________________ उवभोगपरिभोगाइरित्त ९३२-अमिधानराजेन्द्रः - भाग 2 उवमाण तिचारे, तेन आत्मोपभोगातिरिक्तेन परेषां स्नानभोजनादिरनर्थ-दण्डो भवति। अयं च प्रमादव्रतस्यैवातिचार इति / उपा०१ अ०। उवभोगपरिभोगाइरेग पुं०(उपभोगपरिभोगातिरेक) उपभोगपरि-- भोगयोरतिरेकः अधिकमुपभोगपरिभोगातिरेकः / प्रमादचरितस्यातिचारे, इह किल स्वोपयोगिभ्योऽधिकानि ताम्बूलमोदकमण्डकादीन्युपभोगाङ्गानि तडागादिषु न नेतव्यानि अन्यथा हि खिद्रादयस्तानि भजतेततश्चात्मनो निरर्थककर्मबन्धादिदोषः ।अयमपि विषयात्मकत्वात् प्रमादचरितस्यातिचारः। ध०२०। श्रा०) उवभोग्गत्तन०(उपभोग्यत्व) उपभोगयोग्यतायाम्। स०। उवमा स्त्री०(उपमा) उपमानमुपमा उप–मा-भावे-अ-अ-नेन गवयेन सदृशो गौरिति सादृश्यप्रतिपत्तिरूपे प्रमाणभेदे, || उक्तं च // "गां दृष्ट्वाऽयमरण्येऽन्यं, गवयं वीक्षते यदा ! भूयोऽवपवसामान्य-भाज वर्तुलकण्ठकम्॥१॥ तस्यामेव त्ववस्थाया यदि ज्ञानं प्रवर्तत। पशुनैतेन तुल्योऽसौ, गोपिण्ड इति सोपमेति॥२॥" श्रुतादिदे-शवाक्यसमानार्थोपलम्भने, संज्ञासंज्ञिसम्बन्धज्ञाने च / स्था० 4 ठा० // उपमीयतेऽनेन दान्तिकोऽर्थ इत्युपमा / द० 1 अ०। सूत्र० / शक्रस्यदेवेन्द्रस्य देवराजस्य प्रथमानमहिष्याम् / स्था० 8 ठा०। खाद्यविशेषे, जी०३ प्रति०। इदानीमदृश्यमाने प्रश्नव्याकरणानां प्रथमेऽध्ययने च / स्था० १०ठा। उवमाण न०(उपमान) उपमीयतेऽनेन दाान्तिकोऽर्थ इत्युपमानम् / दृष्टान्ते / द० 110 / प्रसिद्धसाधात्साध्यसाधने, यथा गौर्गवयस्तथा। सूत्र०१ श्रु० 12 अ०। उपमानोपमेययोरध्यक्षत्वे सादृश्यालम्बने,। सम्म०। (औपम्यभेदा ओवम्म शब्दे वक्ष्यन्ते)।। उपमानस्य प्रमाणान्तरताविचारः / / उपमानमपि प्रमाणान्तरं तस्य लक्षणं यथा "दृश्यमानाद्यदन्यत्र, विज्ञानमुपजायते। साध्यदृश्योपाधितज्ज्ञैरुपमानमिति स्मृतं' यथोक्तमुपमानमपि सादृश्यादसन्निकृष्टऽर्थे बुद्धिमुत्पादयति यथा गवयदर्शनं गोस्मरणस्येति अस्यायमर्थः येन प्रतिपात्रा गौरुपलब्धो न गवयो नवाति-देशवाक्यंगौरिव गवय इति श्रुतं तस्याटव्यां पर्यटतः गवयदर्शने प्रथमे उपजायते परोक्षगवि सादृश्यज्ञानं यदुत्पद्यते अनेन सदृशो गौरिति तदुपमानमिति / तस्य विषयः सादृश्यविशिष्टः परोक्षो गौस्तद्विशिष्ट वा सादृश्यं च वस्तुभूतमेव यदाह। "सादृश्यस्य च वस्तुत्वं, न शक्यमववाधितुम् / भूयोऽवयवसामान्ययोगो जात्यन्तरस्य तदिति" अस्य चानधिगतार्थाधिगन्तृतया प्रामाण्यमुपपन्नं यतो गवयेन प्रत्यक्षेण गवय एव विषयीकृतो न पुनरसंनिहितोऽपि सादृश्यविशिष्टो गौः तद्विशिष्टं वा सादृश्यम् / यदपि तस्य पूर्वं गौरिति प्रत्यक्षमभूत्तस्यापि गवयोऽत्यन्तमप्रत्यक्ष एवेति कथं गवि तदपेक्षतत्सादृश्यज्ञानम्। तदैवं गवयसदृशो गौरिति प्रागप्रतिपत्तेरनधिगतार्थाधिगन्तृपरोक्षे गवयदर्शनात् सादृश्यज्ञानम् / तदुक्तं "तस्माद्यत्स्मर्यते तत्स्यात्, सादृश्येन विशेषितः। प्रमेमयमनुमानस्य, सादृश्यं वा तदन्विते / / प्रत्यक्षेणावबुद्धेऽपि, सादृश्ये गवि च स्मृतौ / विशिष्टस्यान्यतो सिद्धरुपमानप्रमाणता प्रत्यक्षेऽपि यथादेशे, स्मर्यमाणे च पर्वके / विशिष्टविषयत्वेन, नानुमानाप्रमाणतेति" न चेदं प्रत्यक्ष परोक्षविषयत्वात् सविकल्पकत्वाच। नाप्यनुमानं हेत्वभावात्। न च स एव दृश्यमानो गवयविशेषः तद्गतं वा सादृश्य हेतुरुभयस्यापि धर्मिणा सह प्रतिबन्धाभावान्नचाप्रतिबन्धो हेतुरतिप्रसङ्गात् नच गोमत्त्वं सादृश्यं गौर्वाहतुः प्रतिज्ञार्थंकदेशत्वात् न च सादृश्यमानं प्राक् प्रमेयेण सम्बद्धं प्रतिपन्न नवान्चयप्रतिपत्तिमन्तरेण हेतोः साध्यप्रतिपादकत्यमुपलब्धं तदेवं गवार्थदर्शने गवयं पश्यतः सादृश्येन विशिष्ट गवि पक्षधर्मत्वग्रहणं सम्बन्धानुस्मरणं वान्तरेण प्रतिपत्तिरुपजायमाने नानुमानेन्तर्भवतीति प्रमाणान्तरमुपमानम्। तदुक्तं "नचैतस्यानुमानत्वं, पक्षधर्माद्यसंभवात्। प्राक् प्रमेयस्य सादृश्यं, न धर्मत्वेन गृह्यते // गवये गृह्यमाणं च, न गवार्थानुमापकम्। प्रतिज्ञार्थकदेशत्वानोगतस्य न लिङ्गतः॥ गवयश्चापि सम्बन्धा-नागोलिङ्गत्वमृच्छति।सादृश्यं न चपूर्वेण, पूर्वं दृष्ट तदन्वये॥ एकस्मिन्नपि दृश्येऽपि , द्वितीया पश्यतो वने। सादृश्येन सहेकस्मिस्तदैवोत्पद्यतेमितिरिति" नैयायिकाः श्रूयमाणलक्षणमभिदधीत प्रसिद्धसाधात्साध्यसाधनमुपमानमिति / अत्रोपमानमितिलक्ष्यनिर्देशः प्रसिद्धसाधादित्यागमपूर्टिवकाप्रसिद्धिः दर्शिता आगमस्तु यथा गौस्तथा गवय इत एवं प्रसिद्धेन साधर्म्यप्रसिद्धेः संस्कारवान् पुरुषः कदचिदरण्ये परिभ्रमन् समानमर्थ यदा पश्यति तदा तज्ज्ञानादागमाहितसंस्कारप्रबोधसङ्गतः स्मृतिर्गोसदृशोगवय इत्येवंरूपास्मृतिसहायन्द्रियार्थसन्निकर्षण गोसदृशोऽयमिति ज्ञानमुत्पाद्यते तचेन्द्रियार्थसन्निकर्षजत्वात्तजनकत्वेनास्य प्रत्यक्षप्रमाणताप्रसक्तेः ।नच शब्देन सार्द्ध यथोक्तमुत्पादयदेतच्छाब्दप्रसज्यते अव्यपदेश्यपदा-ध्याहारात् अव्यभिचार्यादिपदानांतु पूर्ववद्व्यवच्छेदो द्रष्टव्यः / नन्वेवमप्यनुमाने प्रसङ्गस्तस्य यथोक्तफलजनकत्वाद विनाभावसम्बन्धस्मृतिपूर्वकस्य परामर्शज्ञानस्य विशिष्टफलजनकत्वेनानुमानत्वावाप्तेः प्रकृतज्ञानमविनाभावसम्बन्धस्मृतिपूर्वकं गोशदृशस्य गवयशब्दवाच्यत्वेनान्यस्याप्रसिद्धत्वात् गोसदृशगवयशब्दःसंज्ञेति आगमात्प्रतीतिरिति चेत्न तस्य सन्निधीयमानगोशदृशपिण्डविषयत्वेनाप्युपपत्तेनिश्चितश्चान्वयः साध्यप्रतिपत्तिः / न च तदोपलभ्यमानागोसादृश्यपिण्डादव्यतिरिक्तः गोसदृशसद्भावनिश्चायकं प्रमाणमस्ति न चात्र व्यतिरेकी हेतुः समस्ति सपक्षासत्वप्रतिपादकप्रमाणाभावात् अतो नाविनाभावसंबन्धानुस्मृतिः। व्याप्तिरहितेऽपि चागमे गोसदृशो गवय इति सकृदुचारिते उत्तरकालगोसदृशपदार्थदर्शनात् अयं स गवयशब्दवाच्य इति प्रतिपत्तिर्भवतीति नानुमानमेतत् संज्ञासंज्ञिसम्बन्धज्ञानत्यागमकं न भवत्येव शब्दस्य तज्जनकस्य तदाऽभावात् शब्दजनितं च शाब्दं प्रमाणमिति व्यवस्थितं प्राक् शब्दप्रतीतत्वाच्छाब्दमिति चेत्रत्वनुमानस्याप्येवमभावप्रशक्तिः अग्निसाम्यस्य प्राग् प्रत्यक्षेण प्रतीतत्वात् न ह्यप्रतीते महानसादावनिसामान्ये अनुमानप्रवृत्तिरिति अप्रतीता प्रतिपादकत्वादनुमानं न प्रमाणं भवेत् / न च विशिष्टदेशाद्यवच्छे दसाधकत्वेनास्या प्रमाण्यमितरत्रापि समानत्वात्तथाहि सन्निधीयमानपिण्ड विषयत्वेन स्वप्रतिपाद्यमिदं प्रतिपादयति आगमस्त्वसन्निहितपिण्डविषयत्वेन न चागमात् संज्ञासंज्ञि-संबन्धः प्रतीयतेततः सारूप्यमात्रप्रतीतेर्यत्रशब्दस्यैव साधकतमत्वं तदेव शाब्दं फलं न च विप्रतिपत्त्यधिकारेण संज्ञासंज्ञिसंबन्धज्ञाने एतत्समस्ति प्रत्यक्षफलं तुन भवत्येवैतत् संज्ञासज्ञिसंबन्धस्येन्द्रियेणासन्निकर्षात्। नच सन्निकर्षश्चेन्द्रियाविषयत्वात्तस्य तदेव संज्ञासंज्ञिसंबन्धप्रतिनियतरूपं फलं यतः समुपजायते तदुपमानं आह च सूत्रकारः साध्यसाधनमिति साध्यं विशिष्टं फलं तस्य साधनं जनकं यत् तदुपमानं एवं सारूप्यज्ञानवत्सारूप्यस्याप्यमानत्वं न पुनः संज्ञासंज्ञिसंबन्धज्ञानस्य फलाभावात् न च हेयादिज्ञानमस्य फलं प्रत्यक्षादिफलत्वात् / तथा हि हेयादिज्ञानं पिण्डविषयं तच्चेन्द्रियार्थ सन्निकर्षादुपजायते यथा प्रत्यक्षफलमनुमानं विशिष्टफलजनकत्वादेवं