________________ उवट्ठवणा 920 - अभिधानराजेन्द्रः - भाग 2 उवट्ठवणा अभिधानहेतुकुशल इति अभिधानेषु शब्देषु हेतुसाध्यगम केषु कुशलो दक्षोऽभिधानहेतुकुशलः शब्दमार्गे चातीव क्षुन्न इत्यर्थः / अत एव बहुषु विद्वत्सभासु नीराजितो निर्वर्तितः इत्थंभूतः सन् राजभवनं गत्वा तं राजद्वारस्) प्रतीहारं भणति किं भणतीत्यत आह / / पडिहाररूवी भण रायरूविं, तहड्डए संजयरूवि दटुं। निवेदइत्ता यस पत्थिवस्स, ओविट्ठए जत्थ तयं पवेसे / / हे प्रतीहाररूपिन् मध्ये गत्वा राजरूपिणं राजानुकारिणं भण ब्रूहि यथा त्वां संयतरूपी द्रष्टुमिच्छति / एवमुक्तः सन् प्रतीहारस्तथैवास्य निवेदयति / निवेद्य च राजानुमत्या यत्र नृपोऽवतिष्ठते तत्र तकं साधु प्रवेशयति॥ तं पूयइत्ताण सुहासणत्थं, पुट्विंसु एगागय कोउ हल्लो। पण्हे उराले असुए कयाइ, सवा विआरुक्खड़पत्थिवस्स / / तं साधु प्रतिष्ठमानं राजा पूजयित्वा शुभासनस्थं शुभे आसने निषण्णमागतकुतूहलः समुत्पन्नकुतूहलोऽद्राक्षीत् कानित्याह / प्रश्नान् उदारान् गम्भीरार्थान् कदाचिप्यश्रुतान् / प्रतीहाररूपिन् तथा त्वमपि यादृशश्चक्री चक्रवर्ती तादृशो न भवसि रत्नाद्यभावाद् (अत्रान्तरे चक्रवर्तिसमृद्धिराख्यातव्या) किं तु प्रतापशौर्यन्यायानुपालनादिना तत्प्रतिरूपोऽस्ति तत उक्तं राजरूपिणं ब्रूहि चक्रवर्तिप्रतिरूपमित्यर्थः / एवमुक्ते राजा प्राह त्वं कथं श्रमणानां प्रतिरूपी तत आह / / समणाणं पडिरूवी, जं पुच्छसि वा यतं कहमहंति। निरईयाए समणा, न तहा हं तेण पडिरूवं / / यत्त्वं राजन्पृच्छसि। अथ कथं त्वं श्रमणानां प्रतीरूपी तद्ह कथयामि यथा श्रमणा भगवन्तो निरतिचारा न तथाहं ततः श्रमणानां प्रतिरूपी नतु साक्षाच्छंमण इति। प्रतिरूपत्वमेव भावयति। निव्यूढोमि नरेसर, खेत्ते विजईण अत्थिओन लभे। अतियारस्स विसोही, पकरेमि पमायमूलस्स। हेनरेश्वर ! पृथिवीपते ! प्रमादमूलस्यातिचारस्य संप्रति विशोधिं करोमि। तां च कुर्वन् नि_ढोस्मि निष्काशितोऽस्मि ततः आस्तामन्यक्षेत्रेऽपि यतीनामहं स्थातुंन लभेततः श्रमणप्रतिरूप्यहमिति। राजा प्राह। कस्त्वया कृतोऽतीचारः। का च तस्य विशोधिरेवं पृष्टे यत्कर्तव्यं तदाह। कहणाउट्टण आगमण-पुच्छणं दीवणा य कजस्स। वीसज्जियंति य मया, हासुस्सितो भणइ राया।। कथनं राज्ञा पृष्टस्य सर्वस्याप्यर्थस्य प्रवचनप्रभावना भवति / तत आवर्त्तनमाकम्पनं राज्ञो भक्तीभवनमिति भावः / तदनन्तरमागमनप्रच्छनमागमनकारणस्य प्रश्नः केन प्रयोजनेन यूयमत्रा--गताः स्था अत्रान्तरे येन कार्येण समागतस्तस्यदीपना प्रकाशना ततो राजा हासोत्कलितोऽतिहासेन उत्सृतो हृष्टोद्भासः स्मितो हसितमुखः प्रहृष्टश्च सन्नित्यर्थः। भणतियथा मया विसर्जितंमुत्कलितमित। अथ किं तत्कार्य यस्य राज्ञो मुत्कलनं कृतमि-त्यत आह। वायपरायणकुवितो, चेइयतहव्वसंजतीगहणे। पुटवत्तावणचउण्ह वि, कजाण हवेज अन्नयरं / / वादे पराजयेन कुपितः स्यात् / अथवा चैत्यं जिनायतनं किमपि तेनावष्टब्धं स्यात्। ततस्तस्मान्मोचनात्क्रुद्धो भवति। यदिवा तद्रव्यस्य चैत्यद्रव्यस्य ग्रहणेऽथवा संयत्या ग्रहणे ततः पूर्वोक्तानां कल्पाध्यय- | नोक्तानां चतुर्णा निर्विषयत्वाज्ञापनादीनामकार्याणा-मन्यतरत्कार्य भवेत्॥ संघो न लहति कजं, लद्धं कझं महाणुभागेण। तुमं तु विसजेमी,सो वि य संघोत्ति पूएइ॥ निर्विषयत्वाज्ञापनमुत्कलनादिलक्षणं कार्य संघो न लभते किं तेनावस्थाप्येन पाराञ्चितेन वा महानुभागेन लब्धं न च स एव कार्यलाभेऽपि गर्वमुद्वहति यत आह तुम्भंतु इत्यादि। राजा प्राह / युष्मों तु निश्चितं प्रभावेनाहं पूर्वग्राहं विसृजामिनान्यथा। सोऽपि च ब्रूते। राजन् कोऽहं कि यन्मात्रो वा गरीयान् संघो भट्टारकस्तत्प्रभावादहं किंचिद्यस्मात्संघमाहूय क्षमयित्वा च यूयमेवं ब्रूथ मुत्कलितं मया युष्माकमिति संघं पूजयति। ततः किमित्याह / / अब्भत्थितो व रण्णा, सयं च संघो विसज्जयति। आदीमज्झवसाणे, स वा विदेसो धुओ होइ / / अभ्यर्थितो वा राज्ञा संघो यदि वा संतुष्टः संघो विसर्जयति। किमुक्तं भवति। यद्व्यूढं शेषं सर्वं प्रसादेन मुक्तः सोऽग्रहस्थीभूत एवोपस्थाप्यते इति। एतदेवाह सचापि दोषो धुतः प्रकम्पितःप्रसादेन स्फेटित इत्यर्थः / आदौ मध्ये अवसाने वा भवति। राजानुवृत्तिद्वारं गतम्। इदानी प्रद्विष्टस्वगणद्वारमाह।। सगणो य पदुट्ठो से, आवण्णो तं च कारणं नत्थि। एएहिं कारणेहि य, गिहिभूते उवट्ठवणा।। (से) तस्याचार्यस्य स्वगणप्रसिद्धः सन् ब्रूते / यथाऽमुकेन कारणेनैष पाराञ्चितप्रतिपत्त्या गृहीभूतत्वमापन्न इति तच कारणं तस्याचार्यस्य नास्ति / एताभ्यां स्वगणप्रद्वेषकारणाभावलक्षणाभ्यामगृहीभूते अगृहस्थीभूतस्य उपस्थापना क्रियते एष गाथाक्षरार्थः / / भावार्थस्त्वयम् ।एगा तरुणी बहुसुयणं घेत्तुंपव्वइया। अन्नया ताए संजतीए आयरितो उ भासिओ। आयरिएणं नेच्छिया / ताहे सा पदोसमापन्ना आयरियस्स तेसिं संजए पव्वयाणं कहे इमं एस आयरिओ उवसग्गेइ। ताहे ते संजतीए नियल्लग पव्वइया आयरियस्स पउट्ठा भणंति ।एस आयरिओ पारंचिए गिहिभूतो आभवइ / ततो आयरिओ अन्नं गणं गंतु सव्वं जहट्ठियं परिकहेइ तं वावन्नं अण्णत्थं कुणह गिहियंति तवेंति। ते नाऊण पउहे माहोहिति / ते मिगस्स तरउत्ति मिच्छिच्छा मा सफला होहित्ति तोसितो अगिहिभूतो" काचित् व्रतिनी बहुस्वजनान् भासते या वान् प्रतिसिद्धा सती (छोभगमिति) अभ्याख्यानं दद्यात्कालत्रयेऽपि सप्तमीति दत्तवती तथाभ्याख्यानसंपादितं प्रायश्चित्तमन्यत्र गणे स आचार्यो बहति चेत् संयतीस्वजनाः प्रद्विष्टा ब्रूवते। कुरुतैनमाचार्यं गृहिकं गृहस्थीभूतमिति / ते वरणान्तरस्थविरास्तान्प्रद्विष्टान ज्ञात्वा मा तेषां गम्यतरः पश्चाभूदिति तेऽपि कैतवेन क्षेत्राहिस्तत्समीपे स्थितां तथा मा तेषां मिथ्यारूपा इच्छा सफला भवेदिति सोऽगृहीभूत एवोपस्थाप्यते। गतं स्वगणप्रद्विष्टद्वारम्। अधुना परमोचापनद्वारमाह। सोऊण लिंगकरणं, अणुरागेणं भणंति अगियत्थो / मा गीयं कुणह गुरुं, अह कुणह इमं निसामेह / / विद्धंसामो अम्हे, एवं ओहावणे जइ गुरूर्ण / एएहिं कारणेहिं, अगिहिभूते उवट्ठवणा / /