________________ आगम 79 अभिधानराजेन्द्रः भाग 2 आगम कार्यकारणता तेषां, नार्थं शब्दा: स्पृशन्त्यपि''||१ इति प्रत्युक्तम्"अर्थाभिधानप्रत्ययास्तुल्यनामधेया" इति वचनात, शब्दस्य ह्येतदेव तत्वं यदभिधेयं याथात्म्येनासौ प्रतिपादयति। स च तत्तथा प्रतिपादयन् वाच्यस्वरूपपरिणाम- परिणत एव वक्तुं शक्तो नान्यथाऽतिप्रसङ्गात्, घटाभिधानकाले पटाद्यभिधानस्यापि प्राप्तेरिति। अथवाभङ्गयन्तरेण सकलं काव्यमिदं व्याख्यायते-वाच्यं वस्तु घटादिकमेकात्मक- मेवैकस्वरूपमपि सदनेकम् (अनेकस्वरूपम्) अयमर्थः। प्रमाता तावत् प्रमेयस्वरूपं लक्षणेन निश्चिनोति। तच सजातीयवि- जातीयव्यवच्छेदादात्मलाभ लभते। यथा घटस्य सजातीया मृन्मयपदार्था विजातीयाश्च पटादयस्तेषां व्यवच्छेदस्तल्लक्षणम् / पृथुबुध्नोदराद्याकार: कम्बुग्रीवो जलधारणाहरणादिक्रियासमर्थः पदार्थविशेषो घट इत्युच्यते / तेषां च सजातीयविजातीयानां स्वरूपं तत्र बुद्ध्या आरोग्य व्यवच्छिद्यते, अन्यथाप्रतिनियततत्स्वरूपपरिच्छेदानुपपत्ते: सर्वभावानां हि भावाऽभावात्मकं स्वरूपम् एकान्तभावात्मकत्वे वस्तुनो वैश्वरूप्यं स्याद् एकान्ताऽभावात्मकत्वे च नि:स्वभावता स्यात्, तस्मात्स्वरूपेण सत्त्वात्पररूपेण चाऽसत्त्वाद्भावाभावात्मकं वस्तु, यदाह- "सर्वमस्ति स्वरूपेण, पररूपेण नास्ति च। अन्यथा सर्वसत्त्वं स्यात्, स्वरूपरयाप्यसंभवः"||११|| ततश्चैकस्मिन् घटे सर्वेषां घट व्यतिरिक्तपदार्थानामभावरूपेण वृत्तेरने कात्मकत्वं घटस्य सूपपादकम्। एवं चैकस्मिन्नर्थे ज्ञाते सर्वेषामर्थानां ज्ञानं; सर्वपदार्थपरिच्छेदमन्तरेण तन्निषेधात्मन एकस्य वस्तुनो विविक्ततया परिच्छेदासंभवात्। आगमोऽप्येवमेव व्यवस्थित:- "जे एणं जाणइ, से सव्वं जाणइ जे सव्वं जाणइ, से एणं जाणइ'। तथा- "एको भाव: सर्वथा येन दृष्टः, सर्वे भावा: सर्वथा तेन दृष्टाः। सर्वे भावा: सर्वथा येन दृष्टा, एको भाव: सर्वथा तेन दृष्टः "||सा येतु सौगता: परासत्त्वंनाङ्गीकुर्वते तेषां घटादे: सर्वात्मकत्वप्रसङ्गः। तथाहि- यथा घटस्य स्वरूपादिना सत्त्वं तथा यदि पररूपादिनापि स्यात्तथा च सति स्वरूपादिसत्त्ववत्पररूपादिसत्त्वप्रसक्तेः कथं न सर्वात्मकत्वं भवेत् ? परासत्त्वेन तु प्रतिनियतोऽसौ सिद्धयति। अथन नाम नास्तिपरासत्त्वं किंतुस्वसत्त्वमेव तदितिचेदहो वैदग्धी न खलु यदेव सत्त्वं तदेवासत्त्वं भवितुमर्हति विधि-प्रतिषेधरूपतया विरुद्धधर्माध्यासेनानयोरैक्यायोगात् / अथ युष्मत्पक्षेऽप्येवं विरोधस्तदवस्थ एवेति चेदहो वाचाटता देवानांप्रियस्य न हि वयं येनैव प्रकारेण सत्त्वं तेनैवासत्त्वं येनैव चाऽसत्त्वं तेनैव सत्त्वमभ्युपेम:, किंतुस्वरूपद्रव्यक्षेत्रकालभावैः सत्त्वं पररूपद्रव्यक्षेत्रकालभावस्त्वसत्त्वम्। तदा व विरोधावकाशः? यौगास्तु प्रगल्भन्ते - "सर्वथा पृथगभूतपरस्परा-भावाभ्युपगममात्रेणैव पदार्थप्रतिनियमसिद्धेः किं तेषामसत्त्वा-त्मकत्वकल्पनया" इति, तदसत्, यदाहि-पटाद्यभावरूपो घटो न भवति तदा घट: पटादिरेव स्यात्। यथा च घटाभावाद्भिन्नत्वाद् घटस्य घटरूपता तथा पटादेरपि स्याद् घटाभावादिन्नत्वादेव