SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ उवलंभ 140- अमिधानराजेन्द्रः - भाग 2 उवलद्धि उवलंभ पुं०(उपलम्भ) उप-लभ-घञ्-मुम्। लाभे,विशे०। ज्ञाने च। | जीवाद्युपलम्भो वाच्यः। आ०म०प्र०। उवलद्ध त्रि०(उपलब्ध) उप-लभ-क्त। परिज्ञाते, "अह णं स होइ उवलद्धो, तो पेसंति तहाभूएहिं अन्नाउच्छेद पेहेहिं" सूत्र०१ श्रु०४ अ० २उ०। यथावस्थितस्वरूपेण विज्ञाते, दशा०१०अ०। रा०। उवलद्धपुण्णपाव त्रि०(उपलब्धपुण्यपाप) उपलब्धे यथावस्थितस्वरूपेण विज्ञाते पुण्यपापे येन स उपलब्धपुण्यपापः / तत्वतो विज्ञातपुण्यपापे, दशा० 10 अ०रा०। उवलद्धि स्त्री०(उपलब्धि) उपलम्भनमुपलब्धिः ज्ञाने, विशे०| उपलब्धिः पञ्चविधा "सारिक्खविवक्खे विवक्खोभवे ओवमा गमतो य"उपलब्धिः सादृश्यतो विपक्षत उभयधर्मदर्शनत औपम्यत आगमतश्च / / अधुना सादृश्यतो विपक्षतश्चोपलब्धिमाहसारिक्खविवक्खेहिय, लभति परोक्खेवि अक्खरं कोई। सवलेरबाहुलेरा, जह अहि नउला य अणुमाणे // कश्चित्परोक्षेऽप्यर्थे सादृश्यादक्षरं लभते यथाशावलियबाहुलेयाक्षराणि तथाहि कश्चित् शावलेयं दृष्ट्वा तत्सादृश्यात्परोक्षेऽपि बाहुलेये तदक्षराणि लभते / ईदृशो बाहुलेय इति तथा कश्चिद्वैपक्ष्येण परोक्षेऽर्थे तदक्षरं लभते / यथा अहिदर्शनान्नकुलानुमाने नकुलदर्शनाद्वा सप्पानुमाने / संप्रत्युभयधर्मदर्शनत उभया क्षरलब्धिमाहएगत्थे उवलद्धे, कम्मि वि उभयत्थ पचओ होइ। अस्सतरे खरसाणं, गुलदहियाणं सिहरिणीए॥ कस्मिंश्चिदुभयधर्मा याऽनुमितिः उभयावयवयोगिनि वा एकस्मि-अर्थे , उपलब्धे उभयत्र परोक्षे प्रत्ययस्तदक्षरलाभो भवति यथा अश्वतरे वेगसरे दृष्ट खरस्य अश्वस्य च प्रत्ययस्तदक्षरलाभो यथा वा सिखरिण्यामुपलब्धायां गुडदध्नः प्रत्ययो गुडदध्यक्षरलाभः। औपम्यत उपलब्धिमाहपुटवं पि अणुवलद्धो, धिप्पइ अत्थो उ कोइ ओवम्मा। जह गो एवं गवयो, किंचिविसेसेण परिहीणो।। पूर्वमनुपलब्धोऽपि कोऽप्यर्थ औपम्याद् गृह्यते यथा गोरैवं गवयो नवरं किंचिद्विशेषेण परिहीनः कम्बलकविरहित इत्यर्थः / अत्रेयं भावना यथा गौस्तथा गवय इति श्रुत्वा कालान्तरेणाटव्यां पर्यटन् गवयं दृष्ट्वा गवयोऽयमितियदक्षरजातं लभते एषा औपम्योपलब्धिः। इदानीमागमत उपलब्धिमाहअत्तागमप्पमाणेण, अक्खरं किंचि अविसयत्थेवि। भविया भविया कुरवो, नारगदिवलोय मोक्खो या / / आप्ताः सर्वज्ञास्तत्प्रणीतआगम आप्तागमः स एव प्रमाणमातागमप्रमाणं तेन अविषयेऽप्यर्थे किंचिदक्षरं लभते यथा भव्योऽभव्यो देवकुरव उत्तरकुरवो नारका देवलोको मोक्षः चशब्दादन्येच भावा / इयमत्र भावाना। आप्तागमप्रामाण्यवशात्तस्मिन् तस्मिन् वस्तुनि योऽक्षरलाभो यथा भव्य इति अभव्य इति देवकुरव इत्यादिसा आगमोपलब्धिः / एषा सर्वाप्युपलब्धिः संज्ञिनां भवति असंज्ञिनांतु का वार्तेत्यतआह.. उस्सनेण असन्नीण, अत्थं लंभे वि अक्खरं नत्थि। अत्थो चिय सन्नीणं तु, अक्खरं निच्छए भयणा / / असंज्ञिनामर्थलाभेऽपि अर्थदर्शनेऽप्युत्सन्नेन एकान्तेन नास्त्य क्षरलाभः तथाहि शशशब्दं श्रुत्वाऽपि न तेषामेषा लब्धिरुपजायते यथायं शतशब्द इति एवं शेषेन्द्रियेष्वपि भावनीयम् / संज्ञिनां पुनरर्थ एवाक्षरमोंपलम्भकालएवाक्षरलाभोयथा शङ्खशब्द इति निश्चये पुनर्भजना शङ्खशब्द एवायंशाङ्गशब्द एवायमिति वा निश्चयगमनं स्याद्वानवा एवं शेषेन्द्रियेष्वपि भावनीयम्॥ वृ०१उ०। अथोपलब्धिं प्रकारान्तरतो दर्शयति / उपलब्धेरपि द्वैविध्यमविरुद्धोपलब्धिर्विरुद्धोपलब्धिश्चेति / न केवलमुपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वेन हेतोर्द्वविध्यमित्यपेरर्थः अविरुद्धोऽविरुद्धश्चात्र साध्येन सार्द्ध द्रष्टव्यस्ततस्तस्योपलब्धिरिति / आद्याया भेदानाहुः / तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढेति / / तानेव व्याख्याति / साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्खचरोत्तरचरसहचराणामुपलब्धिरिति / ततो व्याप्या विरुद्धोपलब्धिः कार्याविरुद्धोपलब्धिः कारणाविरुद्धोपलब्धिः पूर्वचराविरुद्धोपलब्धिः उत्तरचराविरुद्धोपलब्धिः सहचराविरुद्धोपलब्धिरितिषट्-प्रकारा भवति। तत्र हि साध्य शब्दस्य परिणामित्वादितस्याविरुद्धं व्याप्यादि प्रयत्नान्तरीयकत्वादि वक्ष्यमाणं तदुपलब्धिरिति। अथ भिक्षुर्भाषते। विधिसिद्धौ स्वभावकार्ये एव साधने साधीयसी न कारणं तस्यावश्यतया कार्योत्पादकत्वाभावात्प्रतिबद्धावस्थस्य मुर्मुरावस्थस्य वा धूमस्यापि धूमध्वजस्य दर्शनात् / अप्रतिबद्धसामर्थ्यमुग्रसामग्रीकं च तद्गमकमिति चेदेवमेतत्किं तु नैतादृशमर्वाग्दृशावसातुं शक्यमिति तन्निराकतु कीर्तयन्ति / तमस्विन्यामास्वाद्यमानादामादिफलरसादेकसामग्रयनुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसाकल्यं चेति / तमस्विन्यामिति रूपाप्रत्यक्षत्वसूचनाय शक्तेरप्रतिस्खलनं सामर्थ्यस्याप्रतिबन्धः / अपरकारणसाकल्यंशेषनिः शेषसहकारिसंपर्कः रजन्यां रस्यमानात्किल रसात्तजनकसामग्यनुमानं ततोऽपि रूपानुमानं भवति / प्राक्तनो हिरूपक्षणः सजातीयरूपान्तरक्षणलक्षणं कार्यं कुर्वन्नेव विजातीयं रसलक्षणं कार्य करोतीति प्राक्तनरूपक्षणात्सजातीयोत्पाद्यरूपक्षणान्तरानुमानं मन्यमानैः सौगतैरनुमतमेव किंचित्कारणं हेतुर्यस्मिन् सामाप्रतिबन्धः कारणान्तरसाकल्यं च निश्चेतुं शक्यते / / अथ तन्नैतत्कारणात्कार्यानुमानं किं तु स्वभावानुमानमदः ईदृशरूपान्तरोत्पादसमर्थमिदं रूपमीदृशरसजनकत्वादित्येवं तत्स्वभावभूतस्यैव तज्जननसामर्थ्यस्यानुमानादिति चेन्नन्वेतदनि प्रतिबन्धाभावकारणान्तरसाकल्यनिर्णयमन्तरेण नोपपद्यत एव तन्निश्चये तु यदि कारणादेव कस्मात्कार्यमनुमास्यते तदा कि नाम दुश्चरितं चेतस्वी विचारयेत् / एवमस्त्यत्र छायाछत्रादित्यादीन्यव्यभिचारनिश्चयादनुमानान्येवेत्युक्तं भवति / अथ पूर्वचरोत्तरचरयोः स्वभावकार्यकारणहेत्वनन्तरभावाद्वेदान्तरत्वं समर्थयन्ति / पूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावौ तयोः कालव्यवहितानुपलम्भादिति। साध्यसाधनयोस्तादात्म्येसति। स्वभावहेतौ तदुत्पत्तौ तु कार्ये कारणे वाऽन्तर्भावो विभाव्यते नचैतत्तादात्म्यं हेतु समसमयस्य प्रयत्नानन्तरीयकत्वपरिणामित्वादेरुपपन्नं तदुत्पत्तिश्चान्योन्यमव्यवहितस्यैव धूमधूमध्वजादेः समधिगता नतु व्यवहितकालस्यातिप्रसक्तेः / ननु कालव्यवधानेऽपि कार्यकारणभावो भवत्येव। जाग्रबोधप्रबोधयोमरणारिष्टयोश्च तथा दर्शनादिति प्रतिजानानं प्रज्ञाकरं प्रतिक्षिपन्ति / नचातिक्रान्तानागतयोर्जाग्रद्दशासंवेदनमरणयोः प्रबोधोत्पत्तौ प्रति कारणत्वं व्यवहितत्वेन नियापारत्वादिति / अयमर्थः जाग्रद्दशासंवेदनमतीतं सुप्तावस्थोत्तरकालभाविज्ञानं वर्तमान प्रतिमरणं वा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy