________________ आगम 75 अमिधानराजेन्द्रः भाग 2 आगम न्तरविशेषितो वाक्यार्थोऽभ्युपगतः / तथाहि-'दण्डी' 'छत्री' त्यादिव्यपदेशं यथा पुरुष एव समासादयति नान्यस्तद्व्यतिरिक्तः तथा 'अपाक्षीत्' 'पचति' 'पक्ष्यति' इत्याद्यतीतकालाद्यवच्छिन्न: क्रियाविशिष्टश्च देवदत्त एव प्रतीयते- 'अपाक्षीद्' इत्यादिशब्दानां देवदत्तशब्देन सामानाधिकरण्यात्-न तु तद्व्यतिरिक्तोऽर्थः अथ यद्यंत्र कालाधवच्छिन्नपुरुष एव प्रतीयते तदा 'अग्निहोत्रं जुहुयात्' 'ग्रामं गच्छ' 'स्वाध्यायः कर्तव्य' इति लिट्-लोट्कृत्य- प्रयोगेषु कस्यार्थस्य प्रतीति:? अत्रापि कर्मणि नियुक्तः क्रियाविशिष्टोऽध्येषणादिविशिष्टश्च देवदत्त एव प्रतीयते केवलं वर्तमानादिकालो न विशेषणत्वेनाऽत्रावतिष्ठते। अथ यदि नात्रार्थातिरेकावगतिर्भावसंपादने कथं पुरुष: प्रवर्तते ? यथा हि देवदत्त: पचति इत्यादिवाक्यान्न प्रवर्तते तथा 'जुहुयाद्' इत्यस्मादपि नैद प्रवर्तेत प्रवृत्ति निमित्तस्यानवबोधात्, असदेतत् 'जुहुयाद्' इत्यादिवाक्यजनितविज्ञानस्यैव प्रवर्तक- त्वात् प्रवृत्तस्तद्भावभावित्वेनोपलम्भाद् एतद्वाक्यसमुत्थं ज्ञानं पुरुष स्वर्गादिसाधने नियोजयदुपलभ्यते न पचति' आदि-वाक्यसमुत्थम्। तथाहि-विध्यादिवाक्यजनितज्ञानान्तरमिच्छा तदनन्तरं प्रयत्न: तदनन्तरं च पुरुषस्य स्वर्गादिफलार्थ: परि-स्पन्दस्ततोऽपिफलपर्यन्ता स्वर्गफलावाप्ति: इत्यभिधानात् / तेऽपि अयुक्तिकारिण: एकान्तपक्षे विशेषण विशेष्ययोरत्यन्तभेदे अभेदे या विशेषणानुरागस्यपद-पदार्थेषु असंभवाद्वाक्यार्थ-कल्पनादेरनुपपत्ते: अतएव 'अपाक्षीदेवदत्तः' इत्यादी न काल-क्रियाविशिष्टपुरुषप्रतिपत्तिः क्रियादेः पुरुषाद्भेदे संबन्धाऽसिद्धितो व्यवच्छेदकत्वानुपपत्तेः अभेदेऽप्ये कस्य तात्विकविशेषणविशेष्यरूपतासंगतेः। अन्यथाऽतिप्रसङ्गात्। कल्पनार- चितस्य तद्रूपत्वस्य सर्वत्राविशेषात् विशिष्टप्रत्ययोत्पत्तेश्च अन्य- निमित्तत्वात् विरोधादिदोषस्य च तत्र प्रागेव प्रतिविहितत्वादेतेन लिड्दियुक्तवाक्यजनितविज्ञानस्य प्रवर्तकत्वमेकान्तवादिप्र- कल्पितं प्रतिक्षिप्त तद्भावभावित्वस्य अन्यथासिद्धत्वप्रति-पादनात्। सम्म०३ काण्ड६३ गाथाटी। (10) (शब्दस्य बाह्यार्थे प्रामाण्यं शास्त्रप्रयोजनम-धिकृत्योक्तम्)यदि प्रेक्षावतां प्रवृत्त्यर्थ प्रयोजनप्रतिपादनायादिवाक्यमु- पादीयते तदा ते प्रेक्षापूर्वकारित्वादेवाप्रमाणके नैव प्रवृत्तिं विदधति। नच प्रयोजनप्रतिपादकमादिवाक्यं तत्प्रभवं वा ज्ञानं प्रमाणम् अनक्षजत्वेनाध्यक्षत्वायोगात्। नाऽप्यनुमानं स्वभावकार्यलिङ्गसमुत्थं तद्भावत्वेन तत्का- रणत्त्वेन वा तत्प्रत्याय्य प्रयोजनस्य प्रमाणतोऽप्रतिपत्ते: तदुत्था- पकस्य लिङ्गस्य तत्कार्यत्वानवगमाद, अन्यस्य चस्वसाध्या-प्रतिबन्धाद् अप्रतिबद्धस्य च स्वसाध्यव्यभिचारेणागमक त्वात्, तत्त्वे वाऽतिप्रसङ्गात्; तत्प्रतिबद्धत्वेऽप्यनिश्चितप्रतिबन्धस्याति- प्रसङ्गत एव अगमकत्त्वात्। न च वाक्यमिदं प्रवर्त्तमानं स्वमहिमेव स्वार्थ प्रत्यायतीति शब्दप्रमाणरूपत्त्वात्स्वाभिधेयप्रयोजनप्रतिपादने प्रमाणम्, शब्दस्य बाह्यऽर्थे प्रतिबन्धासंभवेनाप्रामाण्यात्; विवक्षायां प्रामाण्येऽपि तस्या | बाह्याविनामावित्वायोयात्। नाऽपि