________________ उवरोह 637 - अभिधानराजेन्द्रः - भाग 2 उवरोह यो वाकृतयोगः सहस्रयोधी तेन तादृशे आकम्पे गच्छसंरक्षणार्थं करणं शिक्षणं तेषां विधेयम् / गतं संवरद्वारम्। अथ नगराधकद्वारमाहसवठ्ठणग्गयाण, णियट्टण अट्टरोहजयणाए। वसही भत्तट्ठणया,थंडिलविमिंचणो भिक्खो॥ त्ये मासकल्पप्रायोग्या क्षेत्रान्निर्गत्य संवर्तेस्थितास्ते संवर्त्तनिर्गता उच्यन्ते तेषां तत उत्थितानामवस्कन्दादिभयेन भूयोऽपि सवन्निगरं प्रतिनिवर्तना भवति / यद्वा ग्लानादिभिः कारणैः प्रथममेव नगरान्त निर्गतास्ततो नगरवसतावष्टौमासान रोधके यतनया वस्तव्यं / भवति सा च यतना वसतिभक्तार्थनथण्डिलविवचनभैक्ष्यविषया कर्तव्या। तत्र वसतियतनां तावदाहहाणीजाते कट्टा, दो दारा कडगचिलिमिली वसभा। तं चेव एगदारे, मत्तगसुविणं व जयणाए। रोधके तिष्ठद्भिरष्टौ वसतयः प्रत्युपेक्षणीयास्तासु प्रत्येकमृतुबद्धे मासं मासमासितव्यं अष्टानामलाभे सप्तएवं चान्या तावद्वक्तव्यं यावत् संयतानां संयतीनां च (एकट्टति) एकैव वसतिर्भवति। तत्रैकस्यां वसतौ स्थितानां द्वे द्वारे भवतः। अथान्तराले कटकचिलिमिलिका वा वृषभाः कुर्वन्ति / अथ द्वारद्वयं न भवति तत एकद्वारे तमवधिं कुर्वन्ति। कायिकभूमेरप्यभावे मात्रकेण यतन्ते यतनया च स्पप्नं कुर्वन्ति / इति नियुक्तिगाथा समासार्थः। अथ भाष्यकार एनामेव विवृणोतिरोहे उ अद्धमासे, वासासु सुभूमितोणि वा अंति। परबलरद्धेवि पुरे, हाविंतिणि मास कप्पंतु / / अष्टावृतुवद्धिकान् मासान् रोधयित्वा रोधं कृत्वा ततो वर्षासुनृपाः स्वभूमिमात्मीयराज्यभुवं गच्छन्ति साधवश्व रोधके वसन्तः परबलरुद्धेऽपि पुरे मासकल्पं न हापयन्ति किंतु तत्र प्रथमत एवाष्टौ वसतयोऽष्टौ भिक्षाचर्याः प्रत्युपेक्षणीयाः। अथाष्टौ न प्राप्यन्ते ततः भिक्खस्स व वसहीए. असती सत्तेव चउरोजा। वेकालंभालंभे, एकेकगस्साणगाउ संजोगा। भैक्ष्यस्य वा वसतेर्वा असति सप्त प्रत्युपेक्षणीयास्तदप्राप्तौ षडादिपरिहाण्या चतस्रो यावदेका प्रत्युपेक्षणीया। किमुक्तं भवति वसतयो भिक्षाचर्याश्च यद्यष्टौ न प्राप्यन्ते तत एकै कपरिहाण्या यावदेका वसतिरेकाभिक्षाचर्या / अत्र चएकैकस्यालाभे अलाभे वा अनेके संयोगा भवन्ति / तथाहि अष्टौ वसतयो ऽष्टौ भिक्षाचर्याः, अष्टौ वसतयः | सप्तभिक्षाचर्याः, अष्टौ वसतयः षभिक्षाचर्याः, एवं यावदष्टौ वसतय, एकाभिक्षाचर्या, एवमष्टौ भङ्गा भवन्ति एते चवसतेरष्टकमश्नुवतालब्धाः सप्तकादिभिरप्येककपर्यन्तैरेवमेवाष्टावष्टौ भङ्गा लभ्यन्ते सर्वसंख्यया भङ्ग कानां चतुःषष्टिरुत्तिष्ठते। चतुष्षष्टितमश्च भङ्गक एका वसतिः एका / भिक्षाचर्येति लक्षणः / साचैका वसतिः संयतानां संयतीनां च पृथक् भवति / अथोभयेषामपि योग्या वसतिः प्रत्येकं नावाप्यते तत एकत्रापि वस्तव्यम्। तत्र यतनामाह-- एगत्थ वसंताणं, पिह दुवारासतीयसयकरणं। मज्झेण कडगचिलिमिलि, तेसुन उथेरखुड्डीतो // संयतानां संयतीनां च एकत्र वसतामियं यतनाये द्वित्रिचतुःशालादिकं पृथक् द्वारं तद्गृहं तदा तत्रान्तरे कटकं चिलमिलीं वा दत्वा तिष्ठन्ति। / पृथक्द्वारस्याभावे (सयकरणंति) स्वयमेव कुड्यं छित्वा द्वितीयं द्वारं | कर्त्तव्यं