________________ गोयरचरिया 978 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया तथा चाहकञ्जम्मि विनो विगिति, भत्तं पंतं न तं च पज्जतं / खेत्तं खलुखेत्तादी, कुवसहि उन्भामगे चेव / / तइयाएँ देति काले, ओमे वुस्सग्गवादितो निचं / संगह-उवग्गहे विय, न कुणइ भावे पयडो य।। द्रव्यतः-कार्येऽपि समापतिते विकृति घृतादिकं न ददाति, भक्तमपि प्रान्तं दापयति, तदपि च न पर्याप्तम् / क्षेत्रतः-खलुक्षेत्रादीन् प्रेषयति, खलुक्षेत्रं नाम-यत्र तु किमपि न प्रायोग्यं लभ्यते, आदिशब्दात् यत्र स्वपक्षतः परपक्षतो वाऽपभाजना, तदादिपरिग्रहः / कुवसतौ या स्थापयति, उद्भ्रामके वा ग्रामे यदा तदा वा प्रेषयति / कालत:-सदैव तृतीयायां भोजनं ददाति / अवमेऽपि दुर्भिक्षेऽप्युत्सर्गवादिको नित्यम्, भवतः-संग्रहं ज्ञानादिभिः, उपग्रहं वस्त्रपात्रादिभिर्न करोति। प्रचण्डश्च प्रकोपनशील:। लोए लोउत्तरे चेव, दो वि एए असाहगा। विवरीयवित्तिणो सिद्धी, अन्ने दो विय साहगा॥ लोके लोकोत्तरेऽपि च एतावनन्तरोकै द्वावप्यसाधको द्रव्यतो भावतश्च प्रासादस्य विपरीतवर्तिन: पुनरुभयथापि सिद्धिरिति कृत्वा अन्यौ द्वावपि द्रव्यतो भावतश्च प्रासादस्य साधको। सिद्धिपासायवडिं-सगस्स करणं चउव्विहं होइ। दव्वे खेत्ते काले, भावे य न संकिलेसेइ॥ सिद्धिप्रासादावतंसकरणं चतुर्विधं भवति / तद्यथा-द्रव्यतः, क्षेत्रतः, कालतो, भावतश्च। ततो गीतार्थो द्रव्यादिषु साधून्न सक्लेशयति। एवं तु निम्मवंती, ते विय अचिरेण सिद्धिपासायं। तेसिं पिइमो उविहि, आहारेयव्वए होति // एवं द्रव्यादिषु संक्लेशाकरणतस्ते साधवोऽचिरेण स्तोकेन कालेन सिद्धिप्रासादं निर्मापयन्ति, तेषामपि सिद्धिप्रासादनिर्मापकाणामाहारयितव्येऽयं वक्ष्यमाणो विधिः। तमेवाहअद्धमसणस्स सर्बु,जणस्स कुजा दवस्स दो भाग। वायपवियारणट्ठा, छन्भागं ऊणय कुआ। अर्द्धमुदरस्य दधितक्रतीमनादिसहितस्याशनस्य योग्यं कुर्यात्, द्वौ भागौ द्रव्यस्य पानीयस्य योग्यौ,षष्ठं तु भागं वातप्रविचरणार्थमूनकं कुर्यात् / इयमत्र भावना-उदरस्य षड् भागा: कल्पन्ते, तत्र त्रयो भागा अशनस्य सव्यञ्जनस्य ,दौ भागौ पानीयस्य, षष्ठो वातप्रविचरणाय। एतच साधारणे, प्रावृट्काले चत्वारोभागा: सव्यञ्जनस्याशनस्य, पञ्चमः पानीयस्य, षष्ठो वातप्रविचाराय, उष्णकाले द्वौ भागावशनस्य सव्यञ्जनस्य, त्रयः पानीयस्य षष्ठावातप्रविचारणायेति। एसो आहारविही, जह भणिता सव्वभावदंसीहिं। धम्मावस्सगजोगा, जेण न हायंति तं कुला।। एष आहारविधिर्यथा सर्वभावदर्शिभिः सर्वज्ञैर्भणिता, येन च प्रकारेण धर्मनिमित्ता अश्यकतव्या योगा न हीयन्ते, तं कुर्यान्नान्यदिति ॥