________________ आगम 72 अभिधानराजेन्द्रः भाग 2 आगम मुख्य बाधकोपपत्तेः / यत्र हि मुख्य बाधकं प्रमाणमस्ति तत्रोपचारकल्पना, तदभावे तु प्रामाण्यमेव / न चेश्वरसद्भावप्रतिपादनेषु किंचिदस्ति बाधकमिति स्वरूपे प्रामाण्यमभ्युन्तत्यम्। सम्म०१ काण्ड 1 गाथाटी। (मूलाऽऽगमैकदेशभूतस्य चाऽऽगमान्तरस्यापि प्रामाण्यम्)ऐदंपर्य शुध्यति, यत्रासावागम: सुपरिशुद्धः / तदभावे तद्देशः, कश्चित्स्यादन्यथा ग्रहणात्॥१शा एदंपर्य-तात्पर्य पूर्वोक्तं शुध्यति-स्फुटीभवति यत्राऽऽगमे असावागम: सुपरिशुद्ध:-प्रमाणभूतस्तदभावे-ऐदंपर्यशुध्यभावे तद्देश:- परिशुद्धाऽऽगमैकदेश: कश्चिद अन्य आगम: स्यानतु मूलागम एव अन्यथाग्रहणात् मूलाऽऽगमैकदेशस्य सतो विषयस्यान्यथा प्रतिपत्तेर्यत: समतामवलम्बमानास्तेऽपि तथेच्छन्ति। मूलाऽऽगमव्यतिरिक्ते तदेकदेशभूत आगमेऽन्यथा परिगृहीते द्वेषो / विधेयो न वेति, तदभावप्रतिपादनायाहतत्रापि च न द्वेषः, कार्यो विषयस्तु यत्नतो मृग्यः / तस्याऽपिन सद्वचनं, सर्वं यत्प्रवचनादन्यत्॥१३|| तत्रापि च तदेकदेशभूत आगमान्तरे न द्वेष: कार्यो न द्वेषो विधेयो विषयस्त्वभिधेयज्ञेयरूपो यत्नतो-यत्नेन मृग्य: अन्वेषणीयो यद्येवं सर्वमेव तद्वचनं किं न प्रमाणीक्रियत इत्याह तस्याप्यागमान्तरस्य न सत्-शोभनं वचनं सर्वम्-अखिलं यत्प्रवचनात्-मूलाऽऽगमादन्यत् यत्तु तदनुपाति तत्सदेवेति। कस्मात्पुनस्तत्राऽद्वेष क्रियत इत्याहअद्वेषो जिज्ञासा, शुश्रूषा श्रवणबोधमीमांसाः। परिशुद्धा प्रतिपत्तिः, प्रवृत्तिरष्टाङ्गिकी तत्त्वे ||14|| अद्वैष:-अप्रीतिपरिहारस्तत्त्वविषयस्तत्पूर्विका ज्ञातुमिच्छा- जिज्ञासा तत्त्वविषया ज्ञानेच्छा तत्त्वजिज्ञासा सा पूर्विका बोधाम्भः श्रोतस: शिराकल्पा श्रोतुमिच्छा शुश्रूषा तत्त्वविषयैवा तत्त्वशुश्रूषानिबन्धनं श्रयणम् -आकर्णनं तत्त्वविषयमेव बोधः - अवगमः परिच्छे दो विवक्षितार्थस्य श्रवणनिबन्धन-स्तत्त्वविषय एव मीमांसा सद्विचाररूपाबोधानन्तरभाविनी तत्त्वविषयैव। श्रवणं च बोधश्च मीमांसा च श्रवणबोधमीमांसाः। परिशुद्धा-सर्वतो भावविशुद्धा प्रतिपत्तिर्मीमांसोत्तरंकालभाविनी निश्चयाकारा परिच्छित्तिरिदमिदमेवेति तत्त्वविषयैव। प्रवर्त्तनं प्रवृत्तिरनुष्ठानरूपा परिशुद्धाप्रतिपत्त्यनन्तरभाविनी तत्त्वविषयैव, प्रवृत्तिशब्दो द्विरावर्त्यते तेनायमर्थो भवति। तत्त्वे प्रवृत्तिरष्ट - भिङ्गैर्निर्वृत्ताष्टाङ्गिकी एभिरद्वेषादिभिरष्टभिरङ्गैस्तत्त्वप्रवृत्ति: संपद्यते तेनाऽऽगमान्तरे मूलाऽऽगमैकदेशभूते न द्वेष: कार्य इति। षो०१६ विव०। (7) प्रमाणान्तराविषय एव पदार्थो नाऽऽगमेन बोध्यते किन्तु प्रमाणान्तरविषयोऽपि "न ह्यागमसिद्धा: पदार्था'' इति, प्रत्यक्षस्यापि प्रतिक्षेपो युक्तः। यदपि प्रत्यक्षानुमानाविषये चार्थे आगमप्रामाण्यवादिभिस्तस्य प्रामाण्यमभ्युपगम्यते तदुक्तम्-" आम्नायस्य क्रियार्थत्वादानर्थक्यमतद- | नाम्।" (जैमि०१-२-११) इति तद्प्युक्तम्, यतो यथाप्रत्यक्षप्रतीतेऽप्यर्थे विप्रतिपत्तिविषयेऽनुमानमपि प्रवृत्ति-मासादयतीति प्रतिपादितम्। तथा