________________ उवट्ठवणा १२१-अभिधानराजेन्द्रः - भाग 2 उवट्ठवणा "एगो बहुसिस्सो आयरिओ पडिसेवणाए गिहिभूतत्तमावण्णो सो अचं गणं गंतुं आलोएइ / तेहिं गिहिभूतो कजिउमाढत्तो / ततो तस्स सीसा भणंतिमा अम्हं गुरुं गिहिभूयं कुणह। जइ पुण अम्हं गुरूणमेवं उहावणा कीरइ ततो अम्हे सव्वे निक्खमिस्सामो। ततो तेसिं अप्पत्तियं माहोतीति। अगिहिभूतो चेव सो उवट्ठाविजई" अक्षरगमनिका आचार्यस्य गृहिलिङ्गकरणं श्रुत्वा तस्य शिष्या अगीतार्था अनुरागेण भणन्ति / मागृहिकमस्मदीयं गुरुं कुरुत ।अथ करिष्यथ तत इदं निशामयत आकण्णयत एवमपभाजना यदि गुरूणां ततो वय (विद्धसामोत्ति) उन्निष्क्रमिष्यामः एतेन खल्वनन्तरादितेन कारणेन अगृहीभूतस्य तस्योपस्थापना / गतं परमोचापनद्वारम् इदानीं मिथ्या गणद्वयविवादे इति द्वारमाह / / अण्णोण्णेसु गणेसुं, वहंति तेसिं गुरू अगीयाणं / ते विंति अण्णमण्णं, किह काहिह अम्ह थेरत्ति / / द्वौ गणौ तयोश्च द्वयोरपिगणयोः साधवो गीतार्थास्तेषां च गुरू स्थापनाह प्रायश्चित्तस्थानमापन्नौ / नवरमेकोऽगृहीभूतोपस्थापनार्हस्तो च परस्परं गणयोः प्रतिपद्येते / तद्यथा एकोऽपरस्मिन् एवमन्योऽन्यस्य गणयोस्तेषामगीतार्थानां गुरू प्रायश्चित्तं बहतस्ते गणाः परस्परं ब्रुवते कथमस्माकं स्थविरान् करिष्यथ किंगृहीभू-तानगृहीभूताद्वा तत्रयो गृहीभूतापस्थापनार्हप्राप्तस्तप्रणान् प्रतीते ब्रुवते। गृहीभूतं करिष्यामः / / गिहिभूतेत्तिय वित्ते, अम्हेवि करोत तुब्भ गिहिभूतं / अगिहिदोनिवि मए, भणंति घेरा इमं दो वि।। नवि तुडभेगो अम्हे, अगिहितया महविणिच्छेसु / इच्छा संपूरिज्जइ, गणपत्तियकारगेहिं तु / / गृहीभूतान् करिष्याम इत्युक्ते इतरे वदन्ति वयमपि तवाचार्यं गृहीभूतं करिष्यामः तत्रैवं परस्परं विवादे तान् द्वयानपि मृगान् अगीतार्थान् भणन्ति / द्वावप्यगृहीभूतौ वयमुपस्थापयिष्यामः / इतरौ च द्वावप्याचार्याविदं ब्रूतः न वयमगृहीभूता शुद्ध्यामः तस्माद्गृहीभूताः क्रियामहे इति एवं यद्यप्यगृहीभूतोपस्थापनां ते नेच्छन्ति तथापि तेषु तथा अनिच्छत्स्वपि गणप्रीतिकारकैर्महद्भिः स्थविरैः सद्भिस्तेषां द्वयानामपि गणसाधूनामिच्छा पूर्यते द्वावप्यप्रीतिपरिहारार्थ गृहस्थीभूताबुपस्थाप्येतेइत्यर्थः / व्य० प्र०२उ०ा येषुस्थानेष्वपराधपदेषु पूर्वचरमाणां साधूनामुपस्थापना भवति तानि निरूपयितुमाह / / सा जेसि उवट्ठवणा, जेहिट्ठाणेहिं पुरिमचरिमाणं। पंचायामे धम्मे, आदेसतिगं च मे सुणसु॥ सा उपस्थापना येषां भवति ते वक्तव्या येषु वा स्थानेष्वपराधपदेषु पूर्वचरमाणां साधूनां पञ्च यामे धर्मे स्थितानामुपस्थापना भवति तान्यपि वक्तव्यानि तत्र येषामुपस्थापना ते तावदभिधीयन्ते तत्रादेशत्रयं दश वा षट् वा चत्वारो वा उपस्थापनायाम: भवन्ति। तथा आदेशत्रिकं मे इति मया यथाक्रमं वक्ष्यमाणं शृणु।। तओ पारंचिया वुत्ता, अणवट्ठाय तिण्णि उ। दसणम्मि य मंतम्मि, चरित्तम्मि य केवले / / 1 / / अदुवा वि यत्तकिच्चे, जीवकाए समारभे। सेहे दसमे वुत्ते, जस्स उवट्ठावणा भणिया // 2 // ये चतुर्योद्देशके