________________ उवलद्धि 641 - अमिधानराजेन्द्रः - भाग 2 उवलद्धि नागतं धुवावीक्षणादिकमरिष्टं सांप्रतिकं प्रतिव्यवहितत्वेन व्यापारपराङ्मुखमिति कथं तत्तत्र कारणत्वमवलम्बेत निर्व्यापार स्यापि तत्कल्पने सर्व सर्वस्य कारणं स्यात् / इदमेव भावयन्ति / / स्वव्यापारोपेक्षिणो हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था कुलालस्येव कलशं प्रतीति अन्वयव्यतिरेकावसेयो हि सर्वत्र कार्यकारणभावस्तौ च कार्यस्य कारणव्यापारसव्यपेक्षावेव युज्येते कुम्भस्यैव कुम्भकारव्यापारसव्यपेक्षाविति / ननु चातिक्रान्तानागतयोर्व्यवहि तत्वेऽपि व्यापारः कथं न स्यादित्यारेकामधरयन्ति // उचव्यवहितयोस्तयोापारपरिकल्पनं न्याय्यमतिप्रसक्ते रिति / तयोरतिक्रान्तानागतयोगिद्दशासंवेदनमरणयोः / अतिप्रसक्ति मेव भावयन्ति / परंपराव्यवहितानां परेषामपि तत्कल्पनस्य निदारयितुमशक्यत्वादिति परेषामपिरावणशंखचक्रवादीनांतत्कल्पनस्य व्यापारकल्पनस्य / अथान्वयव्यतिरेकसमधिगम्यः कार्यकारणभावस्ततो व्यवधानाविशेषेऽपि यस्यैव कार्यमन्वयव्यतिरेकावनुकरोति तदेव तत्कारणमन्यथा व्यवधानाविशेषेऽपि किंन काष्ठकृशानुक्त्तत्र स्थित एव शर्कराकणनिकरोऽपि धूमकारणं स्यात्ततो नातिप्रसङ्ग इति चेन्नन्वन्वयस्तद् भावे भावः स चात्र तावन्नास्त्येव जाग्रद्दशासंवेदनमरणयोरभाव एव सर्वदा उत्कार्योत्पादात् / अथ स्वकार्ले सतोरेव तयोस्तत्कार्योसत्तेरन्वयः कथं न स्यादिति चेत्तर्हि ईदृशोऽयं रावणादिभिरव्यस्यास्त्येव सत्यमस्त्येव व्यतिरेकस्तु रिक्त इति चेन्ननु कोऽयंव्यतिरेको नाम तदभावेऽभाव इति चेत्तर्हि जाग्रहशासंवेदनादेकथं स्यात्तदभाव एव सर्वदा प्रबोधादेर्भावात् स्वकाले त्वभावस्तस्य नास्त्येवेति कथं व्यतिरेकः सिद्धिमधिवसेदिति न व्यवहितयोः कार्यकारणभावः संभवति / सहचरहेतोरपि स्वभावकार्यकारणेषु नान्तर्भाव इति दर्शयन्ति / सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः सहोत्पादेन तदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेश इति। यदि हि सहसंचरणशीलयोर्वस्तुनोस्तादात्म्यं स्यात्तदा परस्पर-परिहारेण स्वरूपान्तरोपलम्भोन भवेदथतदुत्पत्तिस्तदा पौर्वापर्येणोत्पादप्रसङ्गात्सहोत्पादो न स्यात् नचैवं ततो नास्य प्राप्तेषु स्वभावकार्यकाररणेष्वन्तर्भावः / इदानीं मन्दमतिव्युत्पत्तिनिमित्त साधर्म्यवैधाभ्यां पञ्चावयवां व्याप्याविरुद्धोपलब्धिमुदाहरन्ति।