________________ आगम 78 अभिधानराजेन्द्रः भाग 2 आगम परपर्यायैः सर्वात्मकमेव सामान्यविवक्षयेत्यर्थः। तथा-सर्वमसर्व मयमष्यस्ति विविक्तरूपं सर्वतो व्यावृत्तम् कया? इत्याह- विवक्षया, केचलस्वपर्यायापेक्षयेत्यर्थः, विशेषविषययेति तात्पर्यार्थः। तस्मात्सर्वेषामपि पदानां विवक्षावशत: सामान्यमयो विशेषमयश्च पदार्थो युक्तः, न पुनरेकान्तेनेत्थंभूत एव, अनित्थंभूत एव वेतिकुत्त:? इत्याहवत्थुस्सेत्यादि, यस्मात्सर्वोऽपि वाच्यस्य वाचकस्य वा वस्तुन: स्वभाव: पर्यायापेक्षया विश्वरूपो नानाविधो वर्तते। ततश्च सामान्यविवक्षायां घटशब्द: सर्वात्मकत्वासर्वेषामपि द्रव्यगुणक्रियाद्यर्थानां वाचक: विशेषविवक्षया तु प्रतिनियत-रूपत्वात् य एवास्येह पृथुबुध्नोदराद्याकारवानर्थो वाच्यतया रूढस्तस्यैव वाचकः / एवमन्योऽपि शब्दो विशेषविवक्षया यो यत्र देशादौ यस्यार्थस्य वाचकतया रूढः स तस्य वाचको द्रष्टव्य: / सामान्यविवक्षया तु'सर्व:सर्वस्य वाचक: सर्वं सर्वस्य वाच्यमि' त्यनया दिशा सकलं स्वधिया भावनीयमिति। विशे०। (13) अथ स्वाभिमतसामान्यविशेषोभयात्मकवाच्यवाचकभावसमर्थनपुरस्सरं तीर्थान्तरीयप्रकल्पिततदेकान्तगोचरवाच्यवाचकभावनिरासद्वारेण तेषां प्रतिभावैभवाऽभावमाहअनेकमेकात्मकमेव वाच्यं, द्वयात्मकं वाचकमप्यवश्यम् / अतोऽन्यथा वाचकवाच्यक्लृप्ता वतावकानां प्रतिभाप्रमादः ||14|| व्याख्या-वाच्यम्-अभिधेयं चतनम् अचतनं च वस्तु एवकारस्याप्यर्थत्वात् सामान्यरूपतया एकात्मकमपि व्यक्तिभेदेन अनेकम्अनेकरूपम् / अथवा-अनेकरूपमपि एकात्मकम् अन्योन्यसंबलितत्वादित्थमपि व्याख्याने नदोषः / तथा च-वाचकमभिधायक शब्दरूपं तदप्यवश्यं निश्चितं द्वयात्मकं; सामान्यविशेषोभयात्मकत्वादेकानेकात्मकमित्यर्थः। (उभयत्र वाच्यलिङ्गत्वेऽप्यव्यक्तत्वानपुंसकत्वम्। अवश्यमिति पदं वाच्यवाचकयोरुभयोरप्यनेकात्मकत्वं निश्चिन्वत्तदेकान्तं व्यवच्छिनत्ति) अत उपदर्शितप्रकारादन्यथा सामान्यविशेषै कान्तरूपेण प्रकारेण 'वाचकवाच्यक्लुप्तौ' - वाच्यवाचकभावकल्पनायाम्, 'अतावकानाम्'- अत्वदीयानाम्अन्यथूथ्यानाम् 'प्रतिभाप्रमादः - प्रज्ञास्खलितम्, इत्यक्ष-रार्थः। (अत्र चाल्पस्वरत्वेन वाच्यपदस्य प्राग्निपाते प्राप्तेऽपि यदादौ वाचकग्रहणं तत्प्रायोऽर्थप्रतिपादनस्य शब्दधीनत्वेन वाचकस्याऽर्च्यत्वज्ञापनार्थम्)! तथा च शाब्दिका:- "न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते। अनुविद्धमिव-ज्ञानं, सर्वे शब्देन भासते॥शाइति। भावार्थस्त्वेवम् एके तीर्थिका: सामान्यरूपमेव वाच्यतया शब्दार्थमभ्युपगच्छन्ति ते च द्रव्यास्तिकनयानुपातिनो मीमांसकभेदा, अद्वैतवादिनः, सांख्याश्च / केचिच विशेषरूपमेवं वाच्यं निर्बुवन्ति। तेच पर्यायास्तिकनयानुपारिण: सौगता: / अपरे च-परस्परनिरपेक्ष-पदार्थपृथग्भूतसामान्यविशेषयुक्त वस्तु वाच्यत्वेन निश्चिन्वते / ते च नैगमनयानुरोधिन: काणादा आक्षपादाश्च। स्था०१४ श्लोक! एवं वाचकमपि शब्दाख्यं द्वयात्मकम् (सामान्य