इत्यलं विस्तरेण / / मूर्खस्या एवं वाचकमपि शब्दरूपं द्वयात्मकम् एकात्मकमपि सदनेकमित्यर्थः, यथोक्तन्यायेन शब्दस्यापि भावाऽभावात्मक- त्वात् अथवाएकविषयस्यापि वाचकस्याऽनेकविषयत्वोपपत्तेः। यथा किल घटशब्द: संकेतवशात्पृथुबुध्नोदराद्याकार-वति पदार्थे प्रवर्तते वाचकतया तथा देशकालाद्यपेक्षया तद्वशादेव पदार्थाऽन्तरेष्वपि तथा वर्तमान: केन वार्यत? भवन्ति हि वक्तारो योगिनः शरीरं प्रति घट: इति; संकेतानां पुरुषेच्छा-धीनतयाऽनियतत्वात्। यथा चौरशब्दोऽन्यत्र तस्करे रूढोऽपि दाक्षिणात्यानाम्- ओदने प्रसिद्धः। यथा च कुमारशब्द: पूर्वदेशे आश्विनमासे रूढः, एवं कर्क टीशब्दादयोऽपि तत्तद्देशापेक्षया योन्यादिवाचका ज्ञेयाः। कालापेक्षया पुनर्यथा जैनानां प्रायश्चित्तविधौ धृतिश्रद्धासंहननादिमति प्राचीनकालेषगुरु-शब्देन शतमशीत्यधिक मुपवासानामुच्यते स्म। सांप्रतकाले तु तद्विपरीते तेनैव षशुरुशब्देनोपवासशत्रयमेव संकेत्यतेजीत-कल्पव्यवहारानुसारात्। शास्त्रापेक्षया तु यथा पुराणेषु द्वादशीशब्देनैकादशी त्रिपुरार्णवे च अलिशब्देन मदिराभिषिक्ताऽन्ने च मैथुनशब्देन मधुसर्पिषाम्रहणमित्यादि नचैवं संकेतस्यैवार्थप्रत्यायने प्राधान्य; स्वाभाविकसामर्थ्यसाचिव्यादेव तत्र तस्य प्रवृत्ते: सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् यत्र च देशकालादौ यदर्थप्रति- पादनशक्तिसहकारिसंकेतस्तत्र तमर्थ प्रतिपादयति / तथा च-निर्जितदुर्जयपरप्रवादा: श्रीदेवसूरिपादा:"स्वाभाविक- सामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्द:"! अत्र शक्तिपदार्थ-समर्थनं ग्रन्थान्तरादवसेयम्,'अतोऽन्यथे' त्यादि उत्तरार्द्ध पूर्ववत्। प्रतिभाप्रमादस्तु तेषां सदसदेकान्ते वाच्यस्य प्रतिनियतार्थविषयत्वे च वाचकस्योक्तयुक्त्या दोषसद्भावाद्व्यवहारानुपपत्तेः। तदयं समुदायार्थ: सामान्यविशेषात्मकस्य भावाऽभावात्मकस्य च वस्तुनः सामान्यविशेषात्मको भावा- भावात्मकश्च ध्वनिर्वाचक इति अन्यथा प्रकारान्तरैः पुनर्वाच्यवाचकभावव्यवस्थामातिष्ठमानानामन्धवादिनां प्रतिभैव प्रमाद्यति न तु तद्भणितयो युक्तिस्पर्शमात्रमपि सहन्ते। कानि तानि वाच्यवाचकभावप्रकारान्तराणि परवादिनामिति चेदेते ब्रूमः। अपोह एव शब्दार्थ इत्येके ''अपोहशब्दलिङ्गाभ्यां, न वस्तुविधिनोच्यते" इति वचनात्। अपरे सामान्यमात्रमेव शब्दानां गोचरः, तस्य क्वचित् प्रतिपन्नस्यैकरूपतया सर्वत्र संकेत-विषयतोपपत्ते:, न पुनर्विशेषा:, तेषामानन्त्यत: कास्न्येनोप-लब्धुमशक्यतया तद्विषयतानुपपत्ते: विधिवादिनस्तु विधिरेव वाक्यार्थोऽप्रवृत्तप्रवर्तनस्वभावत्वात्तस्येत्याचक्षते। विधिरपि तत्तद्वादिविप्रतिपत्त्याऽनेकप्रकार:, तथाहि-वाक्यरूपः शब्द एव प्रवर्तकत्वाद्विधिरित्येके तद्व्यापारो भावनाऽपरपर्यायो विधिः इत्यन्ये। नियोग इत्यपरे / प्रैषादय इत्येके तिरस्कृत- तदुपाधिप्रवर्तनामात्रमित्यन्ये / एवं फलतदभिलाषकर्मादयोऽपि वाच्या: एतेषां निराकरणं सपूर्वोत्तरपदं न्यायकुमुदचन्द्रादवसेयमिति काव्यार्थ: / स्या. 14 श्लोक। (इतोऽग्रे 'सह' शब्दे सप्तमभागे विशेष:)