________________ उवभोगपरिभोग 630- अभिधानराजेन्द्रः - भाग 2 उवभोगपरिभोग तथा तुच्छं असारं पुष्पं च फलं च ते आदौ यस्य तत् पुष्पफलादि। चः समुच्चये आदिशब्दान्मूलपत्रादिपरिग्रहस्तत्र तुच्छं पुष्पमरणिकरीरशिगूमधूकादिसंबन्धि तुच्छं फलम् / मधूकजम्बूटीवरूपीलुपक्वकरमदेङ्गुदीफलपिचुमकुरवालओलिवृहद्दरकच्चकुटुिंभ-- डस्वसखसादि 2 प्रावृषि तन्दुलीयकादेश्च पत्रं बहुजीवसंमिश्रितत्वात् 3 त्याज्यम् / अन्यदप्येतादृशं मूलादि यद्वाऽर्द्धनिष्पन्नकोमलचवलकमुद्गसिम्बादिकम् / तद्भक्षणे हि न तथाविधतृप्तिर्विराधना च भूयसी 21 तथा आमेति आमं च तद्रोरसं च आमगोरसं तत्र संपृक्तमामगोरससंपृक्तम् / कच्चदुग्धदधितक्रसंमिलितम् / तद्विदलं केवलिगम्यसूक्ष्मजीवसंसक्तिसंभवात् हेयम् / उक्तं च संसक्तनिर्युक्तादौ "सव्वेसु विदेसेसुं, सव्वेसु विचेव तह य कालेसु। कुसिणेसु आमगोरसजुत्तेसु निगोअपंचिंदी" द्विदल लक्षणं त्वेक्माहुः "जम्मि उ पीलिज्जंते, नेहो नहु होइ बिंति तं विदलं / विदले विहु उत्पन्नं, नेह जुअं होइ नो विदलं" 1 इह हीयं स्थितिः केचिद्भावा हेतुगम्याः केचित्त्वागमगम्याः। तत्र ये यथा हेतुगम्यास्ते स्तवप्रवचनधरैः प्रतिपादनीयाः आगमगम्येषु हेतून हेतुगम्येषुत्वागममात्र प्रतिपादयन्नाहाविराधकः स्यात्। यतः 'जे हेउवायपक्खम्मि, हेउओ आगमे अ आगमिओ। सो समयपन्नवओ, सिद्धतविराहओ अन्नो" इति / आमगोरससंपृक्तद्विदले पुष्पितौदने अहतियातीते दध्नि कुथितान्नेचन हेतुगम्यो जीवसद्भावः कित्वागमगम्य एव तेन तेषु येजन्तवस्ते केवलिभिर्दृष्टा इतिद्वाविंशति अभक्ष्याणि वर्जयेदिति पूर्वं योजितमेवेति श्लोकत्रयार्थः। योगशास्त्रे तुषोडशवर्जनी यानि प्रतिपादितानि यथा "मद्यं मांसं नवनीतं, मधूदुम्बरपञ्चकम् / अनन्तकायमज्ञातफलं रात्रौ च भोजनम् / 1 / आमगोरससंपृक्तद्विदलं पुष्पितौदनम् / दध्यहतियातीतं , वथितान्नं च वर्जयेत् / / अन्यसकलाभक्ष्यवर्जन चाजन्तुमिश्रंफलंपुष्पं, पत्रं चान्यदपित्यजेत्। संधानमपि संसक्तं, जिनधर्मपरायणः / 3 / इति संग्रहश्लो-केनोक्तम् / अत्र च सप्तमव्रते सचित्ताचित्तमिश्रव्यक्तिः श्राद्धविध्युक्ता पूर्वं सम्यक् ज्ञेया युज्यते यथा चतुर्दशादिनियमाः / सुपाल्या भवन्तीति / / (ध०) (अचित्तव्यक्तिः स्वस्थाने) एवं सचित्ताचित्ता-दिव्यक्तिं ज्ञात्वा सप्तमव्रतं नामग्राहं सचित्तादिसर्वभोग्यवस्तुनैय-त्यकरणादिना स्वीकार्य यथानन्दकामदेवादिभिः स्वीकृतं तथा करणाशक्तौ तु सामान्यतोऽपि सचित्तादिनियमा कार्यास्ते चैवम् / / सचित्त 1 दव्व 2 विगइ 3 वाणह 4 तबोल 5 वत्थ ६कुसुमेसु 7 / वाहण 8 सयण : विलेवण 10 बंभ 11 दिसि 12 न्हाण 13 भत्तेसु 14 // १तत्र मुख्यवृत्त्या सुश्रावकेण सचित्तं सर्वथा त्याज्यं तदशक्तौ नामग्राह तथाऽप्यशक्तौ सामान्यत एकट्यादिनियम्यं यतः "निरवजाहारेणं" इति पूर्वलिखितागाथे परं प्रतिदिनैकसचित्ताभिग्राहिणो हि पृथक् दिनेषु परावर्तनेन सर्वसचित्तग्रहणमपि स्यात्तथा च न विशेषविरतिः नामग्राहं सचित्ताभिग्रहे तु तदन्यसर्वसचित्तनिषेधरूपयावज्जीवस्पष्टमेवाधिक फलम् उक्तंच "पुप्फफलाणंच रस, सुराइमंसाणमहिलिआणं च।जाणंता जे विरया, ते दुकरकारए वंदे" सचित्तेष्वपि नागवल्लीदलानि दुस्त्यजानि शेषसचित्तानां प्रायः प्रासुकीभवनं स्वल्पकालमध्येऽपि दृश्यते एषु तु निरन्तरं जलक्लेदादिना सचित्ततासुस्थैव कुन्थ्वादिविराधनापि भूयसी च तत एव पापभीरुणा त्याज्यानि अन्यथाऽपि रात्रौ न व्यापार्याणि रात्रिवयापारिणोऽपि दिवा | संशोधनादियतनाया एव मुख्यता ! ब्रह्मचारिणा तु कामाङ्गत्वात्त्याज्यान्येव सचित्तभक्षणे दोषस्तु अनेकजीवविराधनारूपः यतः प्रत्येकसचित्तेऽप्येकस्मिन् पत्रफलादावसंख्यजीवविराधनासंभवः यदागमः "जं भणि पजत्तग, निस्साए वुक्कमंत अपज्जत्ता / जत्थेगो पज्जत्तो, तत्थ असंखा अपज्जत्ता" बादरेष्वेकेन्द्रियेष्वेवमुक्तं सूक्ष्मेषु तु यत्रैकोऽपर्याप्तस्तत्र तन्निश्राया नियमादसंख्याः पर्याप्ताः स्युरित्याचारानवृत्त्यादौ प्रोक्तम् / एवमेकस्मिन्नपि पत्रादावसंख्यजीवविराधना तदाश्रितजलनील्यादि संभवे त्वनन्ता अपि जलवणादि वाऽसंख्यजीवात्मकमेव यदार्षम् / “एग्गम्मि उदगविदुम्भि, जे जीवा जिणवरेहिं पण्णत्ता। ते जइ सरिसवमित्ता, जंबूदीवे न मायति / 1 / अद्दामलप्पमाणे, पुढविक्काये हवंति जे जीवा। ते पारेवयमित्ता, जंबुद्दीवे नमायंति" सर्वसचित्तत्यागेऽम्बड़परिव्राजकसप्तशतशिष्यनिदर्शनम्। एवं सचित्तत्यागे यतनीयमिति प्रथमनियमः // सचित्तविकृतिवर्ज यन्मुखे क्षिप्यते तत्सर्वं द्रव्यं क्षिप्रचटीरोट्टिकानिर्विकृतिकमोदकलपनश्रीपर्पटिकाचूरिमकरम्बक क्षैरेय्यादिकं बहुधान्यादिनिष्पन्नमपि परिणामान्तराद्यापत्तेरेकैकमेव द्रव्यमेकधान्यनिष्पन्नान्यपि पूलिकास्थूलरोट्टकमण्डकपर्परकघूघरीटोकलथूलीबाटकणिकादीनि पृथक् 2 नामा स्वादवत्त्वेन पृथक् 2 द्रव्याणि फलफलिकादौ तु नामैक्ये भिन्नास्वादव्यक्तेः परिणामान्तराभावाच्च / बहुद्रव्यत्वमन्यथा या संप्रदायादिवशा...व्याणि गणनीयानि धातुमयशिलाकाकारागुल्यादिकं द्रव्यमध्ये न गणयन्ति 2 विकृतयो भक्ष्याः षट् दुग्ध 1 दधि 2 घृत 3 तैल 4 गुड 5 सर्वपक्वान्न 6 भेदात् 3 (वाणहत्ति) उपानद्युग्म मोचकयुग्मं वा काष्ठपादुकादि तु बहुजीव-विराधनाहेतुत्वात्त्याज्यमेव श्रावकैः 4 ताम्बूलपत्रपूगखदिरवटिका कत्थकादिस्यादिमरूपम्।। वस्त्रं पञ्चाङ्गादिर्वेषः धौतिकपौतिकरात्रिवस्त्रादिवेषेन गण्यते।६। कुसुमानि शिरःकण्ठक्षेपशय्योच्छीर्षकाद्याँणि तन्नियमेऽपि देवशेषाः कल्पन्ते।७। वाहनं रथाश्वादिः शयनं खटादि विलेपनं भोगार्थं चन्दनाञ्जनादिचूअ कस्तूर्यादि तन्नियमे देवपुजादौ तिलकस्वहस्तकङ्कणधूपनादि कल्पते |10| अब्रह्म दिवा रात्रौ पत्न्याद्याश्रित्य 11 दिक् परिमाण सर्वतोऽमुकदिशि वा इयदवधिगमनादिनियमनम् / 12 / स्नानं तैलाभ्यङ्गादिपूर्वकं देवपूजार्थं करणेन नियमभङ्गःलौकिकका-रणे च यतनारक्ष्या।१३। भक्तराद्धधान्यसुखभक्षिकादिसर्वं त्रिचतुः सेरादिमितं खरवूजादिग्रहणे बहवोऽपि सेराः स्युः / 14 / एतदुपलक्षणत्यादन्येऽपि शाकफलधान्यादिप्रमाणारम्भनयत्यादिनियमा यथाशक्ति ग्राह्या इत्युक्तं भोगोपभोगव्रतम्॥ध०३ अधि०। इदमपि चातिचाररहितमनुपालनीयमित्यतोऽस्यैवातिचारानभिधित्सुराह // भोअणओ समणोवासएणं इमे पंच अइआरा जाणिअव्वा न सामायरिअव्वा तं जहा सचित्ताहारे 1 सचित्तपडिबद्धाहारे 2 अप्पोलिओसहिभक्खणयासचित्तसम्मिस्साहारे (पाठा-न्तरम्) 3 दुप्पोलिओसहिभक्खणया 4 तुच्छों सहि-भक्खणया। भोजनतो यद् व्रतमुक्तं तदाश्रित्य श्रमणो पास के नापि पञ्चातिचारा ज्ञातव्याः न समाचरितव्यास्तद्यथा सचित्ताहारः चित्त चेतना संज्ञान उपयोगोऽवधानमिति पर्यायाः सचित्तश्चासावाहारश्च 2 सचित्तो वाहारो यस्य सचित्तमाहारयतीति वा मूलकन्द कार्द्रकादिसाधारणप्रत्येकरुशरीराणि सचित्तानि सचित्तं पृथिव्याधाहारयतीति भावना / तथा सचित्तप्रतिबद्धाहारो यथा वृक्षप्र