________________ उवरोह 936 - अभिधानराजेन्द्रः - भाग 2 उवरोह वादिकं प्रतिपदं प्ररूपितं भवति तदा तत्र सेनया अधिकारः कर्तव्यः / अशिवादिकं च प्रथमोद्देशके अध्वसूत्रे सप्रपश्चं प्ररूपितमिति नेत्र भूयःप्ररूप्यते। तब परचक्रागमनं यथा ज्ञायते था दर्शयति॥ अतिसयदेवत्तणिमि-तमादि अवितहपवित्तिमोत्तूणं। निग्गमणो होइ पुटवं, अणागते रुहवोच्छिण्णे // अवधिज्ञात्वाद्यतिशयेन स्वयमेव ज्ञातं अपरेण वा अतिशयज्ञा-निना पूष्टेन कथितं देवतया वा कयाचिदाख्यातं अविसंवादिना वा निमित्तेनाऽवगतम् आदिग्रहणेन विद्यामन्त्रादिपरिग्रहः / अथवा वा प्रवृत्तिर्वार्ता तामवितथां श्रुत्वा ततः क्षेत्रात्पूर्वमेव निगमनं कर्तव्यं भवति। अथानागतं न ज्ञातं सहसैव तन्नगरं रुद्धं पन्थानो व्यवच्छिन्नास्ततो न निर्गच्छेयुरपि। अथवा अमीभिः कारणैातेऽपि न निर्गमिताः भवेयुः। गेलन्नरोगिअसिवे,रायदुढे तहेव ओसम्मि। उवही सरीरतेणग-णाते विण होइ णिग्गमणं / / ग्लानो ज्वरादिपीडितः कश्चिदस्ति तत्प्रतिबन्धेन गन्तुं न शक्यते (रोगित्ति) दुष्टरोगेण कुष्ठादिना कश्चिदत्यन्तमभिभूतः सपरित्यर्बुनपार्यते बहिर्वा अशिवं राजद्विष्टमवमौदर्य वा विद्यते उपविस्तेनाः शरीरस्तेना वा बहिर्गच्छत उपद्रवन्ति एतैः कारणैतिऽपि परचक्रागमने निर्गमनं न भवति। एएहिय अण्णेहि य, ण णिग्गया कारणेहि बहुएहिं। अच्छंति होइ जयणा, संवत्ते णगररोधे य॥ एतैरन्यैश्च बहुभिः कारणैर्न निर्गता भवेयुः ततस्तत्रैव तिष्ठतां संवर्ते नगररोधके च यतनाः कर्तव्यासंवर्तो नाम परचक्रागमनं श्रुत्वा स्वरक्षार्थ यत्र जलदुर्गादिषु बहूनां ग्रामाणांजनःसंवर्तीभूयैकत्र तिष्ठति। नगररोधक: प्रतीतस्तत्र संवर्ते यतनामाह। संवदृम्मि तु जयणा, भिक्खे भत्तट्ठणा य वसहीए। तम्मि भए संपत्ते, आवाउडे क्केण वदृति॥ संवर्ते तिष्ठतां भैक्ष्ये भक्तार्थतायां वसतौ च यतना कर्तव्या। तस्मिश्च परचक्रलक्षणे भये संप्राप्ते अपावृता एके न तिष्ठन्तीति नियुक्तिगाथा समासार्थः। सांप्रतमेनामेव विवृणोति। वइयासु व पल्लासु व, भिक्खं काउं वसंति संवट्टे। सव्वम्मि रज्जखोभे, तत्थ वय जाणिथंडिल्ले // संवर्ते अभिनवसन्निविष्टतया सचित्तः पृथिवीकायो भवतीति कृत्वा भिक्षां हिण्डन्ते। किं तु पूर्वस्थितासु द्रजिकासु वा पल्लीसु वा भिक्षां कृत्वा तत्रैव सादले भुक्त्वा रात्रौ संवर्ते समागत्व वसन्ति / अथ सर्वस्यापिराज्यस्य क्षमतो वजिकादिकमपिनास्तितदा तत्रैव संवर्ते यानि तेषु भिक्षां हिण्डन्ते।अथ न सन्ति स्थण्डिले स्थितानि तत इयं यतना। पोपलियसत्तुउदगे, गहहं पडलोवरि पगासमुहे। सुक्खादीण अलंभे, न य चिंता वा सिलाघंति॥ तक्रतीमनादौ आर्द्र प्रपतति पृथुकाप् कायविराधना भवेदिति मत्वा याः पूपलिका ये च सक्तवो यश्च शुष्कौदन एवमादिकं शुष्कद्रव्यं पटलोपरिस्थिते प्रकाशमुखे भाजने गृह्णन्ति अथ शुष्कादीनां लाभो न भवति। आदिशब्दः स्वगतानेकभेदसूचको नच तैरात्मानं पातयन्ति तत आईण गृह्यमाणेन यत्रपटलकादौ खरण्टको लग्नस्तं सम्यक् लक्षयन्ति। गतं भिक्षाद्वारम्। __ अथ भक्तार्थताद्वारमाह। पच्छन्ना सति बहिया, अह समयं तेण चिलिमिली अंतो। असतीए व समयम्मि व, धरति अद्धेयरे मुंजे // संवर्तस्यान्तः प्रच्छन्ने प्रदेशे भक्तार्थन कर्त्तव्यं अथान्तः प्रच्छन्नं नास्ति ततः संवर्तस्य बहिर्गत्वा समुद्देष्टव्यम् अथ बहिः सभयं ततोऽन्तः संवर्तस्याभ्यन्तर एव चिलिमिलिकां दत्वा भोक्तव्यम् / अथ नास्ति चिलमिलिका सभयेवा सान प्रकटीक्रियते / ततोऽर्द्ध साधवो भाजनानि धारयन्ति / इतरे द्वितीया आर्दकमशकेषु भुञ्जते। काले अपहुत्तंते, भए व सत्थे व गंतु कामम्मि / कप्पुपरिभोयणाई, काउं इक्को उपरिवेसो॥ अथवारकेण भुञ्जानानां कालो न पूर्यते भये वात्वरितं भोक्तव्यं यो वा संवर्ते सार्थः स गन्तुकामस्ततः कल्पस्योपरि भोजनानि कृत्वा स्थापयित्वा सर्वेऽपि कमठकादिषु भुञ्जते एकश्च तेषां सर्वेषामपि परिवेषयत्। पत्तेगं वडुगा मंति, मजिलगादेकओ गुरू वीसुं। ओमोणकप्पकरणं, अण्णे गुरुणेकतो वा वि।। प्रत्येकं यदि सर्वेषां वटुकान निमन्त्रितास्ततो ये मन्जिलकाः परस्परंसहोदराभ्रातरः। आदिशब्दादन्येऽपि ये प्रीतिवशेनैकत्र मिलन्ति ते एकतः समुद्दिशन्तिगुरुवोऽपि विश्वग् पृथक्भुञ्जते यदा सर्वेऽपि भुक्ता यस्तत्रावमो लघुस्तेन कमठकानां कल्पकरणं विधेयम् / गुरूणां समक्षं कमठकं तौ सह न मील्येते अन्यस्तस्य कल्पं पृच्छति। अपूर्यमाणेषु साधूनां गुरोश्च कमठकान्येकतोऽपि कल्पयन्ति। भायणस्स कप्पकरणं, हेडिल्लगमुत्तकडुयरुक्खे य / ते असति कमठकप्पर, काउमजीवे पदेसे य॥ भाजनस्य कल्पकरणं दग्धभूमिकायां गोमूत्रभाविते वा भूभागे कटुकवृक्षस्याधस्ताद्वा कर्तव्यम् / तेषां दग्धादिस्थण्डिलानामभावे कमठकेषु घटादिकस्योपरिवा भाजनकल्पं कृत्वा तत्र कल्पानकमन्यत्र नीत्वा स्थण्डिले परिष्ठापयन्ति / गते वा संवर्ते पश्चात्परिभलिनजीवप्रदेशेषु परिष्ठाप्यं सभये वा त्वरमाणाः / स्थण्डिलस्य वा अभावे धर्माधर्मास्तिकायसंबन्धिषु जीवप्रदेशेषु परिष्ठापयामः इति बुद्धिं विधाय अस्थण्डिले परिष्ठापयन्ति / गतं भक्तार्थताद्वारम् / वसतिद्वारमाह। गोणादीवाघातो,अलब्ममाणेव बाहिवसमाणो। वातदिसिसावयभए,अवा उडातेण जग्गणता।। संवर्तस्यान्ते निराबाधे परिमिलिते प्रदेशे वसन्ति अथ तत्र गवादिभिरितस्ततस्तडफडायमानैव्याघातो यद्वा तत्र प्राशुकः प्रप्रदेशो न लभ्यते ततो बहिर्वसतौ यतो घाटिभयं तं भूभागं वर्जयित्वा वसन्ति / अथ तत्र स्वापदभयं ततो यस्यां दिशि वातस्तां वर्जयन्ति येन च परचक्रभयेनतत्र संवर्ते प्रविष्टास्तस्मिन् प्राप्ते सर्वमुपकरणं गुपिले प्रदेशे स्थापयित्वा स्वयमेकतोऽन्यत्र प्रदेशे अपावृताः कायोत्सर्गेण तिष्ठन्ति। स्तेनरक्षणार्थं च वारके ण रजनींसकलामप जाग्रति अथ कस्मादपावृतास्तिष्ठन्तीत्याह। जिणलिंगमप्पडिहयं, अवाउड वा वि दिस्स वखंति। थंभणिमोहणिकरणं, कडजोगे वा भवे करणं / / अचेलतालक्षणं जिनलिङ्ग मप्रतिहतमेवं स्थितानां न कोऽप्युपद्रवं करोतीति भावः / अथवा ते स्तेना अपावृतान् दृष्ट्वा स्वयमेव वर्जयन्ति स्तम्भनीमोहनीविद्याभ्यां च तेषां स्तम्भनमोहने कुर्वन्ति