गृहमध्येचि कुड्याभावे कटकचिलिमिलिका वा दातव्या तयोश्च कटकस्य चिलिमिलिकाया वा आसन्नयोरुभयोः पार्श्वयोर्भागादेकस्मिन् स्थविराः साधवो द्वितीये च क्षुल्लिकाः संयत्यो भवन्ति / एतच्चाने व्यक्तीकरिष्यते // अथ तंचेव एगदारेत्ति' पदं व्याख्यातिदारदुयस्स तु असती, मझेदारस्स कडगजुत्ती वा। णिक्खमपवेसवेला, ससहपिंडेण सज्झातो।। यदि द्वारद्वयं न भवति स्वयं च पृथक्वारं कर्तुं न लभ्यते / ततस्तस्यैकद्वारस्य मध्ये कटकं पोत्तिकां वा चिलिमिलीं दत्वा द्विधा विभजनं विधेयम् / तत्रार्द्धन साधवो निर्गच्छन्ति अर्द्धन संयत्य इति / अथ संकीर्ण सा वसतिः नवा विभक्तं लभ्यते ततः परस्पर निर्गमप्रवेशवेलायां वर्जयन्ति यस्य वेलायां संयता निर्गच्छन्ति तस्यां न संयत्य इति निर्गच्छन्तश्च शब्दं कुर्वन्ति पिण्डे न च स्वाध्यायं कुर्वन्ति शृङ्गारकथां न कुर्वन्ति। न वा पठन्ति / अथ स्वप्नं च यतनयेति पदं व्याचष्टे / / अंतम्मि व मज्झम्मिव,तरुणी तरुणा य सव्वबाहिरतो। मज्झे मज्झिमथेरा, खुड्डीखुड्डा य थेरा य / / यास्तरुण्यस्ता अन्ते वा मध्ये वा भवन्ति तरुणास्तु सर्वे बाह्यतः कर्तव्याः ततो मध्ये मध्यमाः स्थविराः क्षुल्लिकाश्च साध्ययस्ततः क्षुल्लकाः स्थविराश्चशब्दान्मध्यमास्तरुणाश्च भवन्तीत्यक्षरार्थः भावार्थस्तु वृद्धविवरणादवगन्तव्यः / तचेदम् / "तरुणीओ अंते वा सुविनंति मज्झे व तत्थ अंते ताव भन्नइ एगम्मितरुणी उवविजंति तासिं आरता मज्झिमातो तासिं आरतो वेरीउ तासिं आरतो खुड्डीतो खुड्डीणं आरतो थेरा थेराणं आरतो खुड्डा / तेसिम्मि आरतो मज्झिमा तेसिं आरतो तरुणा एवं नवेतरुणीओ तरुणाय अंते जाया इयाणिं जइ मज्झे तरुणीओ उवविजंतितोतासिंउभयतोमज्झिमिया उतासिंबाहिंथेरीओ तासिं बाहिं थेरा तासिं उभयतो खुड्डीओ तासिं परिक्खोवण थेरा तेसिं उभओ खुड्डा तेसिं बाहिं मज्झिमा तेसिं परिखोवणतरुणाए सारत्ति वसंताण जयणत्ति॥ अथ मात्रकपदं व्याख्यातिपत्तेयसमणदिक्खिय-पुरिसाइत्थी य सव्वएगत्थ। पच्छण्णकडगचिलिमिलि, मज्झे वसभा य मत्तेणं / / यत्रोपाश्रयाणामल्पतया राजकीय आदेशो भवेत्ये केचित्पाषण्डिनस्ते सर्वेप्येकत्रैव तिष्ठतामिति तत्र यदि प्रत्येकाः स्त्रीवर्जिताः निर्गन्था शाक्यादयो दीक्षितपुरुषाः सर्वेप्येकस्यां वसतौ स्थिताः याश्च पाषण्डिन्यः स्त्रियस्ता अपि सर्वा एकत्र स्थितास्ततइयं यतना। यः प्रच्छन्नः प्रदेशस्तत्र साधुभिः साध्वीभिश्च स्थातव्यं प्रच्छन्नस्याभावे मध्ये कण्टकं चिलिमिलिकां वा वृषभाः कुर्वन्ति कायिकभूमेरभावे दिवा रात्रौ च मात्राकरणे वृषभा यतन्ते! पच्छन्नअसतिनिण्हग, वोड्डियमिक्खूआसोयसोयाय। पउरदव्वछडगादि, गरहायसअंतरं एको। प्रच्छन्नस्य कण्टकचिलिमिलिकयोश्चाभावे निहवेषु तिष्ठन्ति तदभावे वोटिकेषु तदप्राप्तौ भिक्षुकेषु एतेष्वपि पूर्वमाशोचनादिषु च स्थिता आचमनादिषु क्रियासु प्रचुरद्रव्येण कार्यं कुर्वन्ति छडकं कमठकं तत्र भुञ्जते आदिशब्दादपरेणापि येन ते शौचवादिनो जुगुप्सां न कुर्वन्ति तस्य परिग्रहः / एवं प्रवचनस्यागर्हा परिहृता भवति सान्तरं चोपविष्टा भुञ्जते (एगोत्ति) एकः क्षुल्लकादिः कमठकानां कल्पं करोति।