________________ उवरोह ६३८-अभिधानराजेन्द्रः - भाग 2 उवरोह अथ पत्तेयसमणदिक्खियत्ति पदं व्याख्याति / पासंडी पुरिसाणं, पासंडित्थीण वा वि पत्तेगो। पासंडित्थियमाणव, एक्कतो होतिमा जयणा // पाखण्डिस्त्रीणां पाखण्डिपुरुषाणां वा प्रत्येकं स्थितानां पाख--- ण्डिस्त्रीपुरुषाणामेकतः स्थितानां वा इयं यतना भवति। जेजह असोयवादी, साधम्मीवा विजत्थबाहिं वा। सा णिहुयाय हुद्दकालेण, दुग्गहोणावसज्झाओ।। ये यथा अशौचवादिनो ये च जीवादिपदार्थास्तिक्यवादित्वेनैकवाक्यत्वेन च साधूनांसाधर्मिकास्तेषु तेषां मध्ये साधुभिर्वासः कर्तव्यः यदा चतत्र द्वयोरपिशैल्ययोः शुद्धकालो भवति तदा निभृता नियापारा भवन्ति / इदमेव व्याचष्टे न विग्रहाः स्वपक्षेण परपक्षेण या सह कलहो न कर्तव्यो नैव च तदानीं स्वाध्यायो विधेयः / गता वसतियतना / भक्तार्थयतनापि पउरदवछड्डगाई इत्यादिना तदेवोक्ता। अथ स्थण्डिलयतनामाह! तं चेव पुव्व भणितं, पत्तेयं दिस्समाण कुरुकुयाय। थंडिल्लसुक्खहरिए, पवायपासे पदेसेसु।। स्थण्डिलं तदेव पूर्वभणितम् "अणावायमसंलोए'' इत्यादिना यथा पीठिकायामुक्तं तथैवात्रापि मन्तव्यम् / प्रथमस्थण्डिलाला भे शेषेषु गच्छतां प्रत्येकं मात्रकग्रहणं भवति सागारिकेण च दृश्यमाने कुरुकुर्या कर्तव्या एवं बहिः स्थण्डिले लभ्यमाने यतना अथ बहिर्न लभ्यते निर्गन्तुं ततो यन्नगराभ्यन्तरे स्थण्डिलमनुज्ञातं तत्र यानि तृणानि शुष्कानि तेषु व्युत्सृजति तेषामभावेदरमलिनेषु मिश्रेषु तदप्राप्तौ हरितेषु सचित्तेष्वपि व्युत्सृजति / अत्र च प्रत्येकानन्तस्थिरास्थिरादियतना सर्वाऽपि कर्तव्या / यथैव नियुक्तौ भणिता। अथ प्रपातेगांयां नदीतटेप्राकारोपरि वाराज्ञाऽनुज्ञातं ततएतेषां पार्श्वे व्युत्सृजन्ति यदि सर्वथैव स्थण्डिलं न लभ्यते अधश्च भूमिं न पश्यन्ति ततो गर्तादिप्रदेशेष्वपि व्युत्सृजन शुद्धः "अथ पत्तेयदिस्समाणो कुरुपायत्ति' पदं व्याख्याति // पढमा सइ अमणुण्णे, तरणे गिहियाणवा दि आभोग। पत्तेयमत्तकुरुकुय, दिवं च पउरं गिहत्थेसु / / तेण परं पुरिसाणं, असोयवादीणवचआवातं। इत्थी नपुंसकेसु वि, परं सुहो कुरुकुया सेव / / गाथाद्वयमपि पीठिकायां व्याख्यातम् एषा उच्चारयतना भणिता।। अथ शरीरे विवेचनयतनामाहपच्छण्णपुय्वभणियं, विदिण्णथंडिल्लसुक्कहरिएय। अगडवरंडगदीहिय, जलाण पासे पदेसेसु / / यद्यसौ कालं गतः साधुस्तत्र केनापि न ज्ञातस्ततोऽन्तर्मुहूर्तप्रमाणे उपयोगकाले अतीते अन्यलिङ्गं कृत्वा प्रच्छन्नमल्पसागारिकं स्थण्डिले परिष्ठाप्यते अथ ज्ञातस्तदा (पुव्वभणियत्त) यदि नगरान्निर्गमो न लभ्यते प्रत्यपायो वा निर्गतानां भवति ततो नगराभ्यन्तरे पूर्व मिहै व मासकल्पप्रकृते परिष्ठापनिका नियुक्तौ वायो भणितो विधिस्तेनोपाश्रये वाऽपरदक्षिणस्यां दिशि परिष्ठापयन्ति / अथ तस्यां न लभ्यते ततो राजवितीर्णमनुज्ञातं यत् स्थण्डिलं तत्र परिष्ठापयन्ति। अथ स्थण्डिले हरितानि भवन्ति ततः शुष्कतृणेषु तदभावे मिश्रेषु तदप्राप्तौ हरितेष्वपि परिष्ठापयन्ति। अथ राज्ञाभिहितं सर्वैरपि पाषण्डिभिरगडे गर्तायां शवं परित्यक्तव्यं