणे दोचं पि तमेव कुलं अणुप्पविसइ, अणुप्पविसंतंवा साइजइ // 12 // "जे भिक्खू गाहावतिकुलं पिंडवातपडियाए" इत्यादि। (पडियाइक्खिए त्ति) प्रत्याख्यातः, अतित्थाविते त्ति भणियं भवति, दोच्चं पुनरपि तमेव प्रविशति, तस्स मासलहुं, आणाइणा य दोसा। णिज्जुत्तिगाहाजे भिक्खू गाहावति-कुलमतिगएँ पिंडवातपडियाए। पचक्खेितें समाणे, तं चेव कुलं पुणो पविसे // 27 // जे ति णिद्देसे, भिक्खू पूर्ववत्, गिहस्स पती गिहपती,तस्स कुलं, गृहमित्यर्थः / अतिगतः प्रविष्टः, पिंडपातपडियाए पञ्चक्खातो प्रतिषिद्धः प्रत्याख्यानेन,(समाणे त्ति) समः प्रत्याख्यानेत्यर्थः। अहवा-'समाणे त्ति पचक्खाउ त्ति होउं तमेव पुनः प्रविशेत्। गाहासो आणा अणवत्थं, मिच्छत्तविराधणं तथा दुविधं / पावति जम्हा तेणं, पञ्चक्खाते तु ण प्पविसे // 28|| दुविहा विराहणा-आयाए, संजमेय जम्हा एते दोसा पावति, तम्हा णतंपुणो कुलं पविसे। अथं पविसति तो इमे दोसादुपदचतुप्पयणासे, हरणोहविणे य महण खणणे य। वारियकामी दोचा-दिएसुसंका भवे तत्थ // 26 // तम्मि कुले दुपदं दुअक्खरियादि, चउप्पदं अस्सादि, णडे, हरिते या सो संकिजंति, एवं उद्दविते, घरादिदाहे, क्खत्ते य क्खतिते भंडिउकामी उब्भामगो एह सादिआण ताण वा दूइत्तणं करेइ, एवं संकिते णिस्सकिते वा जं तमावले, साहूहिं घरं भरियं ति, रायकुले कहेज, एवं गेण्हणादयो दोसा। कारणे तु पुण दोचं पि पविसतिवितियपदमणाभोगे, अचितं गेलण्ण पगत पाहुणए। रायदुट्टे रोधगे, अद्धाणे वा वितिविकप्पं // 30 // अणाभोगेण दोच्चं पिपविसे, तमणीओ खंवियाओ जत्थतं अचियं दाउं संचियादी, दुर्भिक्षं वा, गिलाणकारणेण वा भुजो पविसति, एवं पाहुणगातिएसु वि, अद्धाणे वा वितिविकप्पेति आदी मज्झे अवसाणे य, अहवा गेलण्णादिएसु कज्जेसुएसणिजे अलब्भमाणे तिपरियल्लविकप्पे पुणो तेसु चेव गहेसु दोचं वारं पविसति। गाहाएतं तं चेव घरं, अप्पुव्वधरसंकमेण वा मूढो।