प्रत्यक्षानुमानप्रतिपन्ने- ऽप्यात्मलक्षणेऽर्थे तस्य वा प्रतिनियतकर्मफलसंबंधलक्षणे किमि-त्यागमस्य प्रवृत्ति भ्युपगमस्य विषय:? नचाऽऽगमस्य तत्राप्रामाण्यमिति वत्तुं युक्तं, सर्वज्ञप्रणीतत्वेन तत्प्रामाण्यस्य व्यवस्था पितत्वात्। सम्म०१ काण्ड 1 गाथाटी। आगमप्रमाणञ्च प्रमाणान्तरे नान्तर्भवति तथा चाऽत्र शङ्कितम्आगमोऽपि नाऽनुमानाद् भिद्यते, परमार्थतस्तस्याप्यनुमानत्वात्तथाहि- 'शाब्दं प्रमाणमागमः' उच्यते शब्दश्च द्विविधो- दृष्टार्थाविषयः, अदृष्टार्थविषयश्च। तत्र दृष्टार्थविषया शब्दाद् या प्रतीतिः, सा वस्तुतोऽनुमानसमुत्थैव यत: क्वचित्प्रथमं पृथुबुध्नोदरो_कुण्डलोष्ठायतवृत्तग्रीवादिमति घटपदार्थे घटशब्दं प्रयुज्यमानं दृष्ट्वा तदुत्तरकालं क्वापि घटमानयेत्यादिशब्दं श्रुत्त्वा पृथुबुध्नोदरादिमदर्थ एव घट उच्यते, तथाभूतपदार्थे एव घटशब्दप्रयोगप्रवृत्तेः, यथा पूर्वं कुम्भकारापणादौ घटशब्दश्चाय-मिदानीमपि श्रूयतेतस्मात्तथाभूतस्यैवपृथुबुध्नोदरादिमत: पदार्थस्य मया आनयनादिक्रिया कर्त्तव्या इत्यनुमानं विधाय प्रमाता घटानयनादिक्रियं करोति, इत्येवं दृष्टार्थविषयं शाब्दं प्रमाणं वस्तुतो नानुमानाद्भिद्यते। विशे० 1552 गाथाटी। (8) आगमप्रमाणस्यानुमानप्रमाणेऽन्तर्भाव:काणादा:- शब्दोऽनुमान व्याप्तिग्रहणबलेनार्थप्रतिपादकत्त्वाडूमवदिति। तत्र हेतोरामुखे कूटाऽकूटकार्षापणनिरूपण- प्रवणयप्रत्यक्षेण व्यभिचारस्तथाभूतस्यापि तत्प्रत्ययक्षस्यानु मानरूपताऽपायात्। आ: कथं प्रत्यक्षं नाम भूत्वा व्याप्ति-ग्रहणपुरस्सरं पदार्थ परिछिन्द्यात् ? उन्मीलितं हि चेल्लोचनं जातमेव परीक्षणकाणां कूटाकूट विवेकेन प्रत्यक्षमिति क्व व्याप्तिग्रहणावसर इति चेत्, तदेवान्यत्रापि प्रतीहि। तथाहि-समुच्चारितश्चेद्ध्वनि:, जातमेव जनस्य शब्दार्थसंवेदनमिति क्व व्याप्तिग्रहणावकाश इति। एवं तर्हि नालिकेरद्वीपवानोऽपिपनसशब्दात्तदर्थसंवित्तिः स्यादिति चेत् , किं ना परीक्षकस्यापि कार्षापणे कूटाकूटविवेक्न प्रत्यक्षोत्पत्ति:? अथ यावानेता-दृशविशेषसमाकलितकलेवर: कार्षापण: तावानशेष: कूटोऽकूटो वा निष्टङ्कनीयस्त्वया; इत्युपदेशसाहायकापेक्षं चक्षुरादि तद्विविके कौशलं कलयति; नचापरीक्षकस्यायं प्राक्प्रावर्तिष्टति चेत् तर्हि शब्दोऽपि यावान् पनसशब्दस्तावान् पनसार्थवाचक इति संवित्तिसहायस्तत्प्रतिपादने पटीयान् न च नालिकेरद्वीपवासिन: प्रागियं प्रादुरासीदिति कथं तस्य तत्प्रतीति: स्यात् ? / अथैतादृशसंवेदनं व्याप्तिसंवेदनरूपमेव, तदपेक्षायां च शब्दार्थज्ञानमनुमानमेव भवेदिति चेत्, कूटाकूटकार्षापणविवेकप्रत्यक्षमपि किंन तथा तत्रापि तथाविधोपदेशस्य व्याप्त्युल्लेखस्वरूपत्वात्। अथव्याप्ते: प्राक् प्रवृत्तावपि तदानीमभ्यासदशापन्नत्त्वेनानपेक्षणात्प्रत्यक्षमे वैतत्तदपेक्षायां तु भवत्येवैतदनुमानं, कूटोऽयं कार्षापण:, तथाविधविशेष- समन्वितत्वात्प्राक्प्रेक्षितर्काषापणवत्, इति चेत्, एतदेवसमस्तमन्यत्रापितुल्यं विदांकरोतुभवान्। नखल्वभ्यासदशायां कोऽपि व्याप्तिं शब्देऽप्यपेक्षते, सहसैव तज्ज्ञानोत्पत्तेः। अनभ्या