विशेषा-त्मकम्)। / सर्वशब्दव्यक्तिष्वनुयायिशब्दत्वमेकं शाङ्कशाईतीव्रमन्दोदात्तानुदात्तस्वरितादिविशेषभेदादनेकम् / शब्दस्य हि सामान्यविशेषात्मकत्वं पौगलिकत्वाद्व्यक्तमेव, तथाहिपौद्रलिक: शब्दः; इन्द्रियार्थत्वाद्रूपादिवत् यचास्य पौद्गलिकत्वानिषेधाय स्पर्शशू याश्रयत्वादतिनिविडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातात्पूर्वं पश्चाचावयवानुपलब्धे: सूक्ष्ममूर्तद्रव्यान्तराप्रेरकत्वाद्गगनगुण-त्वाचेति पञ्च हेतवोयोगैरुपन्यस्तास्तेहेत्वाभासा:, तथाहि- शब्दपर्यायस्याश्रयो भाषावर्गणा न पुनराकाशं तत्र च स्पर्शी निर्णीयत एव। यथा शब्दाश्रयः स्पर्शवान् : अनुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणापलभ्यमानानुपलभ्यमानेन्द्रियार्थत्वात्तथाविघगन्धाऽऽद्याधारद्रव्यपरमाणुवत्। इत्यसिद्धः प्रथमः / द्वितीयस्तु गन्धद्रव्येण व्यभिचारादनैकान्तिक: वर्त्तमानजात्यकस्तूरिकादिगन्धद्रव्यं हि पिहितद्वारापवरकस्यान्तर्विशति, बहिश्व निर्याति। नचापौद्रलिकम्। अथ तत्र सूक्ष्मरन्ध्रसंभवा- नातिनिविडत्वम्। अतस्तत्र तत्प्रवेशनिष्क्रमौ कथमन्यथोद्घा-टितद्वारावस्थायमिव न तदेकार्णवत्वं? सर्वथा नीरन्ध्रे तु प्रदेशे नतयो: संभवः। इति चेत्तर्हि शब्दे ष्येतत्समानम्। इत्यसिद्धो हेतुः। तृतीयस्तु तडि (विद्युल्लतोल्कादिभिरनैकान्तिकः। चतुर्थोऽपि तथैव: गन्धद्रव्यविशेषसूक्ष्मरजोधूमादिभिर्व्यभि- चारात्। नहि गन्धद्रव्यादिकमपि नासायां निविशमानं तद्विवरद्वारदेशोद्भिन्नश्मश्रुप्रेरकं दृश्यते। पञ्चम: पुनरसिद्धः / तथाहि-न गगनगुणः शब्दः; अस्मदादिप्रत्यक्षत्वाद्रपादिवद्। इति सिद्धः पौगलिकत्वात्सामान्यविशेषा-त्मक: शब्द इति / नच वाच्यम् - "आत्मन्यपौगलिके ऽपि कथं सामान्यविशेषात्मकत्वं निर्विवादमनुभूयते, इति; यत: संसार्यात्मनः प्रतिप्रदेशमनन्तानन्तकर्मपरमाणुभिः सह वह्नितापितघनकुट्टितनिविभागपिण्डीभूतसूचीकलापवल्लोलीभावमापन्नस्य कथंचित्पौगलिकत्वाभ्यनुज्ञानादिति! यद्यपि स्याद्वादवादिनां पौद्गलिकम् अपौद्रलिकं च सर्व वस्तु सामान्य- विशेषात्मकं तथाप्यपौद्रलिकेषु धर्माधर्माकाशकालेषु तदात्म- कत्वमर्वाग्दृशांन तथा प्रतीतिविषयमायाति पौद्रलिकेषु पुन-स्तत्साध्यमानं तेषां सुश्रद्धानम् / इत्यप्रस्तुतमपि शब्दस्य पौद्गलिकत्वं सामान्यविशेषात्मकत्वं साधनायोपन्यस्तमिति। अत्रापि नित्यशब्दवादिसंमत: शब्दैकत्वैकान्तोऽनित्यशब्दवाद्यभिमतः शब्दानैकत्वैकान्तश्च प्रारदर्शितदिशा प्रति-क्षेप्यः / अथवा-वाच्यस्य घटादेरर्थस्य सामान्यविशेषात्मकत्वे तद्वाचकस्य ध्वनेरपि तत्त्वम् शब्दार्थयो: कथंचित्तादात्म्याभ्यु- पगमात्। यथाहुर्भद्रबाहुस्वामिपादा:"अभिहाणं अभिहेआउ, होइ भिन्नं अभिन्नं च। खुर अम्गिमोयगुचा-रणमि जम्हा दुवयणसवणाणं ||1|| न विच्छेओ न वि दाहो, न पूरणं तेण भिन्नं तु। जम्हा य मोयगुचा- रणमि तत्थेव पच्चओ होइ / / 2 / / णय होइ स अन्नत्थे, तेण अभिन्नं तदत्थाउ!" एतेन"विकल्पयोनयः शब्दा, विकल्पा: शब्दयोनयः।