________________ आगम 81 अभिधानराजेन्द्रः भाग२ आगम न च शब्दादर्थप्रतिपत्तौ शब्दस्य त्रैरूप्यमस्तिा यतो न तस्य पक्षधर्मता यत्रार्थस्तत्र धर्मिणि शब्दस्यावृत्तेोपिण्डाधारण प्रदेशेन शब्दस्याऽऽश्रयाऽऽश्रयिभावस्य जन्यजनकभावनि- बन्धनस्याऽभावाद् अत:'गोपिण्डवानयं देशो गोशब्दवत्त्वात्' इति नाऽभिधातुं शक्यम्। नापि गोपिण्डे गोशब्दो वर्तते। आधाराधेयवृत्त्या जन्यजनकभावेन वा गोपिण्डाऽभावेऽपि गोशब्दस्य दर्शनात्। नच-गम्यगमकभावेन तत्रासौ वर्तते पक्ष-धर्मत्वाभावे तस्यैवानुपपत्ते: वाच्यवाचकभावेन वृत्तावनुमानात् प्रमाणान्तरत्वम्। तेन 'गोपिण्डो गोत्ववान् गोशब्दवत्त्वाद् अयमपि प्रयोगोऽनुपपन्न एव नापि गोत्वे गोपिण्डविशेषणे वर्तते। तत्सामान्येनाश्रयाश्रयिभावस्य जन्यजनकभावस्य वा अस्याभावाद्। अत: 'गोत्वं गोपिण्डत् गोशब्दवत्त्वाद्' इत्यपि वक्तुमशक्यम्। विशेषेच साध्येऽयन्वयश्चात्र पक्षे दोषः। नच- 'गोशब्दो गवार्थवान् गोशब्दत्वात्' इति प्रयोगो युक्तः तथा प्रतीत्यभावात् / नहि 'गौर्गच्छति' इत्युक्ते गमनक्रियोविशिष्ट- गवार्थप्रतीतिमन्तरेण गोपिण्डेन तद्वान् शब्दो लोकेनाऽवगम्यते। नच- गोशब्दो गवार्थवाचकत्वेन गोशब्दत्वादनुमीयत, किंतुगवार्थप्रतिपत्त्यन्यथानुपपत्त्या गवार्थवाचकत्वं तस्य गम्यते / प्रतिनियतपदार्थनिवेशिनांतुदेवदत्तादिशब्दानां नान्वय: नापि पक्षधर्मता दृष्टान्तदान्तिकभेदं चानुमानप्रवृत्तेः / नच-शाब्दं स्वभावलिङ्गजमनुमानं शब्दस्यार्थस्वभावत्वासिद्धराकारभेदात् प्रतिनियतकरणग्राह्यत्वाद्वाचकस्वभावत्वाच तस्य / वाप्रि कार्यलिङ्गजम् अर्थाभावsपीच्छात: शब्दस्योत्पत्तेः। नच-न बाह्यार्थविषयत्वेन शब्दस्यानुमानता सौगतैरभ्युपगयते अपितु विवक्षाविषयत्वेनेति वक्तव्यम्, यतो यथा न तदर्थो विवक्षा तथा शब्दप्रामाण्यप्रतिपादनेऽभिहितं न पुनरुच्यते। (परिकल्पितां वर्णानां नित्यतां तत्पदादिप्रक्रियां च प्रदूष्यानेकान्तदृष्ट्या शब्द-तदर्थसंबन्धयोस्स्वरूपनिरूपणम्)नच-मीमांसकाभिप्रायेण वर्णानां वाचकत्वम् अभिव्यक्तानभिव्यक्त- | पक्षद्वयेऽपि दोषाद् अनभिव्यक्तानां ज्ञानजन-कल्वे सर्वपुरुषान् प्रति सर्वे सर्वदा ज्ञानजनकाः स्युः केनचित् प्रत्यासत्तिविप्रकर्षाभावाद् / अभिव्यक्तानां ज्ञानजनकत्वे एकवर्णाऽऽवरणापाये सर्वेषां समानदेशत्वेनाभिव्यक्तत्वाधुगपत् सर्वश्रुतिप्रसक्तिरित्त्युक्तं प्राक् / इन्द्रियसंस्कारपक्षेऽपि पूर्वप्रति-पादितमेव दूषणमनुसतव्यम्। किं चयद्यनवगतसंबन्धा वर्णा अर्थप्रत्यायकास्तदा नारिकेरद्वीपवासिनोऽप्युपलभ्यमाना अर्थावगतिं विदध्युः। अर्थावगतसंबन्धास्तथा सति पदस्य स्मारकत्वमेव स्यान्न वाचकत्वं तथा चानधिगतार्थाधिगमहेतुवाभावान्न प्रमाणता भवेत्, तदुक्तम्- "पदं त्वभ्यधिकाभा- वात्, स्मारकान्न विशिष्यते। अथाऽऽधिक्यं भवेत्किंचित, स पदस्य न गोचरः"॥ (श्लो. वा. शब्दप श्लो. 