________________ आगम 74 अभिधानराजेन्द्रः भाग 2 आगम पक्षधर्मत्वाद्यसंभवादनुमानत्वाभावप्रतिपादनं युक्तमेवेति स्थितम्। यत्र तु वक्त्रभिप्रायसूचने प्रामाण्यमस्य तत्रानुमानलक्षणयुक्तस्यैव नान्यादृग्भूतस्येति न प्रमाणान्तरत्वम्। सम्म, काण्ड 1 गाथाटी।। (9) आगममधिकृत्योक्तम् - तस्य च जीवाऽजीवादिलक्षणं दृष्टविषये वस्तुतत्त्वे सर्वदा अविसंवादात् अदृष्टविषयेऽप्येकवाक्यतया प्रवर्तमानस्य च प्रामाण्यं प्रतिपत्तव्यम्। न च वक्त्रधीनत्वात् तस्य अप्रामाण्यं वक्त्रधीनत्यप्रमाणत्वयोविरोधाभावाद्वक्त्रधीनस्यापि प्रत्यक्षस्य प्रामाण्योपलब्धे: न चाक्षजत्त्वाद्वस्तुप्रतिबद्धत्वेन तत्र प्रामाण्यं न शाब्दस्य विपर्ययादिति वक्तव्यं शाब्दस्य अत एव प्रमाणान्तरत्वोपपत्ते: अन्यथा अनुमानादविशेषप्रसङ्गात्। तथाहि-गुणवद्वक्तृप्रत्युक्तशब्दप्रभवत्वादेव शाब्दम् अनुमान- ज्ञानाद्विशिष्यते अन्यथा बाह्यार्थप्रतिबन्धस्यात्रापि सद्भावात् नानुमानादस्य विशेष: स्यात्। यदा च परोक्षेऽपि विषयेऽस्य प्रामाण्यमुक्तन्यायात् तदा गुणवद्वक्तृप्रयुक्तत्त्वेनास्य प्रामाण्यम् अतश्च गुणवद्वक्तृप्रयुक्तत्वमितीतरेतराश्रयदोषोऽपि नाऽत्राऽवकाशं लभते यथोक्तसंवादादस्य प्रामाण्यनिश्चये / कुतोऽयमस्यात्र संवाद: इत्यपेक्षायाम् आप्तप्रणीतत्वादित्यवगमो न पुनः प्रथममेव तत्प्रणीतत्वनिश्चयादस्यार्थप्रतिपादकत्वं प्रतिबन्धनिश्चयादनु- मानस्येव नापि दृष्टविषयाविसंवादिवाक्यैकवाक्यतां विरहय्य अदृष्टार्थवाक्यैकदेशस्यान्यतः कुतश्चित्प्राक् संवादित्वनिबन्धनस्य प्रामाण्यस्य निश्चयोऽभ्यासावस्थायां तु आप्तप्रणीतत्वनिश्चयात् प्रवृत्तिरदृष्टार्थवाक्यान्न वार्यत इति कुत इतरेतराऽऽश्रया- ऽवकाश.? (ऐकान्तिकं वाच्यस्वरूपं निरसितुंलडादेरर्थविचारपक्षा:)एकान्तवादिवाक्यात्तु दृष्टार्थेऽपि विसंवादिन: सर्वथा अप्रवृत्तिरेव निश्चितविसंवादाङ्गुल्यग्रहस्तियथशतप्रतिपादक वाक्यादिवत् नोकान्तवादिवचनानां वाच्यं संभात्युक्तम् / यत: सामान्य वा तद्वाच्यं भवेत् , विशेषो वा, उभयम् , अनुभयं वेति विकल्पा:। न तावत्सामान्य तस्येतरच्यावृत्तप्रतिनियतैकवस्तुरूपत्वायोगात् / शब्दवाच्यत्वे घटाद्यानयनाय प्रेरित: सर्वत्र प्रवर्तेत न वा क्वचिद् भेदनिबन्धनत्वात् प्रवृत्ते: सामान्यस्य अनर्थक्रिया-कारितया च प्रवृत्तिनिबन्धनत्वायोगात्। अथापि स्याद्यदाऽयं प्रतिपत्ता वाक्यमश्रुतपूर्वं शृणोति तदा पदानां संकेतकालानुभूतानामर्थं सामान्यलक्षणमेव प्रतिपद्यते या तु वाक्यार्थप्रतिपत्ति: सा अपेक्षासन्निधानाभ्यां विशेषणविशेष्यभावात्पदार्थप्रतिपत्ति- निबन्धना न पुनस्ततो वाक्यात् तथाविधस्य तस्य स्वार्थेन सह संबन्धाप्रतिपत्ते: वाक्यमेव च प्रवृत्तिनिवृत्तिव्यवहारक्षमं न पदं तस्यानर्थक्रियाकारिसामान्यप्रतिपादकत्वेनाऽप्रवृत्त्यगत्वाद् / अत एव न विवक्षाप्रतिभासनमप्यर्थं प्रतिपादयन्तः शब्दा अनुमानतामासादयन्ति अगृहीतप्रतिबन्धादपि वाक्यविशेषात् यथोक्तन्यायतो वाक्यार्थप्रतिपत्तेः। अनेनैवाभिप्रायेण सौगता वाक्यगतां चिन्तामनादृत्य पदमेवानुमाने अन्तर्भावितवन्तः। उक्तंचमीमांसकै"वाक्यार्थे तु पदार्थेभ्यः, संबन्धानुगमादृते। बुद्धिरुत्पद्यते तस्मा-दिन्ना साऽप्यक्षबुद्धिवत्॥" (श्लो. वा० शब्द प. श्लो. 109) तथा"वाक्येष्वदृष्टेष्वपि सार्थकेषु, पदार्थचिन्मात्रतया प्रतीतिम्। दृष्ट्वानुमानव्यतिरेकभीताः। क्लिष्टा: पदाभेदविचारणायाम् // " (श्लो. वा. शब्दप श्लो० 111) इति। असदेतत्; एवं कल्पनायां पदार्थानामपि वाक्यार्थप्रतिपत्तिहेतुत्वासंभवात् / तथा हि- 'घट: पटः कुम्भः' इत्यादिपदेभ्यो यथाऽन्योन्याननुषक्तस्वतन्त्र सामान्यात्मकार्थप्रतिपत्तिस्तथासंबद्धपदसमूहश्रवणादपि किं न तथाभूतसामान्यप्रतिपत्तिर्भवेत् ? नहि तत: सामान्यमात्राऽधिगमे तत्परित्यागतो विशिष्टार्थप्रतिपत्तीनिमित्तमस्तिन वापेक्षा-सन्निधानादिकं पदार्थानांतत्प्रतिपत्तौनिमित्तं पदार्थस्य पदार्थान्तरं प्रत्युत्पत्तौ प्रतिपत्तौ वाऽपेक्षादेरयोगात् तस्य सामान्यात्मकत्वेनोत्पत्तेरसंभवात् स्वपदेभ्य एव प्रतिपत्तेस्तत्रापि पदार्थान्तरापेक्षाद्यनुपपत्तेः। अर्थशक्तित एव ततो विशेषप्रतिपत्तिरितिचेत् तर्हि पदार्थानामेकार्थसंभवा प्रतिपत्तिर्यस्य तस्यापिततस्तत्प्रति-पत्तिर्भवेत्। न च सामान्यत्यागे किंचिन्निबन्धनं बाधकाभावात् सत्यर्थित्वे उभयप्रतिपत्ति-प्रवृत्ती स्याताम्। न च वाक्यार्थप्रत्यय एव बाधकस्तेन तस्य विरोधाभावात् सामान्यविशेषयो: साहचर्यात् सामान्यप्रत्ययस्य च विशेषप्रतिपत्तिं प्रति निमित्तत्वाभ्युपगमात् निमित्तस्य च निमित्तिना अबाध्यत्वाद् अन्यथा तस्य तन्निमित्तत्वायोगाद्। अथ प्रागप्येवमयं व्युत्पादित: यत्र पदार्थानामेकद्रव्यसंभवस्तत्र पदार्थसामान्यत्यागाद्विशेष: प्रतिपत्तव्यो यथा नीलोत्पलादौ, नन्वेवं सर्ववाक्यान्यस्यव्युत्पादितान्येव भवन्ति। तथाहि- य: कश्चित् संभवदेकद्रव्यार्थनिवेश: पदसमूह: संकेतसमयावगतसामान्या-त्मकावयवार्थपरित्यागतस्तेषामेव विशेषणविशेष्यभावेन विशिष्टाऽर्थगोचरः प्रतिपत्तव्यो, यथा 'नीलोत्पल पश्य' इत्यादिपदसंघात:, तथा चायमपूर्ववाक्यत्मक: पदसमुदाय इति संकेतमनुसृत्य यदा ततस्तथाभूतमर्थ प्रत्येति तदा कथं न विशिष्टार्थवाचकं वाक्यम्? अनेनैव च क्रमेण शब्दविदां समयव्यवहार उपलभ्यते। यथा- 'धात्वादि: क्रियादिवचनः, कादिवचनश्च लडादि:' इति समयपूर्वकं 'प्रकृतिप्रत्ययौ प्रत्ययार्थ सह बूत' इति घ्युत्पादितोऽनर्थक्रियाकारित्वेन सामान्यमात्रस्य विशेषनिरपेक्षस्य प्रतिपादयितुमनिष्टेः तत्परित्यागेन व्यवहारकाले विशेषमवगच्छति व्यवहारी। नच प्रकृतिप्रत्ययाविवात्र पदार्थ प्रतिपादयतो न पदमिति मन्तव्यम्। "अशाब्दे वाऽपि वाक्यार्थे, न पदार्थेष्वशाब्दता। वाक्यार्थस्येव नैलेषां, निमित्तान्तर संभवः।।" (श्लो. वा. वाक्याधि, श्लो. २३०)इत्यस्य विरोधप्रसक्तेः। न च वाक्यस्य वाक्यार्थ संकेतकरणेऽनुमानात् शाब्दस्याऽविशेषप्रतिपत्तिः, विशेषस्य प्राक् प्रतिपादितत्वात् / केवलस्य च पदस्य प्रयोगानर्हत्वाद्वाक्यस्य तु प्रयोगार्हस्य सामान्यानभिधायकत्वात्कथं सामान्य शब्दार्थ: स्यात् ? यस्तु पूर्वपदाऽनुरञ्जितं पदमेव वाक्यं पदार्थ एव पदार्था