SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम 80 अभिधानराजेन्द्रः भाग 2 आगम (14) (शब्दस्य वाचकताविचार:)('अत्र वैयाकरणा: प्राहुः' इत्याद्यारभ्य स्फोटविचार: ‘फोड' शब्दे 5 पञ्चमे भागे द्रष्टव्य:।) (15) अथगकाराद्यानुपूर्वीविशिष्टोऽन्त्यो वर्णों विशिष्टा-नुपूर्विका वारा गंकारौकारविसर्जनीया: शब्दाः। तथा च मीमांसका: प्राहु:-"यावन्तो यादृशा ये च, यदर्थप्रतिपादकाः। वर्णाः प्रज्ञातसामाा -स्ते तथैवाऽवबोधका:" (श्लो. वा. स्फोट वा० श्लो०६९)॥ इति। एतदपिन सम्यग् यत:। आनुपूर्वी यद्यनर्थान्तरभूतास्तदा वर्णा एव नानुपूर्वी, तेच व्यस्ता: समस्ता वा अर्थप्रत्यायका न भवन्तीत्यावेदितम् / अथार्थान्तरभूता तदा वक्तव्यं सा नित्या, अनित्या वा ? न तावदनित्या स्वसिद्धान्तविरोधात्-वैदिकानुपूर्व्या नित्यत्वेनाभ्युपगमात्।"वक्तान हि क्रम कश्चित्, स्वातन्त्रेण प्रपद्यते" (श्लो. वा. शब्दनित्य, श्लो०२८८) इत्याद्यभिधानात्। नापि नित्या स्फोटपक्षोदितसमस्तदोषप्रसक्तेः। नच वैदिकवर्णाद्यानुपूर्वी नित्या, लौकिकतदानुपूर्व्यविशेषात् / तथाहिवैदिकवर्णा- द्यानुपूर्वी अनित्या, वेदानुपूर्वीशब्दवाच्यत्वात् लौकिकवर्णाद्या- नुपूर्वीवत्। न च लौकिकानुपूर्या विलक्षणेयं, वैलक्षण्यासिद्धेः। तथाहिकिमपौरुषेयत्वमस्या: वैलक्षण्यम्, आहोस्विद्विचित्र रूपता? न-तावदाद्यः पक्ष: अपौरुषेयत्वस्य निरस्तत्वात् / नापि वैचित्र्यंतस्यानित्यत्वेनाविरोधा तत्सद्भावेऽपि नित्यत्वाप्रसाकवाल्लाकिकवाक्येष्वपि वैचित्र्यस्योपलब्धेश्च / नच वर्णानां नित्यव्यापिनामानुपूर्वी संभवति। देश-कालकृतक्रमानुपपत्तेः। नचाभिव्यक्तानुपूर्वी तेषां संभविनी / अभिव्यक्ते: प्राग्निरस्तत्वात्। 'पूर्ववर्णसंवित्प्रभवसंस्कारसहित: तत्स्मृतिसहितो वा अन्त्यो वर्णः पदम्' इत्यभ्युपगमोऽपि न युक्तिसङ्गतः। संस्कारस्मरणादेरनुपलभ्यमानस्य तदा सहकारित्वकल्पनायां प्रमाणाभावात्। न चार्थप्रतिपत्त्यन्यथानुपपत्तिस्तत्कल्पनायां प्रमाणं, तत्प्रतिपत्तेरन्यथासिद्धत्वात्। न चानुपूर्वीसं भवेऽपि परपक्षे वर्णा अर्थप्रतीतिहेतुतया संभवन्ति, तेषां तत्प्रतिपत्तिजननस्वभावत्वे सर्वदा तत्प्रतिपत्तिप्रसक्तेस्तज्जननस्वभावस्य सर्वदा भावात्। अतज्जननस्वभावत्वेन कदाचिदप्यर्थप्रतिपत्तिं जनयेयु: अनप-गताऽतज्जननस्वभावत्वात्। नच सहकारिसन्निधानेऽपि तेषामतज्ज-ननस्वभावता व्यपगच्छति अनित्यतासक्तिदोषापत्तेः / नित्याश्च परस्ते अभ्युपगता इत्यभ्युपगमविरोधश्च। (16) (वाच्यवाचकयोः संबन्धस्य नित्यत्वं निषिध्य तस्य कृतकत्वव्यवस्थापनम्) नच नित्यसंबन्धवादिनस्तदपेक्षा वण्र्णा अर्थप्रत्यायकाः संभवन्ति, नित्यस्यानुपकारकत्वेनापेक्षणीयत्वापोगात् / न नित्यः संबन्धः शब्दार्थयो: प्रमाणेनावसीयते। प्रत्यक्षेण तस्याननुभवात्। तदभावेनानुमानेनापि, तस्य तत्पूर्वकत्वाभ्युपगमात्। न च शब्दार्थयो: स्वाभाविकसंबन्धमन्तरेण गोशब्दश्रवणानन्तरं ककुदादिमदर्थप्रतिप त्तिर्नभवेद्अस्तिच साइतिशब्दस्यवाचिका शक्तिरवगम्यत इतिवाच्यम्, अनवगत संबन्धस्यापि ततस्तदर्थप्रतिपत्तिप्रसक्तेः। नच