SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम 73 अभिधानराजेन्द्रः भाग 2 आगम से तु को नाम नानुमानतां मन्यते, यथा कस्यचिद्वि- स्मृतसंकेतस्य कालान्तरे पनसशब्दश्रवणे, य: पनसशब्द: स आमूलफले ग्रहिविटपिविशेषवाचको, यथा यज्ञदत्तोक्तः प्राक्तनस्तथा चायमपि देवदत्तोक्त इति। एवं च पक्षैकदेशे सिध्यसाध्यता, शब्दोऽनुमानमित्यत्र सकलवाचकानां पक्षीकृता- नामेकदेशस्यानुमानरूपतया स्वीकृतत्वात्। यस्त्वागमरूपतया स्वीकृत: शब्दस्तत्राभ्यासदशापन्नत्वेन व्याप्तिग्रहणापेक्षैव नास्ति। अन्यथा कूटाऽकूटकार्षापणप्रत्यक्षेण व्यभिचारापत्तेः तथा च हेतोरसिद्धिः। एवं च (शब्दत्वस्य व्याप्तिग्रहणानपेक्षत्वे सिद्धे) विवादास्पदः शब्दो नानुमानं, तद्विभिन्नसामग्रीकत्वात्, कूटाsकूटकार्षापणविवेकप्रत्यक्षवदिति सिद्धम्।। किं च-वाचामनुमानमानतामातन्वानोऽसौ कथं पक्षधर्मतादिकमादर्शयते? चैत्र: ककुदादिमदर्थविवक्षावान् गोशब्दाच्चारण-कर्तृत्त्वात, अहमिव इतीत्थमिति चेत्, नन्वतो विवक्षामात्रस्यैव प्रतीति: स्यात, तथा च कथमर्थे प्रवृत्तिर्भवेत्? विवक्षातो- ऽर्थसिद्धिरिति चेत्। मैवम्। अस्या: तद्व्यभिचारात् नाप्तानाम- न्यथापि तदुपलब्धः। अथ यथाप्रोक्ताच्छब्दात्तथाप्तविवक्षातो- अक्षुण्णैवार्थसिद्धिर्भविष्यतीति चेत्, सत्यम्। किं प्रतीतिपरा- हृतैवेयं परम्परा, शब्दश्रुतौ सत्यां प्रतीत्यन्तराव्यवहितस्यैवार्थस्य संवेदनात्, यथा लोचनव्यापारे सति रूपस्या अपिच-अप्राती-तिकैतादृक्कल्पनामहापातकं क्रियतां नाम, यदि नान्या गति: स्यात् अस्ति चेयं शब्दस्य स्वाभाविकवाच्यवाचकभावसंबन्ध-द्वारेणार्थप्रत्यायकत्वोपपत्तेः। एतच्च"स्वाभाविकसामर्थ्यसमयाभ्यामि' त्यादिसूत्रे निर्णेष्यते। उदाहरन्तिसमस्त्यत्र प्रदेशे रत्नंनिधानं, सन्ति रत्नसानुप्रभृतय इति।।३।। वक्ष्यमाणलौकिकजनकादिलोकोत्तरतीर्थकराद्यपेक्षया क्रमेणोदाहरणोभयी। रत्ना०४ परि। अत्राह मीमांसक:- "शब्दज्ञानादसन्निकृष्टेर्थे बुद्धिः शाब्दम्''- (11-4/ शाबरभा.) इति वचनात् "शब्दादुदेति यद् ज्ञान- मप्रत्यक्षेऽपि वस्तुनि। शाब्दं तदिति मन्यन्ते, प्रमाणान्तर- वादिनः"||२|| इतिलक्षणलक्षितस्य प्रमाणान्तरस्य सद्भावात्, कथं द्वे एव प्रमाणे ? न चास्य प्रत्यक्षप्रमाणता सविकल्प- कत्वात्, नाप्यनुमानता त्रिरूपलिङ्गाप्रभवत्वात् अनुमानगोचरा- विषयत्वाच्च। तदुक्तम्"तस्मादननुमानत्वं, शाब्दं प्रत्यक्ष-वद्भवेत्। त्रैरूप्यरहितत्वेन, तादृगविषयवर्जनात्" (श्लो, वा, शब्दप, 98) / तथाहि-न शब्दस्य पक्षधर्मत्वं धर्मिणोऽयोगात्। नचार्थस्य धर्मित्वं तेन तस्य संबन्धासिद्धेः। नचाप्रतीतेऽर्थे तद्धर्मतया शब्दस्य प्रतीति: संभविनी प्रतीते चार्थे न तद्धर्मताप्रतिपत्ति: शब्दस्योपयोगिनी तामन्तरेणप्यर्थस्य प्रागेव प्रतीते: अन्यथा तस्य तद्धर्मतया प्रतीत्ययोगात्। भवतु वाऽर्थो धर्मी तथाऽपि किं तत्र साध्यमिति वक्तव्यं ? सामान्यमितिचेत्, न तस्य धर्मिपरिच्छेदकाल एव सिद्धत्वात्। तदपरिच्छेिदे