व्य०८ उ०ा सूत्र०ा औ०गदशन "जेणं पढमाएपोरिसीए अणइक्वंताएतइयाए / पोरिसीए अइकताए भत्तं वा पाणं वा पडिगाहेज वा, परिभुजेज वा, तस्स ण पुरिमट्ठ" महा०७ अ० (12) रात्रौ भिक्षा न ग्रहीतव्या नो कप्पइ निग्गंथाण वा निग्गंथीण वा राएवा वियाले वा असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्तए। अस्य संबन्धंघटयन्नाहवयअहिगारे पगए, राईवयभत्तपालणे इणमो। सुत्तं उदाहु थेरा मा पीलो होज्जा सव्वेसिं॥ पूर्वसूत्रे द्वितीयावग्रहोऽनुज्ञामन्तरेण वस्त्रं न परिभाक्तव्यमिति तृतीयव्रतस्याधिकारः प्रकृतः, तस्मिँश्च प्रकृते रात्रीभक्त व्रतपालनार्थमिदं सूत्रं स्थविरा: श्रीभद्रबहुस्वामिन उदाहृतवन्तः। कुत इत्याहमा तस्मिन् षष्ठव्रते भग्ने सर्वेषामपि महाव्रतानां पीडा विराधना भवेत् इति कृत्वा। प्रकारान्तरेण संबन्धमाहअहवा पिंडो भणिओ, न य भणिओ गहणकालं तु। तस्स गहणं खवाए, वारेइ अणंतरे सुत्ते। अथवा "निग्गथंचणं गाहावइकुलं पिंडवायपडियाए" इत्यादिषु सूत्रेषु पिण्डो भणितः, न च तस्य पिण्डस्य ग्रहणकालो भणितः, कदा गृह्यते, कदा नेति / अतः पूर्वसूत्रेभ्यो यदपान्तरालमिदमेव सूत्रं , तत्र तस्य पिण्डस्य ग्रहणं क्षपायां रात्रौ निवारयतीत्यनेन संबन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा रात्रौ वा विकाले वा अशनं वाओदनादि, पानं वा अबादि,खादिमं वा फलादि, स्वादिम या शुण्ठ्यादि प्रतिग्रहीतुम् इति सूत्राक्षरार्थः / अथ भाष्यविस्तर:राते व वियाले वा संझा राई ओक्किसिइ विकालो। चउरो य अणुग्घाया, चोदगपडिघाएँ आणादी। रात्रौ वा विकाले वेति यदुक्तं सूत्रे, तत्र 'सन्ध्या रात्रिरुच्यते' इतिनिरुक्तिवशात् शेषा सर्वाऽपि रजनी, विगतः सन्ध्याकालोऽत्रेति विकालउच्यते / केषाञ्चिदाचार्याणां दिवसलक्षणकालविगमात् सन्ध्या विकालः, शेषा तु रात्रिः, रज्यन्ति स्तेनपारदारिकादयो अत्रेति कृत्वा। एतयो रात्रिपिकालयो: सूत्रोक्तं चतुर्विधमाहारं गृह्णतो भुञ्जानस्य च चत्वारो अनुद्धाता मासा: प्रायश्चित्तम्। बृ०१ उ०) (13) कतिवारान् गच्छेत् - अथ विस्तरार्थमभिधित्सुः प्रमाणद्वारं भावयतिदोन्नि अणुनाया ऊ, तइया आवज मासियं लहुयं / गुरुगो एचउत्थीए, चाउम्मासो पुरेकम्मे।। चतुर्थभक्तिकस्य द्वौ वारौ गोचरचर्यामटितुमनुज्ञातौ, अथ तृतीय वारमटति, तत आपद्यते मासिकं लघुकम्, अथ चतुर्थं वारं पर्यटति, तदा गुरुको मास: / स्त्रीत्वं सर्वत्र प्राकृतत्वात्। अथ तृतीयादीन वारान् भिक्षार्थं प्रविशति, ततो गृहिणः पुर : कर्म कुर्वन्ति, तत्र चत्वारो मासा लघव इति / एषा नियुक्तिगाथा। अथैनामेव भाष्यकृद्विवृणोतिसइमेव उ निग्गमणं, चतुत्थभत्तिस्स दोन्नि वि अलद्धे। सव्वे गोयरकाला, विगिट्ट छट्ठट्ठमे वि तिहिं / /