________________ आगम 76 अभिधानराजेन्द्रः भाग 2 आगम शास्त्रमपि तर्हि शास्त्रान्तरसादृश्यात्प्रयोजननिर्वृत्त्युपायत्वाऽनु- | पायत्वयो: सामान्यम्- अन्यतरनिश्चयनिमित्ता-भावात्तत: संशयान: प्रवर्त्ततां किमकिंचित्करप्रयोजनवाक्येन ? न च सामान्यस्य विशेषस्य | च दर्शनाऽदर्शनाभ्यामेव यथोक्ताभ्यां संशयः, किं तु-साधकबाधकप्रमाणावृत्तावपि; सा च प्रयोज-नवाक्योपन्यासाऽनुपन्यासयोरपि संभवत्येव। मा भूत्संशयोत्पादनेन वाक्यस्स शास्त्रश्रवणादिप्रवृत्तौ सामर्थ्य, किं तु-प्रकरणारम्भप्रतिषेधाय 'नारब्धव्यमिदं प्रकरणम्, अप्रयोजनत्वात्, काकदन्तपरीक्षावद्' इति व्यापकानुपलब्धेर- सिद्धतोद्भावनाय तदुपन्यास इति चेत्, एतदप्यसत्; यत: शास्त्रप्रयोजनं, वाक्येनाप्रदर्शयता तदसिद्धिरुद्भावयितुम- शक्या, वाक्यस्याऽऽप्रमाणतया प्रयोजनविशेषसद्भावप्रकाशन- सामर्थ्याभावात्। न च सप्रयोजनत्वेतरयो: परस्परपरिहार- स्थितयो: कूतश्चित्प्रमाणादेक भावाप्रतिपत्तावितराभावप्रति-पत्तिः - अतिप्रसङ्गात्-येन वाक्यमात्रस्योपक्षेपेण हेतोरसिद्धिः स्यात् / नाऽपि कुतश्चित्प्रयोजनविशेषमुपलभ्यमानेन स्वयमुपलब्ध प्रयोजविशेषोपलम्भोपायमप्रदर्शयता कर्तुमशक्या असिद्धतोद्भावना वाक्यस्याप्रमाणस्य हेतुप्रतिपक्षभू- तार्थोपस्थापना अशक्तस्योपन्यासमात्रेणासिद्धेरयोगात् / नाऽप्यनिबन्धना प्रतिपत्तिः, अतिप्रसङ्गात्। अथ यद्यप्यप्रमाणत्वाद्विपरीतार्थोपस्थापनमुखेनासिद्धतामिदं नोद्भावयति। तथापि शास्त्रस्य निष्प्रयोजनता संदिग्धा अत:, संदिग्धनिष्प्रयोजनत्वम्य शास्त्रस्य प्रयोजनाभाव निश्चित प्रेक्षावदारम्भप्रतिषेधहेतुं प्रयुञ्जानोऽनेन वाक्येन प्रतिक्षेतुमिष्टः न पुन: प्रयोजनविषयनिश्चय एवोत्पादयितुमिष्टः, नहि प्रतिपक्षोपक्षेपेणेव साधनधर्माणामसिद्धिः अपि तु स्वग्राहिज्ञानविकलतायसंदिग्धधर्मिसंबन्धित्वमप्यसिद्धत्वमेव, तस्मात्संदिग्धसिद्धतोद्भावनाय वाक्यप्रयोग इति, तदप्यनुपपन्नम्; यथाहिसप्रयोजनत्वे संदेहोत्पादने वाक्य-स्यानुपयोगित्वं- शास्त्रमात्रादपि भावात्- तथा निष्प्रयोजन-त्वेऽपि; एवं ह्यनेन वाक्येन हेतोरसिद्धतोद्भाविता भवति यति तत्सत्तासंदेहनिबन्धनानि कारणान्यपि तदैव प्रकाशितानि भवन्ति। न च विपर्यस्तपुरुषसंदेहोत्पादने तद्वाक्यं प्रभवति, अदर्शनात्। नच प्रस्तुतशास्त्रस्य प्रयोजनवत् शास्त्रान्तरेण कथंचित्साम्यात्साधक-बाधकप्रमाणाप्रवृत्तितश्चान्यानि संदेहकारणानि संभवन्ति, वाक्यमप्येतावन्मात्रप्रकाशनपर हेतो: संदिग्धासिद्धतामुदावयेत्, तच्च तथाप्रकाश-नमनुपन्यस्तेऽपिवाक्ये शास्त्रमात्रादपि दर्शनात् प्रमाणद्वयावृत्तेश्च भवतीति कस्तस्योपयोग:? अनुपन्यस्ते कथं तदिति चेत्, उपन्यस्तेऽपि कथं नहि तदुप- न्यासाऽनुपन्यासाऽवस्थयो: संदिग्धत्त्वाप्रस्तुतात्कथंचन विशेषं पश्याम:? असिद्धतोद्भावनमनेन न्यायेन सर्वमेवासङ्गतमिति चेत्, नैतत्; नह्यनन प्रकारेणासिद्धतोद्धावनमेव प्रतिक्षिप्यते, किंतु प्रमाण-रहिताद्वायात्रादसिद्धता नोद्भावयितुं शक्येति प्रदर्श्यते। तन्न प्रयोजनवाक्यं हेत्वसिद्धतोद्भावनार्थमपि युक्तम् / नच परोपन्यस्ते साधने प्रयोजनवाक्येपासिद्धतामुद्भाव्य कथमसिद्धिः साधनस्येति प्रत्यवस्थानवन्तं शास्त्रपरिसमाप्तेः प्रयोजनमवगमयन् | शास्त्रं