त्रयो दुष्टप्रमत्तान्योऽन्यकुर्वाणाख्याः पाराञ्चि-का उक्ताः ३येच त्रयः साधर्मिकान्यधार्मिकान्यकारिहस्ततालरूपा अनवस्थाप्याः | 6 येन च दर्शनं सम्यक्त्वं केवलं संपूर्णमपि वान्तं येन चारित्रं केवलं संपूर्ण मूलगुणविराधनया वान्तं 8 अथवा यस्त्यक्तकृपः परित्यक्तसकलसंयमव्यापार आकुट्टिकयाकर्षण चाजीविकावान् पृथिवीकायादीन् समारभेत : यश्च शैक्षोऽभिनवदीक्षितः स दशमः 10 उक्तः / एतद्दशकं मन्तव्यं यस्य उपस्थापना प्रथमचरमतीर्थकरेः भणिता। द्वितीयादेशमाह। जे य पारंचिया वुत्ता, अणुवट्ठप्पा य जे विदु। दसणम्मिय वंतम्मि, चरित्तम्मिय केवले ||1|| अदुवा वि यत्तकिचे, जीवकाए समारमे। सेहे छटे मे बुत्ते, जस्स उवट्ठावणा भणिया।।२।। येचदर्शनं पाराञ्चिकाः सामान्यत उक्ताः 3 ये च विद्वांसोऽनवस्थाप्याः 4 येन च दर्शनं केवलं वान्तं 5 येन चारित्रं केवलं वान्तम् अथवा यस्त्यक्तकृत्यो जीवकायान् समारभते यश्च शैक्षाषष्ठः 6 एते षट्कं प्रतिपत्तव्यम्। यस्य उपस्थापना द्वितीयादेशे भणिता। तृतीयादेशमाह / / दंसणम्मिय वंतम्मि, चरित्तम्मि य केवले। वियत्तकिचे सेहे य,उवट्ठप्पा य आहिया।। दर्शने केवलं शेषे वान्ते यो वर्तते / यो वा चरित्रे केवलं वान्ते पाराञ्चिज्ञानवस्थाप्ययोस्त्रैविान्तर्भावो विवक्षितो यश्च त्यक्तकृत्यः षट्कायविराधकः यश्च शैक्ष एते चत्वार उपस्थाप्या उपस्थापनायोग्या आख्याताः। अथतेषां मध्ये उपस्थापनीयो भवतीति चिन्तायामिदमाह॥ केवलगहणकसिणं,जति वसतीदंसणं चरित्तं वा। तो तस्स उवट्ठवणा, दोसे वंतम्मि भयणा तु॥ दर्शनचारित्रपदयोर्यत्केवलं ग्रहणं कृतं ततः इदं ज्ञाप्यते यदि कृत्स्नं निःशेषमपि दर्शनं चारित्रं वा वमति ततस्तस्योपस्थापना भवति देशे देशतः पुनदर्शनचारित्रे वा वान्ते भजना उपस्थापना भवेद्वा न वा / भजनामेव भावयति / / एमेव य किंचि पदं, सुयं व असुयं व अप्पदोसेणं / अविकोवितो कहिंतो, चोदिय आउडसुद्धे तु॥ एवमेवाविमृश्य किञ्चिजीवादिकं सूत्रार्थविषयं वा पदं श्रुतं वा अश्रुतं वा अल्पदोषेण कदाग्रहाभिनिवेशादिदोषाभावे अकोविदोऽगीतार्थः कस्यापि पुरतो अन्यद्वा कथयन् आचार्यादिनामैवं वितथप्ररूपणां कार्षीरिति चोदितः सन् यदि सम्यगावर्तते तदा स मिथ्यादुष्कृतप्रदानमात्रेणैव शुद्ध इति। तच दर्शनमनाभोगेनाभोगेन वा वान्तं स्यात्।। तत्रानाभोगेन वान्ते विधिमाहअणामोएण मिच्छत्तं, सम्मत्तं पुणरागते। तमेव तस्स पच्छित्तं, जं सम्म पडिवजई / / एकः श्राद्धो निह्नवान् साधुवेषधारिणो दृष्ट्वा यथोक्तकारिणः साधवः एते इति बुद्ध्या तेषां सकाशे प्रव्रजितः स चापरैः साधुभिर्भणितः किमेवं निह्रवानां सकाशे प्रव्रजितः स प्राह नाहमागमविशेषज्ञानवान् ततः स मिथ्यादुष्कृतं कृत्वा शुद्धदर्शनिनां समीपे उपसंपन्न एवमनाभोगेन दर्शन वमित्वा मिथ्यात्वं गत्वा सम्यक्त्वं पुनरागत-स्य तदेव प्रायश्चित्तं यदसौ सम्यक् मार्ग प्रतिपद्यते स एव च तस्य व्रतपर्यायो न भूय उपस्थापना कर्तव्या / / आभोगेन वान्ते पुनरयं विधिःआभोगेण य मिच्छत्तं, सम्मत्तं पुणरागते।