________________ उवट्ठवणा 914 - अभिधानराजेन्द्रः - भाग 2 उवट्ठवणा गुरुकास्तपसा कालेन च गुरवः / न केवलमेतत् किं त्वाज्ञादयोऽनवस्थामिथ्यात्वविराधनादोषास्तथा स उपस्थापितो भिक्षादौ किल कल्पिको भवति / ततस्तस्य भिक्षादिप्रेषणे षण्णां कायानां विराधना अपरिज्ञानात्। तथा। सुत्तत्थमकहइत्ता, जीवाजीवे य बंधमुक्खं च / उवठावण चउगुरुगा, विराहणा जा भणियपुट्वं / / सूत्रार्थं षड् जीवनिकापर्यन्तमकथयित्वा तथा जीवाजीवान् बन्धमोक्षं चाकथयित्वा एवमेवोपस्थापने क्रियमाणे उपस्थापयितुश्चत्वारो गुरुकास्तपोगुरुकं प्रायश्चितम् / तथा या विराधना पूर्वमप्राप्तद्वारे षण्णां जीवनिकायानामुक्ता साऽत्रापि द्रष्टव्या / ततस्तस्मिन्निषण्णे समितस्य प्रायश्चित्तमुपढौकते! अणहिगयपुण्णपावं, उवट्ठवंतस्स चउगुरू हों ति। आणादिणो य दोसा, मालाए होइ दिटुंतो॥ अनधिगतपुण्यपापं सूत्रार्थकथनेऽप्यविज्ञातपुण्यपापमुपस्थाप–यतः प्रायश्चित्तं चत्वारो गुरवः / कालगुरुका मासा भवन्ति / आज्ञादयश्चानन्तराभिहिता दोषाः। अत्र मालया दृष्टान्तो यथा स्थाणौ शूलापक्षे पञ्चवर्णसुगन्धपुष्पमालामारोपयतो वदनीयतादयोदोषा एवमत्राप्यनधिगतपुण्यपापे व्रतान्यारोपयत आज्ञादय इति। उदउल्लादिपरिच्छा, अहिगयनाऊण तो व वंदें तो। एक्कं तिक्खुत्तो, जो न कुणइ तस्स चउगुरुगा / / गोचरादिगते न उदकार्दादिना परीक्षा कर्त्तव्या वृषभेण तत्परीक्षानिमित्तं तेन सगोचरगतेन उदकाइँण हस्तेन मात्रकेण वा भिक्षा ग्राह्या तत्र यदिसवारयति निषियमेतत्कथंयूयमेवं भिक्षामभिगृह्णीथ ततो ज्ञायते एष परिणतसूत्रार्थोऽधिगतपुण्यपापः। एवं शेषपरीक्षास्वपि भावनीयम्। तत उदकादिपरीक्षाभिरधिगतपुण्यपाप ज्ञात्वा ततोऽनन्तरं व्रतानि गुरवो ददति। कथमित्याह / एकैकं व्रतं त्रिः कृत्वस्त्रीन् वारान् एवं यो न करोति तस्य चत्वारोगुरुका द्वाभ्यां लघवस्तपसा कालेन च प्रायश्चित्तम्। अथ परीक्षामेव वैतत्येनाह-- उचारादि अथंडिल, वोसिरठाणाइ वावि पुढवीए। नदिमादिदगसमीवे, सागणिनिक्खित्ततेउम्मि॥ वियणमिधारणवाए, हरिए जह पुढविए तसेसुं च / एमेव गायरगए, होइ परिच्छा उकाएहिं / / उचारादिरादिशब्दात्प्रश्रवणादिपरिग्रहः / अस्थण्डिले सचित्त-- पृथिवीकायात्मके व्युत्सर्जनम् / यदि वा स्थानादिस्थानमूर्द्धस्थानमादिशब्दान्निषदनादिपरिग्रहस्तत्पृथिव्यां पृथिवीकायस्योपरि कुरुते। तथा कायविषये नद्याधुदकसमीपेऽत्रादिशब्दात्तडागादिपरिग्रहः / तथा तेजसि तेजस्कायविषये स निक्षिप्ताग्नौ प्रदेशे गाथायां तु निक्षिप्तशब्दस्यान्यथा पाठः प्राकृतत्वात् उचारादेव्युत्सर्जनमिति सर्वत्र संबध्यते / तथा वाते वातविषये व्यञ्जनस्य तालवृन्तस्या-भिधारणं वातोदीरणायाभिमुख्येन धारणं करोति / हरिते यथा पृथिव्यां तथा वक्तव्यम्। हरितकायस्योपरि स्थानादि करोति। यदिवोचारादिव्युत्सजनमिति।