________________ उवणय 925 - अमिधानराजेन्द्रः - भाग 2 उवणय गुणगुणिनौ 1 क्रियाक्रियावन्तौ 2 जातिव्यक्ती 3 नित्यद्रव्यविशेषौ चेति 4 एवं एकद्रव्यानुगतभेदा उच्यन्ते ते सर्वेऽपि उपनयस्यार्था ज्ञातव्याः। अवयवावयविनौ इति अवयवादयो हि यथाक्रममवयव्याद्याश्रिता एव तिष्ठन्तेऽविनश्यन्तो विनश्यदवस्थास्त्वनाश्रिता एव तिष्ठन्ते इत्यादि।। अथासद्भूतव्यवहारं निरूपयति। असद्भूत व्यवहारो, द्रव्यादेशपचारतः। परपरिणतिश्लेष-जन्यो भेदो नवात्मकः॥४|| असद्भूतव्यवहारःसकथ्यते यः परद्रव्यस्यपरिणत्या मिश्रितः अर्थात् द्रव्यादेर्द्धर्माधर्मादरुपचारतः उपचारणात् परपरिणतिश्लेषजन्यः परस्य वस्तुनः परिणतिः परिणमनं तस्य श्लेषः संसर्गस्तेन जन्यः परपरिणतिश्लेषजन्यः। असद्भूतव्यवहारः कथ्यते। अत्र हिशुद्धस्फटिकसंकाशजीवभावस्य परशब्देन कर्म कथ्यते तस्य परिणतिः पञ्चवर्णादिरौद्रात्मिका तस्याः श्लेषोजीवप्रदेशैः कर्मप्रदेशसंसर्गस्तेन जन्यः उत्पन्नः परपरिणतिश्लोषजन्यः असद्भूतव्यवहाराख्यो द्वितीयो भेदः कथ्यते। स नवधा नवप्रकारो भवति। तथाहि द्रव्ये द्रव्योपचारः 1 गुणे गुणोपचारः 2 पर्याये पर्यायोपचारः३ द्रव्ये गुणोपचारः 4 द्रव्ये पर्यायोपचारः 5 गुणे द्रव्योपचारः 6 गुणे पर्यायोपचारः७पर्याये द्रव्योपचारः 8 पर्याये गुणोपचारः 6 इति / सर्वोऽपि असद्भूतव्यवहारस्यार्थो द्रष्टव्यः अत एवोपचारः पृथक् नयो न भवति मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते सोऽपि संबन्धाविनाभावः श्लेषः संबन्धः परिणामपरिणामिसंबन्धश्रद्धाश्रद्वेयसबन्धः ज्ञानज्ञेयसंबन्धश्चेति / भेदोपचारतया वस्तुव्यवहियते इति व्यवहारः गुणगुणिनोर्द्रव्यपर्याययोः संज्ञासंज्ञिनोः स्वभावतद्वतोः कारकततोः क्रियातद्वतोभ॑दादभेदकः सद्भूतव्य-वहारः / शुद्धगुणगुणिनोः शुद्धद्रव्यपर्याययोर्भेदकथनं शुद्धसद्भूतव्यवहारः 2 तत्र उपचरितसद्भूतव्यवहारः सोपाधिकगुणगुणिनोर्भेदविषयः / उपचरितसद्भूतव्यवहारो यथाजीवस्य मतिज्ञानादयो गुणाः। निरुपाधिकगुणगुणिनोर्भेदको ऽनुपचारिसद्भूतव्यवहारो यथा जीवस्य केवलज्ञानोदयो गुणाः / 4 शुद्धगुणगुणिनोरशुद्धद्रव्यपयियोर्भेदकथनमशुद्धसद्भूतव्यवहार 5 इत्यादिप्रयोगवशाद्ज्ञेयमिति॥ अथ नवभेदानसद्भूतव्यवहारजन्यान् विवृणोति। द्रव्ये द्रव्योपचारो हि, यथा पुदलजीवयोः। गुणे गुणोपचारच, भावद्रव्याख्यलेश्ययोः॥५|| पर्याये किल पर्यायो-पचारश्च यथा भवेत्। स्कन्धा यथात्मद्रव्यस्य, गजवाजिमुखाः समे।।६।। हि निश्चितं द्रव्ये गुणपर्यायवति वस्तुनिद्रव्योपचारः द्रव्यस्य प्रस्तुतस्यो पचारः उपचरणमात्रधर्मः यथेति द्रष्टान्तः श्रीजिनस्यागमे पुद्रलजीवयोरैक्यं जीवः पुद्रलरूपः पुद्गलात्मकः अत्रजीवोपि द्रव्यं पुद्गलोऽपिद्रव्यम् उपचारेण जीवः पुगलमय एवासद्भूतव्यव-हारेण मन्यते नतु परमार्थतः यथा च क्षीरनीरयोायात् क्षीरं हि नीरमिश्रितं क्षीरमेवोच्यते व्यवहारात् / एवमत्र जीवे जीवद्रव्ये पुद्रलद्रव्यस्योपचारः 1 पुनर्गुणे गुणोपचारो गुणे रूपादिके गुणस्योपचारः यथा भावलेश्याद्रव्यलेश्यायोरुपचारः भावलेश्या हि आत्मनोऽरूपी गुणस्तस्य हि यत्कृष्णनीलादिकथनं वर्ततेतद्धि कृष्णादिपुद्गलद्रव्यजगुणस्योपचारोऽस्ति अयं हि आत्मगुणस्य पुद्गलगुणस्योपचारो ज्ञातव्यः / / 5 / / पर्याये पर्यायविषये नरत्वादिके पर्यायस्य तदादिकस्यैवोपचारः यथा आत्मा द्रव्यपर्यायस्य तदादिकस्यैवोपचारः यथा गजवाजिमुखाः पर्यायस्कन्धा उपचारादात्मद्रव्यस्व समानजातीयद्रव्यपर्यायास्तेषां स्कन्धाः कथ्यन्ते ते च आत्मपर्यायस्योपरि पुद्गलपर्यायस्य उपचरणात्स्कन्धा व्यपदिश्यन्ते व्यवहारात्। अथ द्रव्ये गुणोपचारः। द्रव्ये गुणोपचारख, गौरोऽहमिति द्रव्यके। पर्यायस्योपचारच, ह्यहं देहीति निर्णयः // 7 // यथाहं गौर इति ब्रुवतामहमित्यात्मद्रव्यम् तत्र गौर इति पुद्गलस्योज्वलताख्यो गुण उपचरितः।४।अथवा द्रव्ये पर्यायोपचारः। अथवा "अहं देहीति निर्णयः" इत्यत्र अहमिति आत्मद्रवयं तत्रात्मद्रव्यविषये देहीति देहमस्यास्तीति देही देहमिति पुद्गलद्रव्यस्य समानजातीयद्रव्यपर्याय उपचरितः॥५॥ गुण द्रव्योपचारच पर्यायेऽपि तथैव च। गौर आत्मा देहमात्मा, दृष्टान्तौ हि क्रमात्तयोः || गुणे द्रव्योपचारश्च तथा पर्याय गुणोपचारश्च / एवं द्वौ उपनयासदूतव्यवहारस्य भेदौ / अथ तयोरेवानुक्रमेण दृष्टान्तौ यथा "अयंगौरी दृश्यते स चात्मा" अत्र गौरमुद्दिश्यात्मनो विधानं क्रियते यत्तदिह गौरतारूपपुद्गलगुणोपरि आत्मद्रव्यस्योपचारपठनमिति / 6 पर्याय द्रव्येपचारो यथा 'देहमिति आत्मा" अत्र हि देहमिति देहाकारपरिणतानां पुद्गलानां पर्यायेषु विषयभूतेषु च आत्मद्रव्यस्योपचारः कृतः देहमेवात्मा देहरूपपुद्गलपर्यायविषय आत्मद्रव्यस्थापौद्रलिकस्योपचारः कृत इति सप्तमो भेदः ७"अततिसातत्येन गच्छति तांस्तान्पर्यायानित्यात्मा'' अत्र पर्यायाणां द्रव्यभावभेदितानां गमनप्रयोगो यद्यपीष्टस्तथापि असद्भूतव्यवहारविवक्षावलेन उपचारधर्मस्यैव प्रधान्यात् बहिः पर्यायावलम्बनेन कर्मजशुभाशुभपुद्गलपरिणतगौराख्यवर्णोपलक्षित आत्मा भासते तदा गौर आत्मेति प्रतीतिर्जायते अन्यथा आत्मनः शुद्धस्याकर्मणः कुतो गौरत्वध्वनिः। अत एव उपचारधर्मो देहमात्मेत्यत्र तु औदारिकादिपुद्गलप्रणीतं देहमौदयिकेनाश्रित आत्मा उपलभ्यते तदा देहमात्मेति उपचारध्वनिः // 6 // अथाष्टमभेदोत्कीर्तनमाह। गुणे पर्यायचारश्च, मतिज्ञानं यथा तनुः। पर्याये गुणचारोऽपि, शरीरं मतिरिष्यते || गुणे पर्यायोपचारः पर्यायचार इति उपचारो वाच्यो भीमो भीमसेन इति वत्। यथा मतिज्ञानम् तदेव शरीरशरीरं शरीरजन्यं वर्तत ततः कारणात् अत्र मतिज्ञानिरूपात्मकगुणविषये शरीररूपपुद्गलपर्यायस्योपचारः कृतः 18 / अथ नवमभेदोत्कीर्तनमाह ! पर्याये गुणोपचारः यथा हि पूर्वप्रयोगजमन्यथा क्रियते यतः शरीरेतदेव मतिज्ञानरूपो गुणोऽस्ति अत्र हि शरीररूपपर्यायविषये मतिज्ञानरूपाख्यस्य गुणस्योपचारः क्रियते शरीरमितिपर्यायः तस्मिन् विषये मतिज्ञानाख्योगुणस्तस्य चोपचारः कृतः अत्र च अष्टमनवमविकल्पयोः समविषमकरणेनोपचारो विहितस्तत्रापि सहभाविनो गुणाः क्रमभाविनः पर्यायाः सहभावित्वं च द्रव्येण क्रमभावित्वमपि द्रव्येणैव ज्ञेयमतो द्रव्यस्यैव गुणाः पर्याया अपि द्रव्यस्यैव गुणपर्याययोः पर्यायगुणयोश्च परस्परमुपचारोव्यवहारः कृतः / यत्रोपचारस्तत्र निदर्शनमात्रमेव विसदृशधर्मित्वेन धर्मारोपवत् / किं च मतिज्ञानमात्मनः कश्चिदुद्धटितोगुणः शरीरंचपुगलद्रव्यस्यसमवायिकारण यथा मृत्पिण्डो घटस्य समवायिकारणमितिवत्। एवं सति उपचारो आ