ये यमर्थ विवक्षन्ति ते तथैवं तं प्रतिपादयन्ति, अन्यविवक्षायामप्यन्य- शब्दोचारणदर्शनाद्विवक्षायाश्च बाह्यार्थप्रतिबद्धत्वानुपपत्तेरे- कान्ततः / तन्न शब्दादपि प्रमाणादादिवाक्यरूपात् प्रयोजन विशेषोपायप्रतिपत्ति: तदप्रतिपत्तौ च तेषां ततः प्रवत्तौ प्रेक्षा-पूर्वकारिताव्यावृत्तिप्रसङ्गात्। प्रयोजनविशेषोपायसंशयोत्पादकत्वेन प्रवृत्त्यङ्गत्वादादिवाक्यस्य सार्थकतत्त्वम् / तथाहिअर्थसंशयादि प्रवृत्तिरूपलभ्यते, यथा कृषीबलादीनां कृष्यादावनवगतशस्यावाप्तिफलानाम् / अथ अबीजादिविवे के नावधृतबीजादिभावतया निश्चितोपाया:। तदुपेयशस्यावाप्त्य-निश्चयेऽपितत्र तेषां प्रवृत्तिर्युक्ता न पुन: शास्त्रश्रवणा-दावुपेयप्रयोजनविशेषानिश्चयवत्तदुपायाभिमतादिवाक्य-प्रत्याय्योपायनिश्चयस्याप्यसंभवाद्, अयुक्तमेतत्; यतो यथा शस्यसंपत्त्यादौ फले कृषी बलादे: संदेह: तथा तदुपाया-भिमतबीजादावपि, अनिवर्तितकार्यस्य कारणस्य तथाभावनिश्चयायोगात्। तत्र यथाकृष्यादिकं संशय्यमानोपायर्भावं प्रवृत्तिकारणं तथा शास्त्रमप्यादिवाक्यादनिश्चितोपायभावं किं न प्रवृत्तिकारणमभ्युपगम्येत इति चेद्, असदेतत् आदि-वाक्योपन्यासः शास्त्रप्रयोजनविषयसंशयोत्पादनार्थ संशयोऽपि च निश्चयविरुद्धःअनुत्पन्ने च निश्चये तत्राप्रतिबद्धप्रवृत्तिहेतुतया प्रादुर्भवन् केन वार्यते आदिवाक्योपन्यासमन्तरेणापि ? अथाश्रुतप्रयोजनवाक्यानां प्रयोजनसामान्ये तत्सत्त्वेतराभ्यां संशयो जायते-'किमिदं चिकित्साशास्त्रवत्सप्रयोजनम् उत काकदन्तपरीक्षावनिष्प्रयोजनम् ततश्च संशयादनुपन्यरते प्रयोजनवाक्ये प्रयोजनसामान्यार्थिनः प्रवर्त्तन्तां प्रयोजनविशेषे तु कथमश्रुतप्रयोजनवाक्यानां संशयोत्पत्ति:? प्रायेण च प्रयोजनविशेषविषयस्येव संशयस्य प्रवृत्तिकारणत्वात् तदुत्पादनयादिवाक्यमुपादेयम् अतश्च प्रयोजनसामान्यविशेषेषुसंशयानाः 'किमिदं सप्रयोजन उत निष्प्रयोजन सप्रयोजनत्वेऽपि किमभिलषितेनैव प्रयोजनेन तद्वद् इति पक्षपरामर्श कुर्वाणा: प्रवर्त्तन्ते असदेतत् : कुत्रचिच्छास्त्रादनुभूतप्रयोजनविशेषं श्रोतारं प्रति प्रयोजनवाक्यस्यानुपयोगात्- स हि किंचिच्छास्त्रमुपलभ्य प्रागनुभूतप्रयोजनविशेषेण शास्त्रेणास्य वाक्यात्मकत्वेन साधर्म्यमवधार्येदमपि निष्प्रयोजनम् उत-अनभिमतप्रयोजनवद्उताऽभीष्टप्रयोजनवद्वा इत्याशङ्कमानः प्रयोजनवाक्यमन्तरेणापि प्रवर्त्तत एव अननुभूतप्रयोजनविशेषस्तु प्रयोजनवाक्यादपि नैव प्रवर्त्तते, तं प्रति तस्यापि तदुत्पादकत्वायोगात्-न हि प्रागननु-भूतशास्त्रप्रयोजनविशेष: 'प्रयोजनप्रतिपादकं वाक्यमेतदर्थमि' त्यपि प्रतिपत्तुं समर्थोऽपरयत्नमन्तरेणा नाप्यनुभूतविस्मृत- प्रयोजनविशेष: प्रयोजनवाक्यासंस्मृत्य तद्विशेष संशयानः प्रवर्तते, तद्रहितशास्त्रादपि तद्विशेषे स्मृतिसंभवात् नियमेन तु नोभाभ्यामपि तदनुस्मरणं भवति, तथाऽपि प्रयोजनवाक्यस्य तत: स्मृतिहेतुत्वत उपन्यासे अन्यस्यापि तद्धेतो: किं नोप-न्यास:? सामान्यविशेषयोश्च दर्शनाऽदर्शनाभ्यां विशेषस्मरणसहकारिभ्यां संशयाः, न च प्रयोजनवाक्यं प्रयोजनविशेषस्य भावाऽभावयो: सामान्यम्। अथ विवक्षापरतन्त्रत्वात् स्वार्थतथाभावाऽतथाभावयोरपि प्रयोगसंभवात्सामन्यमेव वाक्यं,