ध्वनिः परिणतिमान् प्रयत्नानन्तरीयकत्वाद्यः प्रयत्नानन्तरीयकः स परिणतिनान्यथा स्तम्भः यो वा न परिणतिमान् स न प्रयत्नानन्तरीयको यथा वान्ध्येयः प्रयत्नानन्तरीयकश्च ध्वनिस्तस्मात्परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः साधर्म्यण वैधर्येण चेति / अत्र ध्वनिः परिणतिमानिति साध्यधर्मविशिष्टधर्माभिधानरूपा प्रतिज्ञा प्रयत्नानन्तरीयकत्वादिति हेतुः यः प्रयत्नानन्तरीयक इत्यादि तु व्याप्तिप्रदर्शनपूर्वी साधर्म्यवैधाभ्यां स्तम्भबान्ध्ये यरूपौ दृष्टान्तौ / प्रयत्नानन्तरीयकश्च ध्वनिरित्युपनयस्तस्मात्परिणतिमानिति निगमनम् / यद्यपि व्याप्यत्वं कार्यादिहेतूनामप्यस्ति साध्येन व्याप्यत्वात्तथापि तन्नेह विवक्षितं किं तु साध्येन तदात्मीभूतस्वकार्यादिरूपस्य प्रयत्नानन्तरीयकत्वादेः स्वरूपमित्यदोषः / / अथ कार्याविरुद्धोपलब्ध्यादीनुदाहरन्ति अस्त्यत्र गिरिनिकु जे धनञ्जयो धूमसमुपलम्भादिति कार्यस्येति / साध्येनाविरुद्धस्योपलब्धिवरिति पूर्वसूत्रादिहोत्तरत्र चानुवर्तनीयम् / भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति कारण स्येति तथाविधेति सातिशयोन्नतत्वादिधर्मोपेतत्वं गृह्यते। उदेष्यति मुहूर्तान्ते तिष्यतारका पुनर्वसूदयदर्शनादिति पूर्वचरस्येति तिष्यतारकेति पुष्यनक्षत्रम्॥ उद्गुर्मुहूत्पूिर्व पूर्वफल्गुन्य उत्तर-फाल्गुनीनामुद्गमोपलब्धेरित्युत्तरचरस्येति / अस्तीह सहकारफ-लरूपविशेषः समास्वाद्यमानसविशेषादिति सहचरस्येति / इयं च साक्षात्षोढा विरुद्धोपलब्धिरुक्ता / परंपरया पुनः संभवन्तीयमत्रैवान्तर्भावनीया / तद्यथा कार्यकार्याविरुद्धोपलब्धिः कार्या विरुद्धोपलब्धौ अन्तर्भवतीति योगः अभूदत्रकोशः कलशोपलम्भादिति कोशस्य हि कार्यकुशूलस्तस्य चाविरुद्धं कार्य कुम्भ इति एवमन्याऽप्यत्रैवान्तर्भावनीया / अधुना विरुद्धोपलब्धिभेदानाहुः // विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्त प्रकारेति / प्रथमप्रकारं प्राक् प्रकाशयन्ति / तत्राद्या स्वभावविरुद्धोपलब्धिरिति / प्रतिषेध्यस्यार्थस्य यः स्वभावः स्वरूपं तेन सह यत्साक्षाद्विरुद्धं तस्योपलब्धिःस्वभावविरुद्धोपलब्धिःएतामुदाहरन्ति नास्त्येव सर्वथैकान्तोऽनेकान्तस्योपलम्भादिति / स्पष्टो हि सर्वथैकान्तानेकान्तयोः साक्षाद्विरोधो भावाभावयोरिवानन्वयमलुपलब्धिहेतुरेवयुक्तो यावान् कश्चित्प्रतिषेधः स सर्वोपलब्धिरितिवचनादिति चेत्तन्मलीमसमुपलम्भाभावस्यात्र हेतुत्वेनानुपन्यासात्। अथ विरुद्धयोः सर्वथैकान्तानेकान्तयोर्वतिशीतस्पर्शयोरिव प्रथमं विरोधः स्वभावानुपलब्ध्या प्रतिपन्न इत्यनुपलब्धिमूलत्वात्स्वभावविरोधोपलब्धेरनुपलब्धिरूपत्वं युक्तमेवेति चेत्तर्हि