सेष्वपिच पृथिव्यामिव वक्तव्यं कीटिकानगराधतिप्रत्यासन्नमुचारादिस्थानादि वा करोतीति भावः / तत्र यदि वारयति तदा ज्ञायते सम्यक् परिणतोऽस्य धर्म इति योग्य उपस्थापनायाः / एवमेव गोचरगतेऽपि तस्मिन्कायैः पृथिव्यादिभिर्भवति परीक्षा कर्तव्या। तद्यथा सरजस्के नोदकाद्रण वा हस्तेन मात्रकेण वा भिक्षा ग्राह्यते इत्यादिपरीक्षितस्य व्रतारोपणं कर्तव्यम्। तथा चाहदव्दादिपसत्थवया, एकेकतिगंति उवरिमं हेट्ठा। दुविहातिविहा यदिसा, आयंविलनिविगइगावो / द्रव्यादौ प्रशस्तेव्रतान्यारोपणीयानि एकैकं व्रतं त्रिकं त्रिःकृत्वा उच्चारयेत् कथमित्याह "उवरिमं हेट्ठा" अधस्तान्मूलादारभ्य यावदुपरितनं पर्यन्तवर्तिसूत्रम् इदमेकमुचारणमेवं त्रीन्वारान् दिक् निबध्यते। द्विविधां वा त्रिविधां वा तत्र साधोर्द्विविधा स्तद्यथा। आचार्यस्योपाध्यायस्य च प्रवृर्तिन्याश्च / तथा उत्थापनानन्तरं तपः कार्यते। अभक्तार्थमाचाम्लं निर्विकृतिकमित्यादि। उक्तं च "जद्दिवसं उवट्ठावितो तदिवसं किंचि अभितुट्ठो भवइ / केसिं वि आयंविले केसिं वि निविगइयमित्यादि" / / ___संप्रति माननीयपित्रादिविषये विधिशेषमाहपियपुत्तखुडथेरे, खुड्डगथेरेअ पावमाणम्मि। सिक्खावणपन्नवणा, दिस॒तो दंडिमाईहिं।। द्वौ पितापुत्रौ प्रव्रजितौ (दिठ्ठावपि) युगयत्प्राप्तौ तर्हि युगपदुप-स्थाप्येते अथ (खुड्डुत्ति) क्षुल्लकः पुत्रः सूत्रादिभिरप्राप्तः (थेरत्ति) स्थविरः सूत्रादिभिः प्राप्तस्तर्हि स्थविरस्योपस्थापना विधेया (खुड्डत्ति) यदि पुनः क्षुल्लकः सूत्रादिभिः प्राप्तः स्थविरो नाद्यापि प्राप्तो भवति तर्हि तस्मिन् स्थविरे सूत्रादिकमप्राप्नुवति यावदुपस्थानादिवसः शुद्धः समागच्छति तावत्स्थविरस्य प्रयत्नेन शिक्षापना क्रियते। आदरेण शिष्यत इत्यर्थः / तत्र यदि उपस्था-पनादिवससमय एव प्राप्तो भवति ततो द्वावपि युगपदुस्थाप्येते। अथादरेण शिक्षमाणोऽपि न प्राप्तस्तदा स्थविरेणानुज्ञाते क्षुल्लक उपस्थाप्यते / अथ स्थविरो न मन्यते तदा प्रज्ञापना कर्त्तव्या तस्यां च प्रज्ञापनायां क्रियमाणायां दृष्टान्तो दण्डिकाद्यभियातव्यः। दण्डिको राजा आदिशब्दादमात्यादिपरिग्रहः स चैवम् ' 'एगो एय रजपरिट्ठो स पुत्तो अन्नरायाणमो लग्गउमाढत्तो / सो राया पुत्तस्स तुह्रोत से पुत्तं रखे ठावउमिच्छइ। किं सो पिया नाणुजाणइएवं तव जइ पुत्रो महव्वयरचं पावित्ति किं न मन्नसि। एतदेवसविशेषमाहथेरेण अणुनाए, उवट्ठनिच्छे व ठंति पंचाहं। ति पण मणिच्छे उवरि, वत्थुसहावेण जाहीयं / / स्थविरेणानुज्ञाते उपस्थापना क्षुल्लकस्य कर्त्तव्या / अथ स दण्डिकादिभिर्दृष्टान्तैः प्रज्ञाप्यमानो नेच्छति तदा पञ्चाहं पञ्चदिवसात् यावत्तिष्ठति ततः पुनरपि प्रज्ञाप्यते तथाप्यनिच्छायां पुनरपि पञ्चाई तिष्ठति पुनः प्रज्ञाप्यते तथाप्यनिष्टो भूयः पञ्च हमवतिष्ठते / एवं यदि त्रिपञ्चाहकालेन स्थविरः प्राप्तो भवति तदा युगपदुपस्था--पनाऽतः परं स्थविरेऽनिच्छत्वपि क्षुल्लक उपस्थाप्यते (वत्थुस-हावेण जा हीयमिति) वस्तुनः स्वभावो वस्तुस्वभावः / अहंकारी सन् / अहं पुत्रस्यावमतरः करिष्येऽहमिति विचिन्त्य कदाचिन्निष्क्रानमेतगुरोः क्षुल्लकस्य चोपरिप्रद्वेषं गच्छेत् / एवं स्वरूपे वस्तुस्वभावे ज्ञाते त्रयाणां पञ्चाहानामुपर्यपि स क्षुल्लकः प्रतीक्षाप्यते यावत्तेनाधीतमिति // अथद्वे पितापुत्रयुगले तदाऽयं विधिःदो थेरे खुड्डथेरे, खुडगवेबत्थमग्गणा होइ। रण्णो अमचमाई, संजइमज्झे महादेवी / / द्वौ स्थविरौ सपुत्रौ समकं प्रव्रजितौ तत्र यदि द्वौ स्थविरौ प्राप्तौ न क्षुल्लको ततः स्थविरावुपस्थाप्येते (खुड्डत्ति) अथ द्वावपि क्षुल्लको प्राप्तौ न स्थविरो तदा पूर्ववत् प्रज्ञापनोत्कर्वतः पञ्चदशदिवसान्यावत्कर्तव्या तथाप्यनिच्छायामुपेक्षा वस्तु