________________ गोयरचरिया 680- अभिधानराजेन्द्रः - भाग 3 गोयरचरिया पुच्छा पुण सेसेसुं, कहेति कर्ज अपुच्छो वा॥३१॥ अणाभोगपविट्ठो गिहीण सुणेताण भणति-एयंतंचेवघरं ति। अहवा- / अपुव्वघरसंकमेण वा पविठ्ठो भणति-एयं तं चेव घरं ति। (सेसेसु त्ति) गिलाणादिसु कारणेसु गिहिसु पुच्छितो अपुच्छितो वा 'गिलाणट्ठा दोच्च पि आगत' त्ति कर्ज कहेति। गाहाभावितकुलाणि पविसति, अदेसकाले विजेसु से आसि। सुण्णे पुणरागतेसुं, भद्दमसुण्णं च जं आसि // 32 // अहवा-जे साहुसाहुणीहिं पविसंतेहिं भाविता कुला, तेसिंण संकातिदोसा भवंति,तेसुदोचं पि कारणे पविसति। अदेसकाले विजेसु कुलेसु आसी, तेसु पुणो देसकालेसु पविसति, जं भिक्खाकाले सुण्णं असिवेसु पुणो पविसति, भद्दकुलं वा असुण्णं जं आसि, तत्थ केणइ कारणेण भिक्खा ण दत्ता, तं पुणो पविसति। नि०चू०३ उ०। (14) मात्रकं गृहीत्वा गन्तव्यम्।मात्रकद्वारम् - अथ मात्रकद्वारं व्याख्यायते-मात्रकमगृहीत्वा निर्गछति मासलघु, आचार्यादीनां प्रायोग्यं मात्रकं विना कुत्र गृह्णातु ? यदि न गृह्णति तदा, यदाते अनागाढमागाढवा परिताप्यन्ते, तन्निप्पन्नम्। अथ ते आन्तप्रान्तं समुद्दिशेयुः ततो ग्लान्यादयो दोषाः / दुर्लभद्रव्यस्य वा घृतादेस्तदिवसं लाभो जातः, यदि मात्रकं नास्तीतिकृत्वा तत्तुन गृह्णाति तदा मासलघु, संसक्तभक्तपानं वा मात्रकं विना क्व शोधयतु? यदि मात्रकमभविष्यत् ततस्तत्रशोघयित्वा परिष्ठापयेत्, प्रतिग्रहे परिक्षिपेता, यत एवमतः कर्तव्यं मात्रकग्रहणम् / गतं मात्रकद्वारम् / बृ०१ उ०। द्वितीयपदे मात्रकमप्यनाभोगादिना न गृह्णीयात्। बृ०१ उ०। ध०। औ०। (15) यस्य च योगद्वारम् - यस्य वस्त्रपात्रशैक्षादेोगः संबन्धो भविष्यति तदति गृहीष्यामीति यदिन भणति, तदाऽपि मासलघु, वस्त्रपात्रादिकं च ग्रहीतुंन कल्पते। बृ०२ उ०। (16) संघाटकं कृत्वागन्तव्यम्। अथ संघाटकद्वारं भाष्यकृदेव व्याख्यानयतिएगागियस्स दोसा, साणे इत्थी तहेव पडिणीए। भिक्खऽविसोहि महव्वय, तम्हा सविइज्जए गमणं / / यद्येकाकी पर्यटति तदा मासलघु, एते च दोषा:-स एकाकी यदि भिक्षां शोधयति, तदा पृष्ठतः श्वान: समागत्य तं दशेत्। अथ श्वानमवलोकते, तत एषणां न रक्षति, तमेकाकिनं दृष्ट्वा काचित्प्रोषितभर्तृका, विधवा वा स्त्री, बहि:प्रचालमलभमाना द्वारं पिधाय तं गृह्णीयात, प्रत्यनीको वा तमेकाकिनं दृष्ट्वा प्रतापनादि कुर्यात्, भिक्षाविशोधिरिति एकाकी यदि त्रिषु गृहेषु भिक्षांदीयमानां गृह्णाति, ततएषणाया अशुद्धिर्भवति। अथैकत्रैव गृहे गृह्णाति, तत इतरयोर्दायकयो: प्रद्वेषो भवेत्। द्वयोस्तु निर्गतयोरेक एकत्र भिक्षामाददानएवोपयोगं ददाति। द्वितीयस्तुशेषगृहद्वयादानीयमानं भिक्षाद्वयमपि सम्यगुपयुक्ते, महाव्रतानि वा एकाकी विराधयेत् / तथाहि-एकाकी नि:शङ्कत्वादप्कायमप्यापिवेत् 1, कुण्टलवेण्टलादि वा प्रयुञ्जीत 2, हिरण्यादिकं वा विक्षिप्तं गुरुकर्मतया स्तेनयेत् 3, अविरतिकां