श्रावयति। ततः समधिगते प्रयोजने तदुपन्यस्तस्य साधनस्याऽसिद्धिरिति बक्तुं शक्यं, शास्त्र- श्रवणत: प्रयोजनायवगमे शास्त्रस्यादौ तद्वाक्योपन्यासस्य वै- यर्थ्यप्रसक्ते: / अत एव "शास्त्रार्थप्रतिज्ञाप्रतिपादनपर: आदि-वाक्योपन्यास:"() इत्याद्यपि प्रतिक्षिप्तम्, अप्रमाणादादि- वाक्यात्तदसिद्धेः। तथा-संबन्धाभिधेयप्रत्यायनपराण्यपि वाक्यानिशास्त्रादौ वामात्रेण निश्चयायोगान्निष्प्रयोजनानि प्रतिक्षिप्तान्येव, उक्तन्यायस्य समानत्वात्। तदयुक्तम् 'समय' इत्याद्यभिधेय- प्रयोजनप्रतिपादकं- (अस्य काण्डस्य द्वितीयं) गाथासूत्रम्। (उत्तरपक्ष:- आदिवाक्योपन्यासस्य सार्थकत्वसमर्थनम्) अत्र- प्रतिविधीयते- यदुक्तं न प्रत्यक्षमनुमानं वा शब्दः तत्र सिद्धसाध्यता, प्रत्यक्षानुमानलक्षणयोगात्तत्रा यच्च'नापि' शब्द: प्रमाणं बंहिरर्थे तस्य प्रतिबन्धवैकल्येन, विवक्षायां तु प्रति-बन्धेऽपि यथाविवक्षमथर्शसंभवात्, तदप्यसारम्, बाह्यार्थेन शब्दप्रतिबन्धस्य प्रसाधयिष्यमाणत्वात् तत्रैव च प्रतिपत्तिप्रवृत्त्यादिव्यवहारस्योपलभ्यमानत्वाबाह्यार्थे एव शब्दस्य प्रामाण्यमभ्युपगन्तव्यम् प्रत्यक्षवत्। न चार्थाऽव्यभिचारित्व- प्रामाण्यनिश्चयवतां ततः प्रवर्त्तमानानां प्रेक्षापूर्वकारिताक्षतिः। न चाऽनाप्तप्रणीत 'सरित्तटपर्ययस्तगुडशकटं' पटुवाक्यविशिष्ट- तानवगमान्नात: प्रवृत्ति: प्रत्यक्षामासात्प्रत्यक्षस्येवानाप्तप्रणीत-वाक्यादस्य विशिष्टतावसायात्; यस्य तुन तद्विशिष्टावसायो नासावत: प्रवर्त्तते अनवधृतहेत्वाभासाविवेकाद्धेतोरिवानुमेयार्थक्रियार्थी। न चाप्तानां परहितप्रतिबद्धप्रयासानां प्रमाणभूतत्वात्स्ववाङ्गात्रेण प्रवर्त्तयितुं प्रभवतां प्रयोजनवाक्योपन्यासवैयर्थ्य सुनिश्चिताप्तप्रणीतवाक्यादपि प्रतिनियतप्रयोजनार्थिनां तदुपायानिश्चये तत्र प्रवृत्त्योगात्नच प्रयोजनविशेषप्रतिपादक वाक्यमन्तरेणाऽऽसप्रणीतशास्त्रस्यापितद्विशेषप्रतिपादकत्व- निश्चय: येन तत, एव तदर्थिनां तत्र प्रवृत्ति: स्यात् तदन-भिमतप्रयोजनप्रतिपादकानामपि तेषां संभवाद्। अत:-"यत्र खल्वाप्तै: 'इदं कर्त्तव्यम्' इति पुरुषा: प्रतीत-तदाप्तभावा नियुज्यन्ते तत्रावधीरिततत्प्रेरणाऽतथाभाव-विषयविचारास्तदभिहितं वाक्यमेव बहु मन्यमाना अनादृत- प्रयोजनपरिप्रश्ना: एव प्रवर्तन्ते विनिश्चिततदाप्तभावानां प्रत्यवस्थानासंभवात्" () इति निरस्तम्, आप्तप्रवर्तित- प्रतिनियतप्रयोजनार्थिजनप्रेरणावाक्यस्यैव प्रयोजनवाक्यत्व- निश्चयाद् अन्यथाऽभिमतफलार्थिजनप्रेरकवाक्यस्याप्तप्रयुक्त- त्वमेवानिश्चितं स्याद् अनभिमतार्थप्रेरकस्यावगताप्तवाक्यत्वे चातिप्रसङ्गः, न चाप्तवाक्यादपि प्रतिनियतप्रयोजनार्थिनस्तद- वगमे तत्र प्रवर्तितुमुत्सहन्ते, अतिप्रसङ्गादेवेति सुप्रसिद्धम्। अर्थसंशयोत्पादकत्वेन चादिवाक्यस्य प्रवर्तकत्वप्रतिक्षेपे सिद्धतासाधनम्, व्यापकानुपलब्धेस्त्वसिद्धतोद्भावनमादिवाक्यानिश्चितबाह्यार्थप्रामाण्यात्युक्तमेव, यथा च तत्र तस्या (तस्य) प्रामाण्यं तथा प्रतिपादयिष्यामः। अत एव- "आप्ताभिहितत्वासिद्धरविसंवाद कत्वायोगादप्रमाणत्वाभाव-निश्चयनिमित्ताभावदप्रवर्तकत्वं प्रयोजनवाक्यस्य प्रेक्षापूर्वकारिणः प्रति" ( ) इति। यदुच्यते तदपि प्रतिव्यूढं दृष्टव्यम्। सम्म०१ काण्ड 2 गाथाटी०।