साध्यधम्मिणि भूधरादौ साधने च धूमादावध्यक्षीकृते सतीदमप्यनुमान प्रवर्तते इति प्रत्यक्षमूलत्वात् इदमपि प्रत्यक्षं किं नस्यात्। विरुद्धोपलब्धेराद्यप्रकारं प्रदर्श्य शेषानाख्याति / प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षडिति प्रतिषेध्येनार्थेन सह ये साक्षाद्विरुद्धास्तेषां ये व्याप्तादयो व्याप्यकार्यकारणपूर्ववरोत्तरचरसहचरास्तेषामुपलब्धयः षड् भवन्ति / विरुद्धव्याप्तोपलब्धिर्विरुद्धकार्योपलब्धिर्विरुद्धकारणोपलब्धिर्विरुद्धपूर्वचरोपलब्धिर्विरुद्धोत्तरचरोपलब्धिर्विरुद्धसहचरो पलब्धिश्चेति / क्रमेणासामुदाहरणान्याहुः / विरुद्धच्याप्तोपलब्धिर्यथा नास्त्यस्य पुंसस्तत्वेषु निश्चयस्तत्र संदेहादिति। अत्र हि जीवादितत्वगोचरो निश्चयः प्रतिषेध्यस्तद्विरुद्धश्वानिश्चयस्तेन व्याप्तस्य संदेहस्योपलब्धिः / विरुद्धकार्योपलब्धिर्यथा न विद्यतेऽस्य क्रोधाद्युपशान्तिर्वदनविकारादेरितिवदन-विकारस्ताम्रतादिरादिशब्दादधरस्फुरणादिपरिग्रहः / अत्र च प्रतिषेध्यः क्रोधाद्युपशमस्तद्विरुद्धस्तदनुपशमस्तत्कार्यस्य वदनविकारादेरुपलब्धिः। विरुद्धकारणोपलब्धिर्यथा नास्य महर्षेरसत्यं वचः समस्ति रागद्वेषकालुष्याकलङ्कितज्ञानसंपन्नत्वादिति प्रतिषेध्येन ह्यसत्येन सह विरुद्धं सत्यं तस्य कारणं रागद्वेषकालु-ष्याकलङ्कितज्ञानं तत्कुतश्चित्सूक्ताभिधानादेः सिद्ध्यत्सत्यं साधयति। तच सिध्यदसत्यं प्रतिषेधति विरुद्धपूर्वचरोपलब्धिर्यथा नोद्गमिष्यति मुहूर्तान्तेपुष्यतारा रोहिण्युदमादिति / प्रतिषेध्योऽत्र पुष्यतारोद्गमस्तद्विरुद्धो मृगशीर्षोदयस्तदनन्तरं पुनर्वसूदयस्यैव भावात्। तत्पूर्वचरो रोहिण्युदयस्तस्योपलब्धिर्विरुद्धोत्तरचरोपलब्धिर्यथा नोदगान्मुहूर्तात्पूर्व मृगशिरः पूर्वफाल्गुल्युदयादिति / प्रतिषेध्योऽत्र मृगशीर्षोदयस्तद्विरुद्धो मघोदयोऽनन्तरमाोदयादेरेवभावात्तदुत्तरचरः पूर्वफल्गुन्युदयस्तस्योपलब्धिर्विरुद्धसहचरोपलब्धिर्यथा नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति प्रतिषेध्यन हि मिथ्याज्ञानेन सह विरुद्धं सम्यग्ज्ञानं तत्सहचरं सम्यग्दर्शनं तच प्राण्यनुकम्पादेः कुतश्चिल्लिङ्गात्प्रसिध्यत्सहचरं सम्यग्ज्ञानं साधयति / इयं च सप्तप्रकारापि विरुद्धोपलब्धिः / / प्रतिषेध्येनार्थेन साक्षाद्विरोधमाश्रित्योक्ता परंपरया विरोधाश्रयणेन त्वनेकप्रकारा विरुद्धोपलब्धिः संभवत्यत्रैवाभियुक्तैरन्तभावनीया। तद्यथा कार्यविरुद्धोपलब्धियापकविरुद्धोपलब्धिः कारणविरुद्धोपलब्धिरिति त्रयं स्वभावविरुद्धोपलब्धौ / तत्र कार्य वि .