________________ उवट्ठवणा 619 - अभिधानराजेन्द्रः - भाग 2 उवट्ठवणा किं वा तस्स न दिजइ, गिहिलिंग तेण भावतो लिंगे। अजढे विदव्वलिंगे, सलिंगपडिसेवणावि जढं। अपभ्राजितो ग्लानिमापादितः सन् पुनरपि सतादृशमतीचार न करोति। | शेषाणामपि च साधूनां भयमुत्पादितं भवति / येन तेऽप्येवं न कुर्वते / तस्माद्गृहिरूपे गृहस्थता रूपस्य धर्माताधदिनपेतान्याच्येत तस्यापि याच्यमानागृहस्थरूपतेति भावः (किंवेत्यादि) किं वा केन वा कारणेन तस्य न दीयते गृहिलिङ्गं दातव्यमेव तस्य गृहिलिङ्गमित्यर्थः / येन कारणेनापरित्यक्तोऽपि द्रव्यलिङ्गे स्वलिङ्गे प्रतिसेवनात् भावतो लिङ्ग विजढं परित्यक्तमिति। संप्रति सूत्रकृदेवापवादमाह। (सूत्रम्) अणवठ्ठप्पं भिक्खं पारंचियं भिक्खू गिहिभूयं वा / अगिहिभूतं वा कप्पइ, तस्स गणावच्छेदितस्स उवट्टावेत्तए जहा तस्स गणस्स पतियं सिया इति।। अनवस्थाप्यं भिक्षु पाराञ्चितं वा भूतं भिक्षु गृहीभूतमगृहीभूतं वा कल्पते / तस्य गणावच्छेदिनः उपस्थापयितुं कथमित्याह यथा तस्य प्रतीकं प्रतिकारमुपस्थापनं स्यात्तथा कल्पते नान्यथा इह यो गृहस्थीभूतः स तावदुवस्थाप्यते एवमस्यापवादविषयं वा यस्त्वगृहीभूतः सोऽयवादविषयस्तस्योत्सर्गतः प्रति विद्धत्वात् / तत्र यैः कारणैरगृहीभूतोऽप्युपस्थाप्यते तत्र यथानुवृत्त्यास्योऽगृह-- स्थीभूतोऽप्युपस्थाप्यो भवति। तथा भाव्यते इहानवस्थाप्यं पराञ्चितं वा कोऽपि प्रतिपन्नस्तस्य चायं कल्पो यावदनवस्थाप्यं पाराञ्चितं वा वहति तावदहिः क्षेत्रादवतिष्ठते / स च वहिर्यावत्तिष्ठति तावन्न गृहस्थः क्रियते किन्त्वागतः करिष्यते। बहिश्चावतिष्ठमानः स जिनकल्पिक इव भिक्षाचर्यामले पकृ द्भक्तादिग्रहणात्मिकां करोति तस्य च तथा बहिस्तिष्ठते / यथाचार्यः करोति तथा प्रतिपादयति। आलोयणं गवसेण, आयरिओ कुणइ सव्वकालं पि। उप्पण्णे कारणम्मि, सव्वपयत्तेण कायव्वं / / यस्याचार्यस्य समीपेऽनवस्थाप्यं पाराञ्चितं वा प्रतिपन्नः स आचार्यः सर्वकालमपि यावन्तं कालं तत्प्रायश्चित्तं वहति तावन्तं सकलमपि कालं यावत्प्रतिदिवसमवलोकनं करोति तत्समीपं गत्वा तद्दर्शनं करोतीत्यर्थः / तदनन्तरं गवेषणं गतोऽल्पक्लामतया तत्र दिवसे रात्रौ वेति पृच्छां करोति। उत्पन्ने पुनः कारणे ग्लानत्वलक्षणे सर्वप्रयत्नेन स्वयमाचार्येण कर्तव्यं भक्तपानहरणादि। जो उ उवेहं कुजा, आयरिओ केणइ प्पमारण / आरोवणा उ तस्स, कायय्वा पुय्वनिविट्ठा॥ यः पुनराचार्यः केनापि प्रमादेन जनव्याक्षेपादिना उपेक्षां कुरुते न तत्समीपं गत्वा तत्सरीरस्योदन्तं वहति तस्य आरोपणा प्रायश्चित्तप्रदानं पूर्वनिर्दिष्टा कर्तव्या। चत्वारो गुरुकास्तस्य प्रायश्चित्तमारोपयितव्यमिति भावः। यदुक्तमुत्पन्ने कारणे सर्वप्रयत्नेन कर्तव्यं तद्भावयति॥ आहरति भत्तपाणं, उद्वत्तेमादियंति सो कुणति। सयमेव गणाहिवती, अहं गिलाणो सयं कुणइ।। अथ सोऽनवस्थाप्यः पाराञ्चितो वा ग्लानोऽभवत् / ततस्तस्य गणाधिपतिराचार्यः स्वयमेव भक्तं पानं वा हरति आनयति उद्वर्त- | नादिकमप्यादिशब्दात्परावर्तनोद्धरणोपदेशनादिपरिग्रहः स तस्य स्वयं करोति। अथ जातो ग्लानो निरोगस्ततः स आचार्य न किमपि कारयति किं तु सर्व स्वयमेव कुरुते / अधुना यदुक्तमालोयणं गवेसणंति तद्व्याख्यानार्थमाहउमयंपि दाऊण सपडिपुच्छं, वोढुं सरीरस्स पवट्टमाणिं। आसासइत्ताण तवो किलंत, तमेव खेत्तं समुवेंति थेरा।। स्थविराः आचार्याः शिष्याणां प्रतीच्छकानां च उभयमपि सूत्रमर्थ चेत्यर्थः / किं विशिष्टमित्याह। स प्रतिपृच्छंपृच्छा प्रश्नः तस्याः प्रतिवचनं प्रतिपृच्छा प्रत्युक्तौ प्रतिशब्दः सह प्रतिपृच्छा यस्य तत् सप्रतिपृच्छं सूत्रविषये च यद्येन पृष्ट तत्र प्रतिवचनं चेत्यर्थः दत्वा तत्सकाशमुपगम्य तस्य शरीरस्य वर्तमानमुदन्तं वहति अल्पक्लामतां पृच्छतीति भावः। सोऽपि चाचार्य समागतं मस्तकेन वन्दे इति फेटावन्दनकेन वन्दते शरीरस्य वोदन्तं मू| यदि तपसा क्लाम्यति तत आश्वासयति आश्वास्यच तदेव क्षेत्रं यत्र गच्छेोऽवतिष्ठते तत्समुपगच्छन्ति। कदाचिन्न गच्छेयुरपि तत्रेमानि कारणानि॥ गेलण्णेण वि पुट्ठो, अमिणवमुक्को ततो व रोगत्तो। कालम्मि दुव्वले वा, कजे अण्णेववाघातो। इहैकस्यापि कदाचिदेकवचनं सर्वस्यापि वस्तुन एकानेकरूपताख्यापनार्थमित्यदुष्टम्।अथवा काले दुर्वले न विद्यते बलं गमने यस्मिन् गाढतपः संभवादिना दुर्वलो ज्येष्ठाषाढादिको दुःशब्दो भाववाची तस्मिन्न गच्छेत् शरीरक्लेशसंभवात् "कजे अण्णेव वा घातो इति'' अत्र सप्तमी तृतीयार्थे प्राकृतत्वात्ततोऽयमर्थः / अन्येन वा कार्येण राज्ञा प्रद्वेषतो निर्विषयत्वाज्ञापनादिना व्याघातो भवेत्ततो न गच्छेदिति / आगमने चोपाध्यायः प्रेषणीयो योऽन्यो वा तथा चाह / / पेसेइ उवज्झायं, अंग नीयं च जो तहिं जोग्गो। पुट्ठो व अपुट्ठो वा, तहा वि दीवेति तं कर्ज।। पूर्वोक्तकारणवशतः स्वयमाचार्यस्य गमनाभावे उपाध्यायं तदभावेऽन्यो वा गीतार्थस्तत्र योग्यस्तं प्रेषयति। स च तत्र गतः सन् तेन पाराञ्चितेन किमित्यद्य क्षमाश्रमणा नायाता इति पृष्टो वा अथवा न पृष्टस्तथाऽपि तत्कारणं कार्यकारणं दीपयेत् / तथा अमुकेन कारणेन क्षमाश्रमणानामनागमनं पृष्टनापृष्टेन वा दीपितं तदान किमप्यन्यत्तेन वा पाराञ्चितादितावद्वक्तव्यं किं गुर्वादेश एवोभाभ्यां यथोदितः संपादनीयः / अथ राज्ञा प्रद्वेषतो निर्विषयत्वाज्ञापनादिना व्याघातो दीपितस्तत्र यदि ते उपाध्याया अन्ये वा गीतार्थास्तस्य शक्तिं स्वयमवबुध्यन्ते ततो जानन्तः स्वयमेव तस्य महत्त्वं ब्रुवते। यथा अस्मिन्प्रयोजने त्वं योग्य इति क्रियतामुद्यमः / अथ न जानते तस्य शक्तिं ततः स एव तान् अजानानान् ब्रूते / यथा अस्ति ममात्र विषय इति / एतच स्वयमुपाध्यायादिभिर्वा भणितो वक्ति। अत्थ उ महाणुभागो, जहासुहं गुणसयागरो संघो। गुरुगं पि इमं कन्ज,मं पप्प भविस्सए लहुयं / / तिष्ठत यथासुखं महान् अनुभागोऽधि कृतप्रयोजनानुकूलाअचिन्त्या शक्तिर्यस्य स तथा गुणशतानामने केषां गुणानामाकरो निधानं गुणशताकरः सङ्घः यतः इदंगुरुकमपि कार्य मां प्राप्य लघुकं भविष्यति। समर्थोऽहमस्य प्रयोजनस्य लीलयाऽपि साधने इति भावः / एवमुक्ते सोऽनुज्ञातः सन् यत्करोति तदाह। अमिहाणहेउकुसलो, बहूसुनीराजितो वि उसभासु / गंतूण रायभवणा, भणाति तं रायदारिद्दे / /