________________ उवमाण 633 - अभिधानराजेन्द्रः - भाग 2 उवमाण प्रमाणान्तरानिष्पाद्यविशिष्टफलजनकत्वात् प्रमाणान्तरमुपमानम् अत्र प्रतिविधानम्।। उपमानस्य त्वपूर्वार्थाधिगन्तृत्वाभावात् प्रामाण्यमेव न संभवतिनन्वस्यापूर्वार्थविषयता प्रागुपदर्शितैव सत्यमुपदर्शितानतुयुक्ता तथा हि तस्य विषयः सादृश्यादिविशिष्टो गौस्तद्विशिष्टं वा सादृश्यमुपदर्शितं तच भूयोऽवयवासामान्ययोगलक्षणप्रतिपादितं न च सामान्यं तद्योगो वा वस्तु संभवतीति प्रतिपादितं तत्सद्भावेऽपि प्रत्यक्षविषयतया परैस्तस्येष्टिः कथमुपमानगोचरत्वेनागृहीतार्थग्राहित्वं प्रामाण्यनिबन्धनं भवेत् सादृश्यज्ञानस्य चोत्पत्तावयं क्रमः पूर्वं तावद् गोगवययोर्विषाणित्वादिसादृश्यं गवि प्रत्यक्षतः प्रतिपद्यते पश्चात् गवयदर्शनानन्तरं यद्विषाणित्वादिसादृश्यं पिण्डेऽस्मिन्नुपलभ्यतेमया तत् गव्यप्युपलब्धमिति स्मरति तदनन्तरं गवि विषाणित्वादिसादृश्यप्रतिसंधानं जायते अनेन पिण्डेन सदृशो गौरित्येवं च स्मार्तमेतत् ज्ञानं कथं प्रमाणं भवेत्। यदि च गवि प्रत्यक्षेणोभयगतं विषाणित्वादिसादृश्य प्राग् न प्रतिपन्नं भवेत् प्रतिपन्नमपि यदि विस्मृतं भवेत् तदा गवयदर्शने सत्यपिपरोक्षे गवि नैव सादृश्यज्ञानमुपजायेत अतो विषाणित्वादिसादृश्य पूर्वमेव गवि प्रत्यक्षेणावगतमिदानी गवयदर्शनात् तत्रैव स्मर्यते तन्न गृहीतग्राहणात् सादृश्यज्ञानं प्रमाणम् / अथ पूर्वप्रत्यक्षेण गोगतमेव सादृश्यमवगतं गवयदर्शनन तु तद्गतमेवोभयगतसादृश्यप्रत्तिप-त्तिस्तु गवयदर्शनानन्तरं सादृश्यज्ञाननिबन्धनेति अगृहीतग्राहितया प्रमाणमुपमानम् / असदेतत् पूर्वमुभयगतसादृश्यप्रतिपत्तौ गवयदर्शनानन्तरमप्यप्रतिपत्तिस्दनुसंधानप्रतिपत्तेरप्यसंभवात् / न हि गवयपिण्डदर्शनानन्तरं प्रागप्रतिपन्ने तत्सादृश्येऽश्वपिण्डे अनेन सदृशोऽश्वप्रतिपत्तिः कदाचिदपि भवति तस्मात् प्रागध्यक्षावगत-- सादृश्ये प्रतियोगिग्रहणाद्व्यवहारमात्रप्रवृत्तिरेव तदा प्राक्तदप्रवृ-त्तिः प्रतियोग्यपेक्षत्वात् तस्य भ्रात्रादिव्यवहारवत् न च तत् प्रामाण्यं युक्तप्रमानामियत्ताभावप्रशक्तेः एवं धूमदर्शनास्मर्यमाणाग्निसंबन्धितयाऽप्यक्षानवगतप्रदेशे तदयोगव्यवच्छेदमवगमयन्ती प्रतिपतिरुपजायामानाऽनुमितिः प्रमाणतां यथा समासादयति न तथा सादृश्यप्रतिपत्तिः गवाख्यधर्मिप्रतिपत्तिकाल एव भूयोऽवयवसामान्ययोगलक्षणस्य सादृश्यप्रतिपत्तेस्तेन प्रत्यक्षेऽपि