________________ उवट्ठाणा 123 - अभिधानराजेन्द्रः - भाग 2 उवणय उउमासं समईआ, कालाईआउसा भवे सिजा। साचे व उवट्ठाणा, दुगुणदुगुणं पवजित्ता। ऋतुबद्धे मासं समतीतानि यानि वासेन उपलक्षणाद्वर्षाकाले वा चतुष्कालातीतासु कालातीतैव सा भवेच्छय्या वसतिः। अन्ये त पाठान्तरतः इत्थं व्याचक्षते। ऋतुवर्षयोः समतीता निजं कालं ऋतुबद्धे मासं वर्षाकाले चतुर इति शेषं मूलवत् / सैवोपस्याना सैव मासादिकल्पोपयक्ता उपस्थानवती भवति / कथमित्याह / तद-- द्विगुणद्विगुणमित्युभयकालसंपरिग्रहार्थं वीप्सा वर्जयित्वा प्रहृत्य मासकल्पे मासवर्जनीया वर्षावस्थाने चतुर्मासिकद्वयमिति। भावार्थः। // 13 // पं०व०(अधिकं वसइशब्दे वक्ष्यते) उपस्थितः / समाश्रिते, / सूत्र०१ श्रु०२ अ० / आश्रिते, "निम्ममत्तमुवडिओ" आतु०। सूत्र०।लग्ने, "नवट्ठिया मे आयरिया विज्जामंत तिगिच्छया" उत्त०२० अ०। प्राप्ते, "जण्णवादमुवडिओ" उत्त०१२ अ० / “आभिओगमुवट्ठिया" द०४ अ०। सम्यग् नुष्ठानं कृतवति, सूत्र०२ श्रु०१ अ०। प्रत्यासन्नीभूते, स०। सामीप्येन स्थिते, आव०१० अ०। प्रव्रज्यायां प्रविव्रजिषौ, स०। प्रहीभुते, अभ्युद्यते, पा०। "अहमवि तं उवट्ठिओ तं महव्वयउच्चारणं" 503 अधि० / प्राप्तकरणावलये, पंचा०२२ विव०। उवडहित्ता त्रि०(उपदाहयितृ) उपदाहके "अगणिकायेणं कायमुवडहित्ता भवति" अग्निकायेन तप्तायसा वा कायमुपदाहयिता भवति / सूत्र०२ श्रु०२ अ० उवणंद पुं०(उपनन्द) ब्राह्मणग्रामवासिनि नन्दभ्रातरि, नन्दपाठके, श्रीवीरे प्रविष्टे नन्देन प्रतिलाभिते च / उपनन्दगृहे गोशालः पर्युषितान्नदानेन रुष्टस्तद् गृहदाहाय शशाप (वीर शब्दे चैतत्) स्थविरस्थार्यसंभूतविजयस्य द्वादश शिष्याणां द्वितीये शिष्ये। कल्प०॥ उवणगर अव्य०(उपनगर) सामीप्ये, अव्ययी भावः समासः नगरस्य सभीपे, औ०॥ उवणगरग्गाम पुं०(उपनगरग्राम) नगरस्थ समीपमुपनगरं तत्र ग्राम उपनगरग्रामः / पुरोपकण्ठे ग्रामे, "चंपारणयरीए उवणगरग्गामं उवागए" औ०। आ० चू०॥ उवणचिज्जमाण त्रि०(उपनय॑मान) नर्तनं कार्यमाणे, औ०॥ उवणमंत त्रि०(उपनमत्) प्राप्नुवति,प्रश्न० अ० 4 द्वा० / ढौक माने, सूत्र०१ श्रु०२ अ०॥ उवणय न०(उपनत) नृत्यारे, तं०।। *उपनय पुं० गुणोक्ती, स्तुतौ, प्रव० 141 द्वा० / उपसंहारे दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजने, // प्रव०६६ द्वा० / तथा न तथेति वा पक्षधर्मोपसंहारे, तद्यथा अनित्यः शब्दः कृतकत्वाद्घटवत्तथा चायम् अनित्यत्वाभावे कृतकत्वमपिन भवत्याकाशवत्तथाऽय-मिति। सूत्र० १श्रु०१३ अ०। उपनयं वर्णयन्ति हेतोः साध्यध-र्मिण्युपसहरणमुपनय इति यथा धूमश्चात्र प्रदेश इति / 20 / नयानां समीपे उपनयाः। सद भू तव्यवहाराऽसद् भू तव्यवहारो पचरित सद - भूतव्यवहाराऽख्यनयत्रिके // तद्धेदवक्तव्यता यथाये मार्ग सरलं त्यक्त्वो-पनयात्कल्पयन्ति वै / तत्यपञ्चविबोधाय, तेषां जल्पः प्रतापये // 7 / / नया न्यायानुसारेण, नवचोपनयास्वयः। निश्चयव्यवहारौ हि, तदध्यात्ममतानुगौ ||8|| येच केचन कल्पकाः सरलं सममेतदुक्तलक्षणं