धर्मिपरिच्छेदाऽयोगाद् "नाऽगृहीतविशेषणा विशेष्ये बुद्धिः" इति न्यायात्। न च सामान्यं धर्मि अर्थविशेषस्तत्र साध्यो धर्मः उक्तदोषानतिक्रमात् / विशेषस्य चानन्वयाद्। अथ-शब्दोधर्मी अर्थवानिति साध्यो धर्म: शब्द एव च हेतु:, न; प्रतिज्ञार्थ- कदेशत्वप्राप्तेः। अथ शब्दत्वं हेतुरितिन प्रतिज्ञार्थंकदेशत्वं दोषः, न; शब्दत्वस्यागमकत्वात् गोशब्दत्वस्य च निषेत्स्यमानत्वेनासिद्धत्वात्। अत एवानुमानतुल्यविषयताऽपि न शाब्दे संभवति। तदुक्तम्"सामान्यविषयत्वं हि, पदस्य स्थापयिष्यते। धर्मी धर्मविशिष्टश्च, लिङ्गीत्येतच साधितम् / / न तावदनुमानं हि, यावत्तद्विषयं न तत्। अथ शब्दोऽर्थवत्त्वेन, पक्ष: कस्मान्न कल्प्यते। प्रतिज्ञार्थंकदेशो हि हेतुस्तत्र प्रसज्यते। पक्षे धूमविशेषे हि, सामान्य हेतुरिष्यते। शब्दत्वं गमकं नात्र, गोशब्दत्वं निषेत्स्यते। व्यक्तिरेव विशेष्याऽतो, हे तोश्चैका प्रसज्यते" इति (श्लो. वा, शब्दप०५५-५६-,६२-६४) शब्दस्य चार्थेन संबन्धाभावतो यथा न पक्षधर्मत्वंतथाऽन्ययोऽपि प्रमेयेण व्यापाराभावतोऽसङ्गत एव तदुक्तम् - "अन्वयो न च शब्दस्य, प्रमेयेण निरूप्यते। व्यापारेण हि सर्वेषा-मन्वेतृत्वं प्रतीयते। यत्र धूमोऽस्ति तत्राग्ने-रस्तित्वेनान्वय: स्फुटः। नत्वेवं यत्र शब्दोऽस्ति, तत्राऽर्थोऽस्तीति निश्चयः / न तावत् यत्र देशेऽसौ, न तत्कालेऽवगम्यते! भवेन्नित्यविभुत्वाचेत् , सर्वार्थेष्वपि तत्समम् / तेन सर्वत्र दृष्टत्वाद्, व्यतिरेकस्य चागतेः / सर्वशब्दैरशेषार्थ -प्रतिपत्ति: प्रसज्यते'' (श्लो, वा० शब्दप० 85-88) अन्वयाभावेव्यतिरेकस्याप्यभावः, उक्तंच-"अन्वयेन विना तस्मा व्यातिरेकः कथं भवेत्-?" इति तदेव-मनुमानलक्षणाभावात् शाब्दं प्रमाणान्तरमेवा सम्म०२ काण्ड 1 गाथाटी। अत्र प्रतिविधीयते-यत्तावत् शाब्दस्य त्रैरूप्यरहितत्वेन तादृगविषयाभावाचानुमानान्तविप्रतिपादमभ्यधायि तद् युक्तमेव न ह्यप्रमाणस्यानुमानेऽन्तर्भावो युक्तः। कुत: पुन: शब्दोद्भवस्य ज्ञानस्याप्रामाण्यं ? शब्दस्यार्थप्रतिबन्धाभावात्। न हिशब्दोऽर्थस्य स्वभाव: अत्यन्तभेदात् नापि कार्य तेन विनाऽपि भावात्। न च तादात्म्यतदुत्पत्तिव्यतिरिक्तः संबन्धो गमकत्वनिबन्धनमस्ति। न च सङ्केतबलाद्वास्तवप्रतिपक्तिशक्तियुक्तानां प्रदीपानामिवार्थप्रकाशकत्वं संभवति। न च व्यवस्थितैवार्थप्रतिपादनयोग्यता संकेतेन शब्दस्याभिव्यज्यत इति वक्तव्यं पुरुषेच्छावशादन्यत्रार्थे शब्दस्य समयादप्रवृत्ति-प्रसक्तः। दृश्यते च पुरुषच्छावशादन्यत्रापि विषये शब्दानां प्रवृत्ति:। न च पुरुषेच्छावृत्ति: समयो वस्तुप्रतिवद्धः तदभावेऽपि तस्य प्रवृत्ते:। न च संकेतमरन्तरेण शब्दस्य वस्तुप्रत्यायकत्वं संकेताभावप्रसक्तः। आप्तप्रणीतशब्दानां पुनरर्थाव्य- भिचारेऽप्याप्तप्रणीतत्वानिश्चयादेवाप्रामाण्यं न पुनराप्तस्यैवासंभवात् / तद्संभवबाधकप्रमाणाभावात्। ततो बाह्ये विषये शब्दानां प्रतिबन्धाभावत: प्रमाण्यमेव न संभवति
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy