________________ उवभोगपरिभोग 929 - अभिधानराजेन्द्रः - भाग 2 उवभोगपरिभोग णि क्रमेण क्षणात्। येनास्मिन्नपि पाटिते विघटिते विस्फोटितेत्रोटिते, निष्पिष्ट परिगालिते विदलिते निर्यात्यसौ वा न वा 6 तथा हिमं तुहिनं तदप्यसंख्येयाप्कायरूपत्वात्त्याज्यम् 10 विषमहिकेनादिमन्त्रोपहतवीर्यमप्युदरान्तवर्तिगण्डोलकादिजीवधातहेतुत्वान्मरणसमये महामोहोत्पादकत्वाच हेयम् 11 करका द्रवीभूता आपः / असंख्याप्कायित्वाद्वाः // नन्वेवमसंख्याप्का-यित्वेनाऽभक्ष्यत्वे जलस्याप्यभक्ष्यत्वापत्तिरिति चेत्सत्यम् / असंख्यजीवमयत्वेऽपि जलमन्तरा निर्वाहाभावान्न तस्य तथोक्तिः 12 तथा मृजातिः सर्वा अपि मृत्तिका दर्दुरादिपञ्चेन्द्रियप्राण्युत्पत्तिनिमित्तत्वादिना मरणाघनर्थकारित्वात् त्याज्याः। जातिग्रहणं खटिकादिसूचकं तद्भक्षणस्यामाश्रयादिदोषजनकत्वात् / मृद्ग्रहणं चोपलक्षणं तेन सुधाद्यपि वर्जनीयं तद्भक्षकस्यान्त्रशाटाद्यनर्थसंभवात् मृगक्षणेचासंख्येयपृथिवीकायजीवानां विराधनाद्यपि लवणमप्यसंख्यपथिवीकायात्मकमिति सचित्तं त्याज्यं प्रासुकं ग्राह्यं प्रासुकत्वं चाग्न्यादिप्रवलशस्त्रयोगेनैव नान्यथा तत्र पृथिवीकायजीवानामसंख्येयत्वेनात्यन्तसूक्ष्मत्वात् तथा च पञ्चमाङ्गे 16 शतकतृतीयोद्देशके निर्दिष्टोऽयमर्थः वज्रमप्यां शिलायां स्वल्पपृ-थिवीकायस्य वज्रलोटकेनैकविंशतिवारान्पेषणे सत्थेके केचन जीवा ये स्पृष्टा अपि नेति 13 तथा रात्रौ नक्तं भोजनं भुक्तिः रात्रिभोजनं तदपि हेयं बहुविधजीवसंपातसंभवेनैहिकपारलौकिकानेकदोषदुष्टत्वात् यदभिहितं "मेहं पिपीलिआओ , हणंति वमणं च मच्छिआ कुणइ। जूआ जलोदरतं, कोलिअओ कोट्ठरोगं च ||1|| वाला सरस्स भंग, कंटोलगाइगलम्मि दारुंच। तालुम्मि विंधइअली, वंजणमञ्जम्मि भुजंतो 2" व्यञ्जनमिह वार्ताकशाकरूपमभिप्रेतं तदृन्तं च वृश्चिकाकारमेव स्यादिति वृश्चिकस्यासूक्ष्मस्यापि तन्मध्यपतितस्यालक्ष्यत्वादोज्यता संभवतीति विशेषः। निशीथचूर्णावपि "गिहकोइलअवयवसम्मिस्सेण भुरोण पोट्टे किल गिहकोइला संमुच्छंति'' एवं सदिलालामलमूत्रादिपाताद्यपि" तथा "मालिंति महिअलं जामिणीसु रयणी य रायमंतेणं। ते वि च्छलंति हु फुडं, रयणीए भुंजमाणं तु // 1 // अपि च निशाभोजने क्रियमाणे अवश्यं पाकः संभवी / तत्र षट् जीवनिकायवधोऽवश्यंभावी भाजनधावनादौ च जलगतजन्तुनाशः जलोज्झनेन भमिगतकुन्थुपिपीलिकादिजन्तुधातश्च भवति तत्प्राणिरक्षणकाडयाऽपि निशाभोजनं न कर्तव्यम्। यदादुः "जीवाणकुंथुमाईण,घायणं भाणधोअणाईसुं।एमाइ स्यणिभोयणदोसे को साहिलं तरइ // 1 // " यद्यपि च सिद्धमोदकादिखजूरद्राक्षादिभक्षणे नास्त्यन्नपाको नच भाजनधावनादिसंभवस्तथापि कुन्थुपनकादिसंघातसंभवात्तस्यापि त्याग एव युक्तो यदुक्तं निशीथभाष्ये "जदवि हु फासुगदव्वं, कुंथुपणगा तहावि दुप्पस्सा / पञ्चक्खणा णो वि हु, राईभत्तं परिहरंति / / 1 / / जइ वि हु पिपीलिगाई, दीसंति पइवमाईउज्जोए। तह वि खलु अणाइन्नं, मूलवयविराणाजण्णं ||2|" एतत्फलंच "उलूककाकमार्जारगृध्रशम्बरशूकराः। अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात्' परेऽपि पठन्ति "मृते स्वजनमात्रेऽपि सूतकं जायते किल / अस्तंगते दिवानाथे, भोजनं क्रियते कथम्।।१।। रक्तीभवन्ति तोयानि, अन्नानि पिशितानि च। रात्रौ भोजनशक्तस्य , ग्रासे तन्मांसभक्षणम् / / 29 / स्कन्दपुराणे रुद्रप्रणीतकपालमोचनस्तोत्रे सूर्यस्तुतिस्तोत्रेऽपि " "एकभक्ताशनान्नित्यमग्निहोत्रफलं लभेत् / अनस्तभोजने नित्यं, तीर्थयात्राफलं भवेत् // 1 // ' तथ'नैबाहुतिर्न च | स्नानं, न श्राद्धं देवतार्चनम्। दानं वा विहितं रात्रौ, भोजनन्तु विशेषतः सा" आयुर्वेदपि। "हन्नाभिपद्मसङ्कोच-श्वण्डरोचेरपायतः। अलो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि // 3 // " तस्माद्विवेकिना रात्री चतुर्विधोऽप्याहारः परिहार्यस्तदशक्तौ त्वशनं खादिमं च त्याज्यमेव स्वादिमं पूगीफलाद्यपि दिवा सम्यक् शोधनादियतनयैव गृह्णात्यन्यथा त्रसहिंसादयोऽपि दोषाः मुख्यवृत्या च प्रातः सायं च रात्रिप्रत्यासन्नत्वाद् द्वेद्वे घटिके भोजनं त्यजेद्यतो योगशास्त्रे "अहो मखेऽवसाने च, यो द्वे द्वे घटिके त्यजन् / निशाभोजनदोषज्ञोऽश्नात्यसौ पुण्यभाजनम् / / 1 / / " अत एवागमे सर्वजघन्यं प्रत्याख्यानं मुहूर्तप्रमाणं नमस्कारसहितमुच्यते जातु तत्तत्कार्यव्यग्रत्वादिना तथा न शक्नोति तदापि सूर्योदयास्तनिर्णयमपेक्षत एवातपदर्शनादिनाऽन्यथा रात्रिभोजनदोषः। अन्धकारभवनेऽपि वीडया प्रदीपाकरणादिना त्रसादिहिंसानियमभङ्गमायामृषावादादयोऽधिकदोषा अपि यतः "न करेमित्ति भणित्ता, तं चेव निसेवए पुणो पावं / पचक्खमुसावाई, मायानियडी पसंगो अ।१। पायं काऊण सम, अप्पाणंसुद्धमेव वाहरइ दुगुणं करेइ पावं, वीअंबालस्स मंदत्तं 2" तथा बहुवीजेति बहुवीजं च अज्ञातफलं चेतिद्वन्द्वस्तत्र बहूनि वीजानि वर्तन्ते यस्मिन् तद्हुवीजं पम्पोटकादिकमभ्यन्तरपुटादिरहितं के वलं बीजमयं तच्च प्रतिवीजं जीवोपमर्दसंभवाद्वर्जनीय यचाभ्यन्तरपुटादिसहितबीजमयं दाडिमटिण्डूरादि तन्नाभक्षतया व्यवहरन्ति 15 अज्ञातं च तत्फलं चेति कर्मधारयः अज्ञातफलं स्वयं परेण वा यद् न ज्ञातफलमुपलक्षणत्वात्पत्रं तदभक्ष्यं निषिद्ध-फले विषफले वा अज्ञानात्प्रवृत्तिसंभवात् / अज्ञानतो हि प्रतिषिद्धे फले प्रवर्तमानस्य व्रतभङ्गः विषमफले तु जीवितविनाशः 16 तथा संधानं चानन्तकायिक चेति द्वन्द्वस्तत्र संधानं निम्बक विल्वकादीनामने कसंसक्तिनिमित्तत्वाद्वयं संधानस्य च व्यवहारवृत्त्या दिनत्रयात्त्परतोऽभक्षत्यामाचक्षते / योगशास्त्रवृत्तावपि 'संधानमात्रफलादी-नां यदि संसक्तं भवेत् / तदा जिनधर्मपरायणःकृपालुत्वात्त्यजेदिति / 17 / अनन्ताः कायिका जीवा यत्र तत् अनन्तकायिकम् / अनन्तजन्तुसन्ताननिपातननिमित्तत्वात् वय॑म् (ध०) (अनन्तकायिकव्याख्या स्वस्थाने उक्ता) अन्यद-प्यभक्ष्य चाचित्तीभूतमपि परिहार्य निः शूकतालौल्यवृद्धयादिदो--षसंभवात् परंपरया सचित्ततद्ग्रहणप्रसङ्गाच यथोक्तम् "इक्केण कयमकलं, करेइ तप्पचया पुणो अन्नो / सायाबहुलपरंपर-वुच्छेओ संजमतवाणं / 1 / " अतएवोत्कालितसेल्लरकराद्धाकसूरण-वृन्ताकादि प्रासुकमपि सर्व वयं मूलकस्तुपञ्चाङ्गोऽपि त्याज्यः। शुण्ठ्यादितुनाम स्वेदभेदादिना कल्पते इति श्राद्धविधिवृत्तौ।१८। तथा वृन्ताकं निद्राबाहुल्यमदनोद्दीपनादिदोषपोषकत्वात्त्याज्यम् / पठन्ति च परेऽपि च "यस्तु वृन्ताककालिङ्गमूलकानां च भक्षकः / अन्तकाले समूढात्मा, न स्मरिष्यति मां प्रिये' इति / 16 / तथा चलितो विनष्टो रसः स्वाद उपलक्षणत्वाद्वर्णादिर्थस्य तचलितरसंकुथितान्नपर्युषितद्विदलपूपिकादि के वलजलराद्धपूधनेकजन्तुसंसक्तत्वात् पुष्पितौदनपक्वान्नादिदिनद्वयातीतदध्याद्यपि च तत्र पक्वान्नाद्याश्रित्य चैवमुक्तम् / "वासासु पन्नरदिवसं , सीउण्हकालेसु मासदिणवीसं / उग्गाहिमं जईणं, कप्पइ आरहभ पढम दिणे" केचित्त्वस्या गाथाया अलभ्यमानस्थानत्यं वदन्तो यावगन्धरसादिनान विनश्यतितावदवगाहिमंशुद्ध्यतीत्याहुः दिनद्वयातीते दध्न्यपि जीवसंसक्तिर्यथा "जइ मुग्गमासमाई, विदलं कचम्मि गोरसे पडई। ता तसजीवुप्पत्ति, भणंतिदहिएविदुदिणुवरि"१ हारिभद्रदशवैकालिकवृत्तावपि रसजास्तक्रारनालदधितेमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्तीति दध्यहर्द्वितयातीतमिति / / है ममपि / 20 /