मार्ग नयनिगम-पन्थानं त्यक्त्वा विमुच्य उपचारादिग्रहीतुमिच्छयोपनयान् नयानां समीपे उपनयास्तान्कल्पयन्ति दिगम्बरशास्त्रे हि द्रव्यार्थिकः 1 पर्यायार्थिकः 2 नैगमः 3 संग्रहः 5 व्यवहारः 5 ऋजुसूत्रं 6 शब्दः 7 समभिरूढः 5 एवंभूतः / इति नव नयाः स्मृताः / उपनयाश्च कथ्यन्ते नयानां समीपमुपनयाः सद् भूतव्यवहारः असद् भूतव्य-वहार उपचरितसद् भूतव्यवहारश्चेति उपनयास्त्रेधा इति / तत्प्रपञ्चस्तद्विस्तारः शिष्यबुद्धिद्वन्द्वनमात्रमेवास्ति तथापि विबोधाय समानतन्त्रत्वेन परिज्ञानाय तेषां नयानां जल्प उल्लापः प्रतायते स्वप्नक्रियाया उच्यते इत्यर्थः 7 (नयेति)न्यानुसारेण तन्मतीयग्रन्थगताभिप्रायेण नया नव सन्ति पूर्वोक्ताः ज्ञेयास्तथा उपनया-स्त्रय एवं सन्ति तेऽप्युपनयाः सद् भूतव्यवहारादयस्त्रय इति। तथा चाध्यात्माख्योऽपि मतभेदः कश्चिदस्ति तत्र च तदध्यात्ममतानुगौ तच्छैलीपरिशीलितौ नयौ निश्चयेन द्वावेव कथितौ तत्रैको निश्चयनयः 1 अपरो व्यवहारनयश्चेति २दावेवनाधिकौ। अभेदोपचारतया वस्तुनिश्चीयत इति निश्चयः यथा "जीवः शिवः जीवो, नान्तरं शिवजीवयो" रिति / भेदोपचारतया वस्तु व्यवहियत इति व्यवहारः / यथा "कर्मबन्धौ भवेञ्जीवः कर्ममुक्तस्तदा शिवः" इति / / द्र०५ अध्या०॥ अथोपनयानां प्रकारमाह। त्रयचोपनयास्तत्र, प्रथमो धर्मधर्मिणोः। भेदाच्छुद्धस्तथाऽशुद्धः, सद्भूतव्यवहारवान्।।१।। ज्ञानं यथात्मनो विश्वे, केवलं गुण इष्यते। मतिज्ञानादयोऽप्येते, तथैवात्मगुणा भुदि॥२॥ गुणो गुणी च पर्यायः पर्यायी च स्वभावकः / स्वभावी कारकस्तद्वा-नेकद्रव्यानुगाविधा / / 3 / / तत्रेत्यधिकारसूचकविषयसप्तमीयम्। नयानां समीपमुपनया स्त्रयस्त्रिसंख्याकाः / तेषु त्रिषु प्रथम आद्यो धर्मश्च धर्मी च तयो |दस्तस्मात्। धर्मधर्मिणोरसाधारणं कारणं धर्मः सचधर्मोऽस्यास्तीति धर्मी तयोरिति द्वन्द्वसमासेन भेदात् द्विधा द्विप्रकारः / एतावता यः प्रथमभेदो धर्मधर्मि भेदाजातः सोऽपि द्विविधो ज्ञेयः / एकः शुद्धोऽपरो द्वितीयोऽशुद्धः / कथंभूतः शुद्धस्तथाशुद्धश्च सद्भूतव्यवहारवान् सद् भूयते ऽनेनेति सद्भूतः व्यवह्रियत इति व्यवहारः सद्भूतश्च व्यवहारश्व सद् भूतव्यवहारौ शुद्धाशुद्धौ तौ विद्येतेअस्येति सद्भुतव्यवहारवान् शुद्धयोधर्मधर्मिणो दाच्छुद्धसद् भूतव्यवहारः ||1|| अशुद्धधर्मधर्मिणो- दादशुद्धसद् भूतव्यवहारः।।२।। सद् भूतस्त्वेकं द्रव्यमेवास्ति भिन्नद्रव्यसंयोगापेक्षा नास्ति / व्यवहारस्तु भेदापक्षयेत्येवं निरुक्तिः / / 1 / / (ज्ञानेति (यथा विश्वे जगति आत्मनः केवलं ज्ञानं गुण इति षष्ठीप्रयोगः / इदमात्मद्रव्यस्य ज्ञानमिति तथा मतिज्ञानादयोऽपि आत्मद्रव्यस्य गुणाः इति व्यवह्रियन्ते केवलज्ञानं यद्वर्तते स एव शुद्धः आत्मास्ति 1 मत्यादयो ज्ञानानि केवलावरणविशेषिताव्यवहारा अशुद्धा लक्ष्यन्ते इति।। (गुणेति) गुणो रूपादिः गुणी घटः १पर्यायः मुद्राकुण्डलादिः पर्यायी कनकं 2 स्वभावो ज्ञानं स्वभावी जीवः 3 कारकश्चक्रदण्डादिः कारकी कुलालः 4 अथवा