________________ उवट्टवणा 116 - अमिधानराजेन्द्रः - भाग 2 उवट्ठवणा पंचरातातो कप्पागं भिक्खं णो उवट्ठावेति कप्पाए अत्थियाई से केइमाणणिजे कप्पागे नत्थियाइंसे केइ छेदे वा परिहारे वा नत्थियाइसे के माणणिजे कप्पइसे संतराछेदे वा परिहारे वा।। अस्य व्याख्या प्राग्वत् नवरं तं चेव भाणियव्व मिति वचनादेवं परिपूर्णः पाठो द्रष्टव्यः। "कप्पाए अत्थियाइंसे केइमाणणिजे कप्पागे नत्थियाई से केइछेदेवा परिहरे वा नत्थियाइं से केइ माणणिज्जे कप्पागे से संतरा छेदे वा परिहारे वा" अस्यापि व्याख्या प्राग्वत् तत्र यैः कारणैन स्मरति तान्युपदर्शयन्नाहदप्पेण पमाएण व, वक्खेवणगिलाणतो वावि। एएहिं असमरमाणे, चउविहं होइ पञ्छित्तं // दप्पो निष्कारणोऽनादरनस्तेन प्रथममादौ विकथादीनां पञ्चानां प्रथमादीनामन्यस्तेन व्याक्षेपणसीवनादिना ग्लायते एतैः कारणैरस्मरति प्रायश्चित्तमस्मरणनिमित्तं चतुर्विधमस्मरणकारणस्य दपाश्चतुष्प्रकारत्वात्। तदेवाभिधित्सुः प्रथमतो दर्पतः प्रमादेन चाह / / वायामगिलाणादिसु, दप्पेण अणुट्ठवें ति चउगुरुगा। विकहादिपमाएणव, चउलहुगा होति बोधव्वा॥ व्यायामग्लानादिषु व्यापृततया निष्कारणोऽनादर उपस्थापनायाः स दर्प उच्यते तेन दर्पणानुस्थापयति प्रायश्चित्तं चत्वारो गुरुकाः विकथादिना अन्यतमेन प्रमादेनानुपस्थापयति चत्वारो लघुका भवन्ति बोद्धव्याः॥ सिवणतुण्णणसज्झाय,झाणलेवादिदाणकज्जेसु / विक्खेवे होइ गुरुगो, गेलण्णेणं तु मासलहू॥ सीवनतूर्णनास्वाध्यायध्यानपात्रलेपादिदानकार्यर्गाथायां सप्तमी तृतीयार्थे / यो व्याक्षेपेणाऽनुपस्थापयति प्रायश्चित्तं भवति गुरुको मासो ग्लान्येन त्वनुपस्थापयति मासलधु / संप्रति यैः कारणैः स्मरतोऽस्मरतश्चानुपस्थापयतः प्रायश्चित्तं न भवति / तान्यभिधित्सुराहधम्मकहाइडमत्तो, वादो अचुक्कडे व गेलण्णे। विइयं चरमपएसुं, दोसु पुरिमेसु तं नत्थि॥ ऋद्धिमतो राज्ञो युवराजस्यामात्यादेर्वा प्रतिदिवसमागच्छतो धर्मकथा कथ्यते परप्रवादी वा कश्चनाप्युपस्थितः स वादेन गृहीतव्यः / इति तन्निग्रहणाय विशेषतः शास्त्राभ्यासे तेन सह वादे वा दीयमाने यदि वा आचार्यस्यान्यस्य वा साधोर्यो वा उपस्थाप्यस्तस्य वा अत्युत्कटे ग्लानत्वे जाते व्याकुलीभवनतः स्मरन्नस्मरन्वा यद्यपि नोपस्थापयति तथापि न तस्य प्रायश्चित्तं कारणतो व्याकुलीभवनात् / एतच प्रायश्चित्ताभावलक्षणं द्वितीयपदमपवादपदं चरमपदयोर्द्वयोव्यक्षिपग्लानत्वलक्षणयोरवगन्तव्यम् / तथा हि धर्मकथावादाभ्यां व्याक्षेप उक्तो ग्लानत्वपदेन च ग्लानत्वमिति पुर्वयोस्त द्वयोः पदयोस्तत् अपवादपदं नास्ति / एतच्च चतुर्विधं प्रायश्चित्तमस्मरणनिमित्तमुक्तं स्मरणतस्तु चतूरात्रपञ्चरात्राद्यतिक्रमे यत्प्रायश्चित्तं तत्पूर्वसूत्रे इवात्रापि निरवशेष द्रष्टव्यम्। आयरियउवज्झाओ य समरमाणे वा असमरमाणे वा परं दसराय कप्पातो कप्पागभिक्खू णो उवट्ठावेति कप्पाए अत्थि आई से केइ माणणिज्जे कप्पागे नत्थि याइं से केइ छेदे वा परिहारे वा जाव कप्पाए संवच्छतरं तस्स तप्पतियं णो कप्पइ आय-रियत्तं वा जाव गणावच्छेइयं वा उद्दिसित्तए वा आचार्य उपाध्यायो वा स्मरन् अस्मरन्वा यदा स्मरति तदा न साधक नक्षत्रादिकं यदा तु साधकं नक्षत्रादिकं तदा बहुव्याक्षेपतो नस्मरन्वापरं दशरात्रकल्पान् दशरात्रकल्पाकं भिक्षु नोपस्थापयति तत्र यदि तस्मिन्कल्पाके अस्ति (से) तस्य कल्पाकस्य कश्चिन्माननीयः पित्रादिभिर्भावी कल्पाकस्ततो नोपस्थापयति ! तर्हि नास्ति (से) तस्यानुपस्थापयति कश्चिच्छेदः परिहारो वा / अथ नास्ति (से) तस्य कल्पाकस्य कश्चिन्माननीयः पित्रादिर्भाधी कल्पाकस्तर्हि तस्यानुपस्थापयतश्छेदः परिहारो वा प्रथमादेश इति वाक्यशेषो द्वितीयादेशेन पुनश्छेदेन परिहारतपसा वा दम्यमानस्य तत्प्रथममनुपस्थापनाप्रयतस्य संवत्सरं यावत्र कल्पत आचार्यत्वमुपदेष्टुमनुज्ञातुं संवत्सरं यावद्गणोभियते इति भावः / एष सूत्रसंक्षेपार्थः / व्यासार्थन्तु भाष्यकृदभिधित्सुः प्रथमतो दशरात्रनिबन्धनमाहसमरमाणेवि पंचदिय, समरमाणे वि तेत्तिया चेव।। कालोत्ति व समओत्तिव, अद्धाकप्पओत्ति व एगटुं / / स्मरत्यपि चउरायपंचरायातो इत्यनेन पञ्चदिनान्युक्तानि अस्मरत्यपि तावन्ति चैवपञ्च दिनानि चैवोक्तानि इदं च स्मरणास्मरणमिश्रकसूत्रतो दशरात्रात्कल्पादित्युक्तमत्रैव कल्पशब्दस्तद् व्याख्यानमाह / "काल इति वा समय इति वा अद्धा इति वा कल्प इति" एकार्थ ततो दशरात्रकल्पादिति दशरात्रकालादिति द्रष्टव्यम्। संप्रति स्मरणास्मरणं भावयति // जाहे सुमरइताहे, असाहगं रिक्खलग्गदिणमादी। बहुविक्खेवम्मि य गणे, सरियं पिपुणो वि विस्सरति / / यदा स्मरति तदा असाधक मप्रयोजकमृक्षलग्नादि आदिशब्दात् मुहूर्तादिपरिग्रहः / बहुव्याक्षेपेच गणे गच्छे स्मृतमपि पुनरपि विस्म-रति तत एवं स्मरणास्मरणसंभवः / अत्रैव प्रायश्चित्तविधिं सविशे-षमाह। दसदिवसे चउगुरुगा, दसेव छल्लहुग छग्गुरू चेव। तत्तो छेदो मूलं,णणवठ्ठप्पो य पारंची। तस्मिन्नधिकृते कल्पाके जाते सति यदि स्मरणास्मरणतो दसदिवसानतिक्रमति ततस्तस्यानुपस्थापयतः प्रायश्चित्तं चत्वारो गुरुकाः ततः परमप्यन्यानि दशैव चेत् दिनान्यतिवाहयति ततः षड्लघुकम्। ततः परतोऽपि दिनदशकातिक्रमे षारकं (ततोछेदोत्ति) ततः परमेवं छेदस्विधा वक्तव्यः। सचैवं ततोऽपि परतोयद्यन्यानिदशदिनानिलयति तर्हि चतुर्गुरुकश्छेदस्ततोऽपि परतो दिनदशकातिक्रमे षड्लघुकश्छेदः ततोऽन्यदशदिवसस्यातिवाहने पाराश्चिको जायते।। एसो देसो पढमो, वितिए तवसा अदम्ममाणम्मि। उभयवलदुव्वलेवा, संवच्छरमोदिसाहरणं / / एषोऽनन्तरोदित आदेशः प्रथमो द्वितीये आदेशे पुनस्तपसा उपलक्षणमेतच्छेदेन वा अदम्यमाने यदिवा उन्नयवले कायवलेन च उपलक्षणमेतदन्यतरैकवलेन वा तफ्सश्छेदस्य या दातुमशक्यतया संवत्सरं यावत् दिश आचार्यत्वस्य हरणम्।। एते दो आदेसा, मीसगसुत्ते हवंति नायव्वा / पढमविईएसुं पुण, सुत्तेसु इमं तु नाणत्तं // एतावनन्तरोदितौ द्वावप्यादेशौ मिश्रक सूत्रे भवतो ज्ञातव्यौ