यथादेश इत्यादिवचनमयुक्ततया व्यवस्थितम् / किं च / यदि सादृश्यज्ञानं गृहीतग्राहित्वेऽपि व्यवहारमात्रप्रवर्तनात् प्रमाणं तर्हि वैसादृश्य-ज्ञानमपि सप्तमं प्रमाणं भवेत् दृश्यपरोक्षे सादृश्यधीरप्रमाणान्तरं यदि वैधय॑मर्हति तयेवमप्येवं प्रमाणं किं न सप्तमम् / तथा सोपा-नलाभात् क्रामतः प्रथमाक्रान्तं पश्चादाक्रान्ताद्दीधैं महत् ह्रस्वं चेत्याद्यनेकंप्रमाणं प्रसक्तमिति कुतः प्रमाणषट्कवादः संगतो भवेत्। दृश्यमानव्याक्षेपं चेद् दृष्टज्ञानं प्रमाणान्तरं तत् पूर्वमस्मादित्यादिप्रमाणान्तरमिष्यताम् / अप्रमाण्ये चास्य पक्षधर्मत्वाद्यभावप्रतिपादनं सिद्धसाधनमेवाप्रमा वा प्रमाणस्यानुमानत्वानभ्युपगमाद् / यदा च प्रत्यक्षेण प्रतिपन्नेऽपि गवाश्वादौ भूयोऽवयवसामान्ययोगं तद्वियोगवाच्यं मूढः सदृशासदृश्व्यवहारंन प्रवर्तयति तदा विषयदर्शनेन विषयिणोव्यवहारस्य साधनात् वैरुप्यसद्भावादनुमानप्रमाणता समस्त्येव तथा हि गवाश्यादौ विषाणाधवयवसामान्ययोगसिद्धियोगो वा प्रागुपलब्ध इदानीं स्मर्यमाण इति नासिद्धता हेतोःप्रवृत्तिर्व्यवहारविषयश्च एवार्थोऽत्र दृष्टान्तोऽस्तीति नान्वयव्यतिरेकयोरप्यभावस्ततो न वै तस्यानुमानत्वमित्यादिपक्षधर्मत्वाद्यसंभवप्रतिपादनमसंगतव्यवहारसाधनपक्षधर्मत्वादेः / प्रसाधनान्नैयायिकोपवर्णितमप्युपमानमनधिगतार्थाधिगन्तृत्वा-भावात् प्रमाणं न भवति तथा हि यथा गौस्तथा गवय इति वाक्याद् गोसदृशार्थसामान्यस्य गवयशब्दवाच्यताप्रतिपत्तेरन्यथा विसदृशमहिष्याद्यर्थदर्शनादप्ययं स गवय इति संज्ञासंज्ञिसंबन्धप्रतिपत्तिः किं न भवेत्तस्माद्यथा कश्चिदङ्गदी कुण्डली छत्री स राजेति कुतश्चिदुपश्रुत्याङ्गदादिमदर्थदर्शनादयं स राजेति प्रतिपद्यते न चासौ प्रतिपत्तिः प्रमाणमुपवाक्यादेवाङ्गदादिमतीर्थस्य राजशब्दवाच्य-त्वेन प्रतिपन्नत्वात् तथेहापि यथा गौस्तथा गवय इत्यति देशवा-- क्यात्संबन्धमवगत्य गवयदर्शनात्संकेतानुस्मरणे सत्ययं स गवयशब्दवाच्योऽर्थप्रतिपत्तेरप्रमाणमुपमानम् / यदि पुनरतिदेशवाक्यात्संबन्धप्रतिपत्ति भ्युपगम्यते पश्चादप्ययं स गवयशब्दवाच्यस्तथाऽपि प्रत्ययो न स्यात्तदपरनिमित्ताभावात् दृश्यते च तस्मागृहीतग्रहणान्नेदं प्रमाणम् / अथातिदेशवाक्यात् पूर्वाङ्गात्सदृशार्थस्य गवयशब्दवाच्यता सामान्येन प्रतीता गवयदर्शनानन्तरं तु गवयविशेष तच्छब्दवाच्यत्वेन पूर्वमप्रतीतं प्रतिपद्यत इति नगृहीतग्राहिता असदेतत् सस्नेहितगवयविशेषविषयस्य ज्ञानस्य प्रत्यक्षतयोपमानत्वानुपपत्तेर्गवयदर्शनोत्तरकालभावि त्वयं स गवयश-ब्दवाच्योऽर्थ इति तज्ज्ञानं तत्प्रत्यक्षबलोत्पन्नत्वात् स्मृतिरेव न प्रमाणम् / किं च गवयविशेषस्यगवयशब्दवाच्यतायद्यतिदेशवाक्यान्न प्रतिपन्ना कथं तर्हि गवयविशेषदर्शन उपजाते कस्मादस्य तच्छब्दता यस्यैवार्थस्य संबन्धग्रहणकाले येन सह संबन्धोऽनुभूतस्तस्यैवार्थस्य तेन सह संबन्धे तच्छब्दवाच्यता कालान्तरेऽपि दृश्यते ततः सामान्येन संकेतकाल एय संबन्धः प्रतीतः पश्चाद्गवयदर्शन उपजाते संकेतमनुसृत्यायं स गवयशब्दवाच्योऽर्थ इति प्रतिपद्यते इत्यभ्युपगन्तव्यमेतेनोपयुक्तोपमानस्तुतुल्यार्थग्रहणे सति विशिष्टविषयत्वेन संबन्धं प्रतिपद्यत इत्यपि निरस्तं विशेषस्य संकेतकालानुभूतस्य व्यवहारकालानुगमादवाच्यत्वाच / यश्च शब्दप्रभवप्रतिपत्तावर्थः प्रतिभाति स एकशब्दवाच्यो न त्वऽविशेषस्तत्र प्रतिभालक्षणज्ञाने असतस्तत्र शब्दस्याप्रतिभासनान्न विशेषः शब्दवाच्यतायामसौ गवयशब्दवाच्य इति विशेषस्य वाच्य-प्रतिपत्तिः सादृश्यविकल्पयोरेकीकरणाद्धान्तिरन्यापूर्वानुभृता-कारपरामर्श इति दृश्येयमसौगवयशब्दवाच्य इति प्रतिपत्तिः कथं भवेदतिदेशवाक्यश्रवणसमये विशेष संबन्धाप्रतिपत्तेः प्रतिप्रत्यभ्युपगमे वा विशेषेऽपि सामान्यत्वस्मृतिरेवेति कुतः प्रामाण्यमुपमानस्य। यद् गौरिव गवय इति गोगवययोरतिदेशवाक्यात्सादृश्यमात्रप्रतिपत्तिः संज्ञासंज्ञिसंबन्धप्रतिपत्तिस्तूपमानात्तदप्यसमीक्षिताभिधानं यतो गवयदर्शनानन्तरमयं स गवयशब्दवाच्य इति प्रतिपत्तिरुपजायते इयं च तावदध्यक्षप्रतिपत्तिः फलश्रुतातिदेशवाक्यस्य प्रभ्रष्टसंस्कारस्य वा तत्सदभावेऽप्यस्यानुत्पतेर्विशेषश्चाध्यक्षविषयत्वानभ्युपगमाच अतिदेशवाक्यस्मरणसहायस्य गवयदर्शनस्यतत्प्रतिपत्तिजनकत्वे स्मर्यमाणशब्दवाच्यत्वमित्यतिदेशवाक्यमेव तज्जनकमभ्युपगतं भवेत् न दर्शनं न हि यत्राध्यक्षप्रवृत्तिमत्तत्र शब्दस्मरणसहितमपि प्रवर्तते यथा चक्षुनिं गन्धस्मरणं सहायपरिमलप्रतिपत्तावतिदेशवाक्याच्च संबन्धाप्रतिपत्तावपरस्य तत्प्रतिपत्तिर्निमित्तस्याभावात् अयं स गवयशब्दवाच्य इति पूर्वानुभूतपरापर्शन प्रतिपत्तिर्न स्यादपि त्वयं गोदृश इत्येव भवेत् न चैतत्प्रतिपत्तिरन्यथानुपपन्नैव प्रमाणान्तरमुपमाख्यमेतत्प्रतिपत्तिजनक प्रकल्पनीयं यः कुण्डली स राजेति श्रोतातिदेशवाक्यस्य तदर्शनान्तरमयं