वा रूपवतीं दृष्ट्वा समुदीर्णमोहतया प्रतिसेवेत् 4, भैक्षेण वा समं पतितं सुवर्णादि गृह्णीयादिति। यत एते दोषस्तस्मात् सद्वितीयेन गतनं कर्तव्यम्, संघाटकेनेत्यर्थः। स पुनरेकाकी कैः कारणैः संघाटिकंन गृह्णातीत्युच्यतेगारविए काहीए, माइल्ले अलस लुद्ध निद्धम्मे। दुल्लह अत्ताहिट्ठिय, अमणुग्ने वा असंघाडो।। गौरविको नाम लब्धिसंपन्नोऽहमित्येवंविधगर्वोपेतः। अत्र चेयं भावनासंघाटके यो रत्नाधिकः सोऽलब्धिमान, अवमरत्नाधिकस्तु लब्धिसंपन्नः, ततोऽसावग्रणीभूय भिक्षामुत्पादयति, प्रतिश्रयमागतयोश्च तयोः रत्नाधिको मण्डलीस्थविरेण भण्यते ज्येष्ठाय-मुञ्च प्रतिगृहं; ततोऽवमरत्नाधिकः स्वलब्धिगर्वितश्चिन्तयेत-मया स्वलब्धिसाम र्थ्येनेदं भक्तपानमुत्पादितम्, इदानीमस्य रत्नाधिकः प्रभुरभूत् येनास्य पार्श्वे प्रतिग्रहो याच्यते, इति कषायितःसन्नेकाकित्वं प्रतिपद्यते। (काहीए त्ति) कथाभिश्चरतीति काथिकः कथाकथनैकनिष्ठः, स गोचरं प्रविष्ट: कथा: कथयन् द्वितीयेन साधुना गुर्वादिभिर्वा वार्यमाणोऽपि नोपरमते, ततएकाकी भवति। मायावान् भद्रकं 2 मुक्त्वा शेषमानयन्नेकाकी जायते। अलसश्चिरगोचरचर्याभ्रमणभग्नः सन्नेकाकी पर्यटति / लुब्धस्तु दधिदुग्धादिका विकृती: खलु भाव्यमानः पृथगेव पर्यटति / निर्द्धमी पुनरनेषणीयं जिघृक्षुरेकत्वं प्रतिपद्यते (दुल्लहं ति) दुर्लभभैक्षकाले एकत्वमुपसंपद्यते (अत्ताहिट्ठिय त्ति) आत्मार्थिक आत्मलब्धिकः, स स्वलब्धिसामर्थ्येनैवोत्पादितमहं गृह्णामीत्येकाकी भवति / अमनोज्ञो नाम-सर्वेषामप्यनिष्टः, कलहकारकत्वात्, असावप्ये काकी पर्यटतीत्येतैः कारणैरसंघाटः, संघाटको न भवति। __ अर्थतेषामेकाकित्वप्रत्ययं प्रायश्चित्तमाहलघुया य दोसु गुरुओ, अह तइए चउ गुरू य पंचमए। सेसाण मासलहुओ, जंवा आवजई आई जत्थ।। द्वयोरिविककाथिकयोश्चत्वारो लघवः, तृतीयकस्या मायावतो गुरुको मास:, पञ्चमस्य लुब्धस्य चत्वारो गुरवः, शेषाणामलसनिर्द्धर्मादीनां मासलघु / यदा-संयमविराधनादि यत्राऽऽपद्यते तन्निष्पन्नं तत्र प्रायश्चित्तम् / गतं संघाटकद्वारम् / बृ०१ उ० तथा संघाटकं विनाऽपि निर्गच्छेत् / कथमिति चेत्? उच्यते यदि दुर्भिक्ष चिरमप्यटित्वा पर्याप्त लभ्यते ततो द्वावेव पर्यटतो, न पुनरेकाकी / अथ द्वयोरप्येकैव भिक्षा लभ्यते, न च कालः पूर्यते, तत एकोऽपि पर्यटेत् / यदि सर्वेऽपि स्वगूढत्वादात्मलब्धिका भवन्ति, तदा प्रतिषेधितव्यः, अथ कोऽपि प्रियधर्मा मातृस्थानविरहित आत्मलब्धिकत्वं प्रतिपद्यते, ततः सोऽनुज्ञातव्यः / य: पुनरमनोज्ञ: स अन्यान्यैः साधुभिः समं संयोज्य प्रेष्यते। यदि सर्वेऽपि नेच्छन्ति, ततः परित्यज्यनीयोऽसौ, अथ स एवैकः कलहकरणस्तस्य दोषः, अपरे निर्लोभत्वादयो बहवो गुणा:, एषणाद्धो वाऽतीव दृष्टः, ततो न परित्यक्तव्य इति। बृ०१ उ०। (17) उच्चावचकुलेषु चरेत् सामुदानिकःसमुआणं चरे भिक्खू, कुलं उच्चावयं सया। नीयं कुलमइक्कम्म, ऊसदं नामिधारए॥२५॥