प्रकारवरण्डके वा दीर्घिकायां वा नद्यां वहन्त्यां ज्वलति प्रक्षेप्तव्यं ततएतेषां पार्चे परिष्ठापयन्ति। अथन लभ्यतेपार्श्वतः परित्यक्तुं ततो धर्मास्तिकायादिप्रदेशेषु परिष्ठापयामीति वुद्धिं कृत्वा तत्रैव प्रक्षिपन्ति / अथ राज्ञा वितीर्णे स्थण्डिले परिष्ठापनाविधिमाह / / अन्नाए परलिंग, उवओगंवा तुलेतुमामेत्थं / णाते उड्डाहो वा, अयसो पत्थार दोसो वा / / यद्यसौ तत्राज्ञातस्तदा परलिङ्गं क्रियते तच्चोपयोगाद्वा सान्तर्मुहूतलक्षणं तोलयित्वा प्रतीक्ष्य कर्तव्यं नो मिथ्यात्वं गमिष्यामीति कृत्वा यो जनज्ञातस्तत्र परलिङ्ग न करोति मा उड्डाहो भवेत् उड्डाहो नाम एते मायावन्तः पापा वानपरोपघातकारिणश्चेति इत्थं तेषा-मुड्डाहे जायमाने प्रवचनस्याप्ययशः प्रवादो भवति प्रस्तारदोषश्चकुलगणसंधविनाशलक्षण उपजायते। एतद्दोषपरिहरणार्थं स्वलिंङ्गे नैव परिष्ठाप्यते। अथ भिक्षाद्वारमाहनवि को वि कवि पुच्छति, णितंब हिअंब अंतो वा। आसंकिते पडिसेहो,णिक्कारणकारणे उ जतणे य॥ बोधके अन्तर्नगराभ्यन्तरादहिर्निर्गच्छन्तं बहिः कटकाद्वानगरान्तःप्रवशिन्तं न कोऽपि कंचित्पृच्छति। तत्र स्वेच्छया बहिरन्तर्वा भिक्षामटन्ति। यत्र पुनराशङ्कितंक एषकुतोवा आगतो वेश बहिर्गतः सन् किमपि कथयिष्यति किमर्थं वा निर्गच्छति। ईदृशे आशङ्किते निष्कारणे प्रतिषेधेनगन्तव्यं कारणे तुयतनावक्ष्यमाणा भवति। इदमेव भावयति / पउरण्णपाणगमणा, चउरो मासा हवंति णुग्धाया। * मोत्त इयरे य चत्ता, कुलगणसंघाय पत्थारे॥ प्रचुरानपाने लभ्यमाने यदि बहिर्गच्छति तदा चत्वारो मासा अनुद्धाता भवन्ति आज्ञादयश्च दोषास्तेन साधुना स स्वकीय आत्मा इतरे वाऽभ्यन्तरवर्तिनः साधवः परित्यक्ता भवन्ति तत्र स बहिः सैन्ये गतः पृच्छ्यमानेऽपि यदा किमपि नाख्यातितदाचारकोऽयमिति मत्वा गृह्यते। अभ्यन्तरवर्तिनस्तु अमीषां सहायिनः प्रव्रजितोऽयं निर्गतस्तेन भेदः प्रदत्त इति कृत्वा गृह्यन्ते। एवं कुलगणसं घप्रस्तारोऽपि राज्ञा क्रियते ततो निष्कारणे न गन्तव्यम्। अंतो अलब्भमाणे, असणमाईसु होति जइतव्वं / जावंतिए विसोधी, असव्दमादी अलामे वा।। अन्तर्मध्ये प्रासुकैषणीये अलभ्यमाने पञ्चकपरिहाणिक्रमेणैषणादिषु दोषेषु नगराभ्यन्तर एव यतितव्यं यावत् यावन्तिकादिरूपेषु विशोधिकोटिदोषेषु यतमानश्चतुर्लघुप्राप्तो भवति तथाप्यलम्भे अमात्यमादिशब्दाद्वा न श्रद्धान् श्रद्धादीन् वा प्रज्ञापयन्ति ते यद्यविशोधिकोटिदोषैर्दुष्टं प्रयच्छन्ति तदा तदपि गृह्यते न पुनर्बहिगन्तव्यमा अथ तथापिन लभ्यते ततः।। आपुच्छित आरक्खित,सेट्ठी सेणावती रायाणं। णिग्गमणविट्ठडूवे, भासा य तहिं असावज्जा।। आरक्षिकः कोट्टपालस्तमागच्छन्ति / वयमत्र संस्तरामस्ततो बहिनिर्गच्छतां द्वारं प्रयच्छत यद्यसौ ब्रूयात् मा निर्गच्छत / अहं भवतां पर्याप्तं दास्यामि ततो गृह्यते / अथं ब्रूयात् नास्ति में किंचिद्भक्तं दातव्यं युष्मांश्च विसर्जयन् राज्ञो विभेमि। ततः श्रेष्ठिनं पृच्छत ततः श्रेष्ठिनमापृच्छन्ति / एवं सेनापतिममात्ये राजान वा पृच्छन्ति ततो यदि राज्ञाऽपि विसर्जितास्तदा निर्गम