________________ आगम 77 अभिधानराजेन्द्रः भाग 2 आगम (11) अपाह: शब्दार्थ इति बौद्धा:ननु च - 'समयपरमार्थविस्तर' - इत्यनेनाऽऽगमस्याकल्पितो बाह्योऽर्थः प्रतिपाद्यत्वेन शब्दार्थयोश्च वास्तव: संबन्धो निर्दिष्टः, द्वितयमप्येतदयुक्तं; प्रमाणबाधितत्वाद् इतिबौद्धाः। तथाहि- शब्दानां न परमार्थत: किंचिद्वाच्यं बस्तुस्वरूपमस्ति: सर्व एवं हि शाब्दप्रत्ययों भ्रान्त:, भिन्नेष्वर्थेष्वभेदाकाराध्यवसायेन प्रवृत्तेः। यत्र तु पारंपर्येण वस्तुप्रतिबंधस्तत्रार्थसंवादो भ्रान्तत्वेऽपि, तत्र यत्तदारोषितं विकल्पबुद्ध्याऽर्थेष्वभिन्नं रूपं तदन्यव्या वृत्तपदार्थानुभवबलायातत्वात्स्वयं चान्यव्यावृत्ततया प्रतिभास-नाभ्रान्तैश्वाऽऽन्यव्यावृत्तार्थेन सहैक्येनाध्यवसितत्वात् अन्यापोढपदार्थाधिगतिफलत्वाच अन्याऽपोह इत्युच्यते। अत: अपोहः शब्दार्थ इति प्रसिद्धम्। ('विधिरेव शब्दस्यार्थः' इति विधिवादिमतस्य संक्षिप्य प्रतिस्थापनम्) अत्र विधिवादिनः प्रेरयन्ति- यदि भवतां द्रव्य-गुणकर्मसामान्यादिलक्षणानि विशेणानि शब्दप्रवृत्तिनिमित्तानि परमार्थतां न सन्ति कथं लोके 'दण्डी' इत्याद्यभिधानप्रत्ययाः प्रवर्तन्ते द्रव्याधुपाधिनिमित्ताः, तथा हि- 'दण्डी' 'विषाणी' इत्यादिधीध्वनी लोके द्रव्योपाधिको प्रसिद्धौ, 'शुक्ल: 'कृष्णः' इति गुणौपाधिको, 'चलति' 'भ्रमति' इति कर्मनिमित्तौ, 'अस्ति' 'विद्यते' इति सत्तानिमित्तकौ, 'गौः' 'अश्वः' इति सामान्यविशेषोपाधी, 'इह तन्तुषु पटः' इति समवायनिमित्तः। (तौ)। तत्रैषां द्रव्यादीनामभावे 'दण्डी' इत्यादिप्रत्यय-शब्दौ निर्विषयौ स्याताम्। न चानिमित्तावतौ युक्तौ, सर्वदा तयोर- विशेषेण प्रवृत्तिप्रसङ्गात्। नचाविभागेन तयोः प्रवृत्तिरस्ति, तस्मात्सन्ति द्रव्यादय: पारमार्थिकाः प्रस्तुतप्रत्ययशब्दविषया:। प्रमाणयन्ति चात्र-ये परस्परासंकीर्णप्रवृत्तयस्ते सनिमित्ताः, यथा श्रोत्रादिप्रत्यया:, असंकीर्णप्रवृत्तयश्च दण्डी, इत्यादिशब्द-प्रत्यया इति स्वभावहेतुः। अनिमित्तत्वेसर्वत्राऽविशेषेण प्रवृत्तिप्रसङ्गो बाधकं प्रमाणम्। (विधिवादिमतं सविस्तरं दूषयताम् अपोहवादिनां मतस्य निर्देश:)अत्र यदि पारमार्थिकबाह्यविषयभूतेन निमित्तेन सन्निमित्तत्त्व- मेषां साधयितुमिष्टं तदा अनैकान्तिकता हेतोः; साध्यविपर्यये बाधकप्रमाणाभावात्। अथ येन केनचिन्निमित्तेन सन्निमित्तित्त्व- मिष्यते तदा सिद्धिसाध्यता। तथाहि-अस्माभिरपीष्यते एवैषामन्तर्जल्पवासनाप्रबोधो निमित्तं नतु विषयभूतम्, भ्रान्तत्वेन सर्वस्य शा(शब्द-प्रत्ययस्य निर्विषयत्वात्। तदुक्तम्-"येन येन हि नाम्नावै, यो यो धर्मोऽभिलप्यते। न स संविद्यते तत्र, धर्माणां सा हि धर्मता' () इति। नच शाब्दप्रत्ययस्य भ्रान्तत्वाऽविषयत्वयोः किं प्रमाणमिति वक्तव्यम्, भिन्नेष्वभेदाध्यवसायेन प्रवर्त्तमानस्य प्रत्ययस्य भ्रान्तत्वात्। तथाहिय: 'अतस्मिंस्तद्' इति प्रत्ययः स भ्रान्तः, यथा मरीचिकायां जलप्रत्ययः, तथा चायं भिन्नेष्वर्थेष्व-भेदाध्यावसायी शाब्द: प्रत्यय इति स्वभावहेतुः। न च सामान्य वस्तुभूतं ग्राह्यमस्ति येनासिद्धतास्य हेतो: स्यात्, तस्य निषिद्धत्वात्। सम्म.१ काण्ड गाथाटी०। (इतिऽग्रे'सह' शब्दे सप्तमे भागे 340 पृष्ठे द्रष्टव्यम्) इतश्च-स्वलक्षणव्यपदेश्यं शब्दबुद्धौ तस्याः प्रतिभासनात्। यथाहिउष्णाद्यथेविषयेन्द्रियबुद्धिः स्फुटप्रतिभासानुभूयते न तथा उष्णादिशब्दप्रभवा नयुपहतनयनादयो मातुलिङ्गादिशब्दश्रवणात्तद्रूपाद्यनुभाविनो भवन्ति यथानुपहतनयनादयः अक्षबुद्ध्यानुभवन्तः। यथोक्तम्-"अन्यथैवाग्निसंबन्धाद्दाहंदग्धोऽभिमन्यते।अन्यथा दाहशब्देन, दाहार्थ: संप्रतीयते" (वाक्यप.द्वि. का. श्लो० 425) न च यो यत्र न प्रतिभाति स तद्विषयोऽभ्युपगन्तुं युक्त: अतिप्रसङ्गात्। तथा च प्रयोग:-यो यत् कृतप्रत्यये न प्रतिभासते न स तस्यार्थः यथा रूपशब्दजनिते प्रत्यये रस:, न प्रतिभासते च शाब्दप्रत्यये स्वलक्षणम् इति व्यापकानुपलब्धिः। अत्र चातिप्रसङ्गो बाधकं प्रमाणम् / तथाहिशब्दस्यतद्विषयज्ञानज-कत्वमेवतद्बाधकत्वमुच्यतेनान्यत्, नचयद्विषयं ज्ञानं यदाकारशून्यं तत्तद्विषयं युक्तमतिप्रसङ्गात्। न चैकस्य वस्तुनो रूपद्वयमस्तिस्पष्टम् अस्पष्टं च येनाऽस्पष्टं वस्तुगतमेव रूपं शब्दैरभिधीयते-एकस्य द्वित्वविरोधाता भिन्नसमयस्थायिनां च परस्परविरुद्धस्वभावप्रतिपादनात् न शब्दगोचर: स्वलक्षणम्। सम्म०१ काण्ड 2 गाथाटी। (12) शब्दार्थविचार: अस्थो कि हुज्ज सुई, विण्णाणं वत्थुभेओ वा // 1600 / / जाई दव्वं किरिया, गुणोऽहवा संसओ तवो जुत्तो। अयमेवेति न वा यं, नवत्थुधम्मो जओ जुत्तो ! // 1602 / / सव्वं चिय सव्वमयं, सपरप्पजायओजओ निययं। सव्वमसव्वमयं पिय, विचित्तरूवं विवक्खाओ॥१६०२।। सामण्णविसेसमओ, तेण पयत्थो विवक्खया जुत्तो। वत्थुस्स विस्सरूवो, पज्जाया-वेक्खया सव्वो // 1603 // अर्थः श्रुति:- शब्दो भवेत, यथा भेरी-पटह-ढक्कादीनां शब्द- स्य शब्द एवार्थः; अथवा-यघटादिशब्दे समुच्चारिते तदभि- धेयार्थविषयं विज्ञानं भवद्-दृश्यते तत्तेषामर्थः; किं वा- घट- शब्द समुत्कीर्तिते 'पृथुबुध्नोदराद्याकारवान् घटलक्षणोऽर्थोऽने-केतो, नतु पटादिः' इत्येवं यो वस्तुभेद: प्रतीयते स एषामर्थः; यदिवा-किं जातिरमीषामर्थो, यथा गोशब्दे समुचारिते गोजा-तिरवसीयते; यदि वा-किं द्रव्यमेषामर्थो यथा दण्डीत्यादिषु दण्डादिमद् द्रव्यं किं वा धावतीत्यादीनामिव धावनादिक्रि या अमीषामर्थः; अथवा-किं शुक्लादीनामिव शुक्लादिगुण एतेषा-मर्थ इति? अयं च संशयस्तवाऽयुक्तो, यस्माद्'अयमेव, नैव वाऽयमि' त्येवं कस्यापि वस्तुनो धर्मोऽवधारयितुंन युक्तः। शब्दोऽपि वस्तुविशेष एव, तत: 'एवंभूतस्यैवार्थस्यायमभिधाय- को, नैव वा इत्थंभूतस्यार्थस्यायं प्रतिपादक:' इत्येवमेतद्धर्मस्याप्यवधारण-मयुक्तमेव / कुत:? इत्याह-'सव्वं चिये' त्यादि, यस्मात्सर्वमपि वाच्यवाचकादिकं वस्तु नियतं- निश्चितं स्व