107) इति, तन्न मीमांसकमतेनापि वर्णानां शब्दत्वम्। कथं तर्हि वर्णा: शब्दरूपतां प्रतिपद्यन्ते ? उक्तमत्र परिमितसङ्ख्यानां पुद्रल- द्रव्योपादानपरित्यागेनैव परिणतानामश्रावणस्वभावपरित्यागा- वाप्तश्रावणस्वभावानां विशिष्टानुक्रमयुक्तानां वर्णानां | वाचकत्वात् शब्दत्वम्; अन्यथोक्तदोषानतिवृत्तेः / वैशेषिकपरिकल्पितपदादिप्रक्रियात्वनुभवबाधितत्यादयुक्ता! न च- निरन्वयविनाशिनां विज्ञानहेतुता संभवतीत्यसकृत्प्रतिपादितम्। षट्क्षणावस्थायित्वलक्षणमप्यनित्यत्वं तत्परिकल्पितं निरन्वयविनाशपक्षे अर्थक्रियानिर्वर्तनानुपयोगितेषाम्। नच षट्क्षणावस्थानमपि संभवति, प्रथमक्षणसत्ताया द्वितीयक्षणसत्ताऽनुप्रवेशे तरक्षणसत्ताया अप्युत्तरक्षणसत्तानुप्रवेश- परिकल्पनायां क्षणिकत्वमेव। अननुप्रवेशेऽपि परस्परविविक्त- त्वान्। क्षणस्थितीनां तदैव क्षणिकत्वमिति कुत: षट्क्षणा- वस्थानमेकस्य? अक्षणिकत्वे चार्थक्रियाविरोध: प्रतिपादित एवेति। न पदादिपरिकल्पना वैशेषिकपक्षे युक्तियुक्तति स्थितम्। ननु भवत्पक्षेऽपिक्रमस्य वर्णेभ्यो व्यतिरेके न वर्णविशेषणत्यम् अव्यतिरेकेवर्णा एव केवलास्ते च न व्यस्तसमस्ता अर्थप्रतिपादका इति पूर्वमेव प्रतिपादितमिति न शब्द: कश्चिदर्थप्रत्यायकः, असदेतत्, वर्णव्यतिरिक्ताऽव्यतिरिक्तस्य क्रमस्य प्रतिपक्षेः। तथाहि-न वर्णेभ्योऽर्थान्तरमेव क्रम: वर्णानुविद्धतया तस्य प्रतीते:। नापि वर्णा एव क्रम:। तद्विशिष्टतया तेषां प्रतिपत्तेः। नच तद्विशषणात्येन प्रतीयमानस्य क्रमस्याऽपणवो युक्तिसङ्गतो वर्णेष्वपि तत्प्रसक्तेः। नच-भ्रान्तिरूपा प्रतिपत्तिरियं, वर्णानां तद्विशिष्टतया बाधिताध्यक्षगोचरतया प्रसाधितत्वाद् अर्थप्रतिपत्तिकारणतो- ऽनुमितत्वाच्च। न चाऽभावः कस्यचिद्भावाध्यवसायि तया विशेषणं नाऽप्यर्थप्रतिपत्तिहेतुर्नच कमोऽप्यहेतु: तथात्मक- वर्णेभ्योऽर्थ- प्रतीतेः। ततो भिन्नाऽभिन्नानुपूर्वीविशिष्टा वर्णा विशिष्ट-परिणतिमन्तः शब्द: सच पदवाक्यादिरूपतया व्यवस्थित: तेन विशिष्टानुक्रमवन्ति तथाभूतपरिणलिमापन्नानि पदान्येव वाक्यमभ्युपगन्तव्यम्। तद्व्यतिरिक्तस्य तस्य पदवदनुपपद्यमान- त्वात्। सम्म०१ काण्ड 32 गाथाटी०। (17-18) शब्दस्य नित्यवाऽनित्यत्वविचारः, शब्दार्थतत्सम्बन्धविचारश्चअकारादि: पौगलिको वर्णः इति // 9 // पुद्गलै:- भाषावर्गणापरमाणुभिरारब्धः पौद्गलिकः। अत्र याज्ञिका: प्रज्ञापयन्ति-वर्णस्यानित्यत्वमेव तावद् दुरूपपादं कुतस्तरां पुद्गलारब्धत्वमस्य स्यात् ? तथाहि-स एवायंगकार इति प्रत्यभिज्ञा, शब्दा नित्यः श्रावणत्वाच्छब्दत्ववद्इत्य-नुमानम् शब्दो नित्यः, परार्थं तदुधारणान्यथानुपपत्तेरित्यर्था-पत्तिश्चेतिप्रमाणानि दिनकरकरनिकरनिरन्तरप्रसरपरामर्शो पजातजृम्भारम्भोजानीव मन: प्रसादमस्य नित्यत्वमेव द्योतयन्तिा तदवद्यम्। यत: प्रत्यभिज्ञानं तावत्कथंचिदनित्य त्वेनैवाविनाभावमाभेजानम्, एकान्तैकरूपतायां ध्वने: सएवायमित्याकारोभयगाचरत्वविरोधात् / कथमात्मनि तद्रूपेऽपि स एवाहमिति प्रत्यभिज्ञेति चेत्। तदशस्यम्। तस्यापि कथंचिदनित्यस्यैवस्वीकारात्। प्रत्यभिज्ञाभासश्चायम्, प्रत्यक्षा-नुमानाभ्यां बाध्यमानत्वात्, प्रदीपप्रत्यभिज्ञावत्। प्रत्यक्ष हि तावदुत्पेदे विपेदे च वागियमिति प्रवर्तते।