संकेताभिव्यक्त: स्वाभाविक: संबन्धोऽर्थप्रतिपत्तिं जनयतीति नायं दोष: संकेतादेवार्थप्रतिपत्ते: स्वाभाविक- संबन्धपरिकल्पनावैयर्थ्यप्रसक्तेः। तथाहि-संकेताद् व्युत्पाद्या: 'अनेन शब्दनेत्थंभूतमर्थं व्यवहारिणः प्रतिपादयन्ति' इत्यवगत्य व्यवहारकाले पुनस्तथाभूतशब्दश्रवणात्। संकेतस्मरणे तत्सद्दशं तं चार्थं प्रतिपद्यन्ते न पुन: स्वाभाविक संबन्धमवगत्य पुनस्तत्स्मरणे अर्थमवगच्छन्ति। न च वाच्यवाचकसंकेतकरणे स्वाभाविकसंबन्धमन्तरेणानवस्थाप्रसक्ति: वृद्धव्यवहारात् प्रभूतशब्दानां वाच्यवाचक- स्वरूपावधारणात्। तथाहि-एको व्युत्पन्नव्यवहार: तथाभूताय गामभ्यज शुक्लां देवदत्त ! दण्डेन' इति यदाव्यपदिशति द्वितीयस्तुतद्व्यपदेशान्तरं तथैव विदधाति तदाअव्युत्पसंकेत: शिशुस्तं तथा कुर्वाणमुपलभ्यैवमवधारयति- 'अनेन गोशब्दा-द्रवार्थः प्रतिपन्न: अभ्याजाऽऽदिशब्दादभ्याजिक्रियादिक: अन्यथा कथमपरनिमित्ताभावेऽपि गोपिण्डाऽऽनयनादिकं वाक्यश्रवणान्तरं विदध्याद्' एवमपोद्धारकल्पनयाऽव्युत्पन्नानां संकेतग्रहणसंभवान्नानवस्थादोषः। न च प्रथमसंकेतविधायिन: स्वाभाविकसंबन्धव्यतिरेकेण वाच्यवाचकयो: कुतो वाच्यवाचकरूपावगतिरिति वक्तव्यम्, अनादित्वादस्य व्यवहारस्यापरापरसंकेतविधायिपूर्वकत्वेन निर्दोषत्वात। नच वाच्यवाचकसंबन्धस्य पुरुषकृतत्वे शब्दवदर्थस्यापि वाचकत्वम् अर्थवच्छब्दस्यापि वाच्यत्वं प्रसक्तमिति वक्तव्यम्। योग्यतानतिक्रमेण संकेतकरणात्। न च स्वाभाविकसंबन्ध- व्यतिरेकेण प्रतिनियतयोग्यताया अभाव:, कृतकत्वेऽपि प्रतिनियतयोग्यतावतां भावानामुपलब्धेः। तथाहि-यत्र लोहत्वं छेदिकाशक्तिस्तत्रैव क्रियमाणा दृष्टा; न जलादौ, यत्रैव तन्तुत्वमस्ति तत्रैव निष्पाद्यते पटोत्पादनशक्तिर्नतु वीरणादौ तत्र तन्तुत्वाभावाद् एवं च यद्यथोपलभ्यते तत्तथैवाभ्युपगन्तव्यम्। दृष्टाऽनुमितानां नियोगप्रतिषेधानुपपत्ते: तेन यत्रव वर्णत्वादिकं निमित्तं तत्रैव वाचिका शक्ति: संकेतेनोत्पाद्यते यत्र तुतन्नियतं निमित्तं नास्ति तत्र न वाचिका शक्तिरिति न नित्यवाच्यवाचक- संबन्धपरिकल्पनया प्रयोजनम्। एकान्तनित्यस्य तु ज्ञानजन- कत्वे सर्वदा ज्ञानोत्पत्ति: तदजननस्वभावत्वेन कदाचिद्विज्ञानो- त्पत्तिरिति प्राक् प्रतिपादितम्। समयबलेन तु शब्दादर्थप्रतिपत्तौ यथासंकेतं विशिष्टसामग्रीत: कार्योत्पत्ती न कश्चिद्दोषः। (अनुमानात् शब्दस्य प्रमाणान्तरत्वप्रसाधनम्)अत एवानुमानात् प्रमाणान्तरं शाब्दम्। अनुमानं हि पक्षधर्म त्वान्वयव्यतिरेकवल्लिङ्गबलादुदयमासादयति। शाब्दं तु संकेतसव्यपेक्षशब्दोपलस्भातं प्रत्यक्षानुमानागोचरेऽर्थे प्रवर्तते / स्वसाध्याऽव्यभिचारित्वमप्यनुमानस्य विरूपलिङ्गोद्भूतत्वेनैव निश्चीयते। शाब्दस्य त्वाप्तोक्तत्वनिश्चये सति शब्दस्योत्तर- कालमिति। किं च-शब्दो यत्र यत्रार्थे प्रतिपादकत्वेन पुरुषेण प्रयुज्यते तं तमर्थ यथासंकेतं प्रतिपादयति, नत्वेवं धूमादिकं लिङ्ग पुरुषेच्छावशेन जलादिकं प्रतिपादयतीत्यनुमानात् प्रमाणान्तरं सिद्धः शब्दः /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy