________________ उवभोगपरिभोगप० ६२८-अभिधानराजेन्द्रः - भाग 2 उवभोगपरिभोगप० श्रावकेण तावदुत्सर्गतः प्रासुकैषणीयाहारिणा भाव्यम् / असति सचित्तपरिहारिणा तदसति बहुसावद्यमद्यादीन् वर्जयित्वा प्रत्येक मिश्रादीनां कृतप्रमाणेन भवितव्यम्। तत्र मद्यं मदिरा मांसं पिशितं च शब्दाच्छेसाभक्ष्यद्रव्याणामनन्तकायादीनां च ग्रहः / तानि च प्रागुक्तानि पञ्चोदुम्बर्यादीनि पुष्पाणि करीरमधुकादिकुसुमानि चशब्दात् त्रससक्तपत्रादिपरिग्रहः / फलानि जम्बूविल्वादीनि एषु च मद्यादिषु राजव्यापारादिषु वर्तमानेन यत्किं चित्क्रायणादि कृतं तस्मिन् एतैरन्तर्भोगः सूचितः बहिस्त्वयं (गंधमल्लेति) गन्धा वासाः माल्यानि पुष्पसजः अत्रोपलक्षणत्वाच्छेषभोग्यवस्तुपरिग्रहः / तस्मिन्नुक्तरूपे उपभोगपरिभोगे भीमो भीमसेन इति न्यायादुपभोगपरिभोगपरिमाणाख्ये द्वितीये गुणव्रतेऽनाभोगादिना यदतिक्रान्तं तन्निन्दामि। (ध०)। तत्र भोजनतउत्सर्गेण निरवद्याहारभोजिना भवितव्यम् कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेति। अत्रेयं भावना। श्रावकेण हि तावदुत्सर्गत प्राशुकैषणीयाहारभोजिना भाव्यम् तस्मिन्नसति सचित्तपरिहारः कार्यस्तस्याप्यशक्तौ बहुसावद्यान्मद्यामिषानन्तकायादीन वर्जयता प्रत्येकमिश्रसचित्तादीनां प्रमाण कार्य भणितं च "निरवजाहारेणं, 1 निज्जीवेणं 2 परित्तमीसेणं 3 / अत्ताणुसंधणपरा, सुसावगा एरिसा हंति 1" एवमुत्सवादिविशेष विनाऽत्यन्तचेतो गृघ्न्युन्मादजनापवादादि जनकमत्युद्भटवेपवाहनालङ्कारादिकर्मापि श्रावको वर्जयेन् यतः "अइरोसो अइतोसो, अइहासोदुजणेहिं संवासो। अइउन्भडोय वेसो, पंच वि गुरुअंपि लहु अंपि 1' अतिमलिनाः अतिस्थूलहस्वसच्छिद्रवस्त्रादिसामान्यवेषपरिधानेऽपि कुचेलत्वकार्पण्यादिजना पवादोपहसनीयतादिस्यादतः स्ववित्तक्यो-वस्थानिवासस्थानकुलाधनुरूपवेषं कुर्यात् / उचितवेषादावपि प्रमाणनैयत्यं कार्यम् / एवं दन्तकाष्ठाभ्यङ्गतैलोद्वर्तनमज्जनवस्त्रविलेपनाभरणपुष्पफलधूपासनशयनभवनादिस्तथौदनसूपस्नेहशाकपेयः खण्डखाद्याद्यशनपानखादिमस्वादिमादेस्त्यक्तुमशक्यस्य व्यक्त्याप्रमाणं कार्य शेषं च त्याज्यमानन्दादिसुश्रावकवत् / कर्मतोऽपि श्रावकेण मुख्यतो निरवद्यकर्मप्रवृत्तिमता भवितव्यं तदशक्तावप्यत्यन्तसावधविवकिजननिन्धक्रयविक्रयादि कर्म वर्जनीयं शेषकर्मणामपि प्रमाणं करणीयम् यतः "रंधणखंडणपीसणदलणं पयणंच एयमाईणं। निचपरिमाणकरणं, अविरइबंधोजओगुरुओ" आवश्यकचूर्णावप्युक्तम्। इह चेयं सामाचारी "भोअणओ सावगो उसग्गेण फासुगं आहारं आहारेज्जा तस्सासति अफासुगमपि सच्चित्तवज्जं तस्स असति अणंतकायबहुवीयगाणि परिहरिअव्वाणि इमं च अण्णं भोअणओ परिहरइ असणे अणंतकायं अल्लगमूलगाइमंस च पाणे मंसरसमजाइ खादिमेउ दुंबरका उंबरडपिप्पलपिलंखुमादिसादिमेमधुमक्खियादि। अचित्तं च आहारेअव्वं जदा किर ण होज्ज अचित्तो तो उस्सग्गेण भत्तंपञ्चक्खाइ ण तरइ ताहे अपवाएण सचित्तं अणंतकायं बहुबीअगवज्जं कम्मओवि अकम्माण तरइ जीविउंताहे अचंतसा वजाणि परिहरिजति त्ति"इत्थंचेदं भोगोपभोगव्रतं भोक्तुं योग्येषु परिमाणकरणेन भवति इतरेषु तुवर्जनेनेति पर्यवसितमिति च श्लोकत्रयेण वर्जनीयानाह / / चतुर्विकृतयो निन्द्या,उदुम्बरकपञ्चकम्। हिमं विषं च करका, मृजाति रात्रिभोजनम्॥३२॥ बहुबीडाज्ञातफले, सन्धानानन्तकायिके। वृन्ताकं चलितरसं, तुच्छं पुष्पफलादि च // 33 // आमगोरससंपृक्तं, द्विदलं च विवर्जयेत्। द्वाविंशतिरभक्ष्याणि, जैनधर्माधिवासिनः॥३४|| त्रिभिर्विशेषकम् / जैनधर्मेणार्हतधर्मेणाधिवासितो भावितात्मा पुमान् (द्वाविंशतिः) द्वाविशतिसंख्याकान्यभक्ष्याणि भोक्तुमनर्हाणि वर्जयेत् त्यजेदिति तृतीयश्लोकान्तेन संबन्धः। तानेवाह। (चतुर्वि-कृतय इति) चतुरवयवा विकृतयश्चतुर्विकृतयः शाकपार्थिवादित्वात्समासः कीदृश्यस्ता निन्द्याः सकलशिष्टजननिन्दाविषया मद्यमांसमधुनवनीतलक्षणा इत्यर्थः / तद्वर्णानेक जीवसम्मूर्च्छनात् / तथा चाहुः "मज्झे महुम्मि मंसम्मि, नवणीए चउत्थए। उप्पज्जंति चयंति अतव्वण्णा तत्थ जंतुणो"१ परेऽपि "मद्ये मांसे मधूनि च, नवनीते चतुर्थके। उत्पद्यन्ते विलीयन्ते, सुसूक्ष्मा जन्तुराशय'इति / तत्र मद्यं मदिरा तच द्विधा काष्ठा-निष्पन्नंपिष्टनिष्पन्नं चेति। एतच बहुदोषाश्रयान्महानर्थहेतुत्वाच त्याज्यं यदाह "गुरुमोहकलहनिद्दा, परिभवउवहासरोसंभवहेऊ। मज्जे दुग्गइमूलं, हिरिसिरिमइधम्मनासकरं।।१।। तथा "रसोद्भवाश्च भूयांसो, भवन्ति किल जन्तवः। तस्मान्मान पातव्यं, हिंसापातकभीरुणा।।२।। दत्तं न दत्तमात्तंच, नातं कृतमथा कृतम्।मृषोद्यराज्यादिवहास्वैरं वदति मद्यपः / / 3 / / गृहे बहिर्वा मार्गे वा, परद्रव्याणि मूढधीः / वधबन्धादिनिर्भीको, गृह्णात्याच्छिद्य मद्यपः॥४॥ वालिकां युवतीं वृद्धा, ब्राह्मर्णा श्वपचामपि। भूक्ते परस्त्रियं सद्यो, मद्योन्मादकदर्थितः / / 5 / / विवेकः संयमो ज्ञानं, सत्यं शौचं दया क्षमा। मद्यात्प्रलीयते सर्वं तृण्या वह्निकणादपि / / 6 / / श्रूयते किल शाम्वेन, मद्यादन्धकविष्णुना / हृतं वृष्णिकुलं सर्व , प्लोषिता च पुरी पितुः // 7 // ' मांसं च त्रेधा जलचरस्थलचरसचरजन्तूद्र-वभेदाचर्मारुधिरमांसभेदाद्वा / तद्भक्षणमपि महापापमूलत्वाद्वयं यदाहुः "पंचिदियबहभूअं, मंसं दुगंधमसुइनीमच्छं। रइसपरितुलिष्टाभक्खग-मामयजयणं कुगइ मलं // 1 // " आमासु अ पक्कामुअ, विपच्चमाणासु मंसपेसीसु / सययं चिअ उववाओ, भणिओ अ, निगोअजीवाणं" // 2 // योगशास्त्रेऽपि / सद्यः सम्मू-ञ्छितानन्तजन्तुसंतानदूषितम्। नरकाध्वनि पाधेयं, कोऽश्नीयात्पिशितं सुधीः // 3 // " सद्योहि जन्तुविशसनकाल एव सम्मूञ्छिता उत्पन्ना अनन्ता निवोदरूपाये जन्तवस्तेषां सन्तानः पुनःपुनर्भवनं तेन दूषितमिति तद्वृत्तिः मांसभक्षकस्य च घातकत्वमेव। यतः 'हन्ता पलस्य विक्रेता, संस्कर्ताभक्षकस्तथा। क्रेतानुमन्तादाताच, धातका एव यन्मनुः 4 तथा भक्षकस्यैवान्यपरिहारेण बन्धकत्वं यथा "ये भक्षयन्त्यन्यपलं, स्वकीयपलपुष्टये। त एवघातका यन्न, वधको भक्षकं विना५" इति मधु च माक्षिकं 1 कौत्तिकं 2 भ्रामरं 3 चेति त्रिधा इदमपि बहुप्राणिविनाशसमुद्भवमिति हेयम् / यतः "अनेकजन्तुसंघातनिघातनसमुद्भवम्। जुगुप्सनीयं लालावत्कः स्यादयति भाक्षिकमिति'' नवनीतमपि गोमहिष्यजाविसंबन्धेन चतुर्दा तदपि सुक्ष्मजन्तुराशिखानित्वात्त्याज्यमेव। यतः “अन्तर्मुहूर्तात्परतः सुसूक्ष्माजन्तुराशयः। यत्र मूर्च्छन्ति तन्नाद्यं, नवनीतं विवेकिभिरिति। 4aa तथा उदम्बरकेणोपलक्षितंपञ्चकंवट 1 पिप्पलो२दुम्बर ३प्लक्ष 4 काकोदुम्बरी 5 फललक्षणं उदुम्बरकपञ्चकं मशकाकारसूक्ष्मबहुजीवनिचितत्वाद्वर्जनीयम् / ततो योगशास्त्रे "उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् / पिप्पलस्य च नाश्नीयात्फलं कृमिकुलाकुलम्। 1 लोकेपि' "कोऽपि क्वापि कुतोऽपि कस्यचिदहो चेतस्यकस्माज्जनः, केनापि प्रविशत्युदुम्बरफलप्रा