________________ उवट्ठवणा 913 - अभिधानराजेन्द्रः - भाग 2 उवट्ठवणा (से) तस्य कल्पाकस्य कश्चित् माननीयः पिता माता भ्राता वा ज्येष्ठः स्वमी वा कल्पाको भावी पञ्चरात्रेण दशरात्रेण पञ्चदशरात्रेणि वा ततो नास्ति (से) तस्य कश्चिच्छेदः परिहारोवा अत्रादेशद्वयमेके प्राहुश्चतूरात्रात् परं यद्यन्यानि चत्वारि दिनानि नोपस्थापयति तत आचार्यस्योपाध्यायस्य च प्रत्येकं प्रत्येकं प्रायश्चित्तं चतुर्गुरुकम् / अथ ततोऽप्यन्यानि चत्वारि दिनानि लङ्घ यति ततः षड् लघुकम्। ततोऽप्यन्यानि चत्वारि दिनानि ततः षड्गुरुकम्। ततोऽप्यन्यानि यदि चत्वारि दिनानि ततश्चतुर्गुरुकछेदः। ततः परमन्यानि चत्वारि दिनानि यदितर्हि षड्लघुकः षड्लघुक छेदः / ततोऽपि चेदन्यादिचत्वारिततः षड् गुरुकः षड्गुरुकश्छेदः / ततः परमेकै कदिवसाति-क्र मे मूलानवस्थाप्यपाराञ्चितानि। द्वितीयादेशवादिनः प्राहुः / पञ्चरात्रात्परं यदिनोपस्थापयति ततश्चतुर्गुरुकंप्रायश्चित्तं ततोऽपि पर यदिपञ्च दिनानि लङ्घयति ततः षट्लघुकं षट्लघुकम् / ततः परमपि पञ्चरात्रातिक्रमे षड्गुरुकं षड्गुरुकम् / ततोऽपि परं यदि पञ्चदिनानि वाहयति ततश्चतुर्गुरुकश्चतुर्गुरुकश्छेदः / ततः परमन्यानि चेद्दिनानि पञ्च ततः षड्लघुकः षड्लघुकश्छेदः / ततोऽपि पञ्चरात्रातिवाहने षड्गुरुकः षड्गुरुकश्छेदस्ततःपरमे वैकदिवसातिवाहने भुजानवस्थाप्यपाराञ्चितानि।। एष सूत्रसंक्षेपार्थः। अधुना भाष्यनियुक्तिविस्तरः। ससुगरणउवट्ठवण, तिण्णि उवणगा हवंति उक्कोसा। माणणिज्जे पितादीतु, ते समतीछेदपरिहारो॥ संस्मरणमुपस्थापनाविषये यथा एष उपस्थापयितव्यो वर्त्ततइति तत्र माननीये पित्रादौ सति कल्पाकस्यातिवाहने त्रयः पञ्च वा भवन्त्युत्कर्षतः / किमुक्तं भवति। विवक्षिते भिक्षौ कल्पाके जाते सति यदि तस्य माननीयपित्रादिरुपस्थाप्योऽस्ति परमद्यापि कल्पाको नोपजायते तर्हि य जघन्यतः पञ्चरात्रं प्रतीक्षाप्यते मध्यमतो दशरात्रमुत्कर्षतः पञ्चदशरात्रंतथापिचेन्माननीयः कल्पाको नोपजायते तर्हि सचाकल्पाको भिक्षुरुपस्थापनीयो नोचेदुपस्थापयति तर्हि छेदः परिहारो वा प्रायश्चित्तम् / अथ तस्य माननीयाः पित्रादयो न सन्ति ततस्तेषामसत्वभावे यदितंचतूरात्रमध्ये वा नोपस्थापयतितथापितस्य प्रायश्चित्त घरपरिहारो वा छेदपरिहारग्रहणं सूचामात्रं तेनोद्देशद्वयेन प्रागुक्ताः प्रायश्चित्तविधि-द्रष्टव्यः। चिट्ठउता उट्ठवणा, पुव्वं पटवावणादिवत्तव्वा। अडयालपुच्छसद्धे, भन्नति दुक्खं खु सामन्नं / / तिष्ठतु तावदुपस्थापना पूर्व प्रव्राजनादिर्वक्तव्या / तत्र यथा पञ्चकल्पे निशीथे वाष्टचत्वारिंशत्पृच्छाशुद्धोऽभिहितस्तथा अष्टचत्वारिंशत्पृच्छाशुद्धे कृते तत्संमुखमिदं भण्यते। "दुक्खं खु श्रामण्यं परिपालयितुं" तथाहि गोयर अचित्त-भोयण सज्झायमण्हाणभूमिसेज्जाती। अन्भुवगयम्मि दिक्खा, दव्वादीसुं पसत्थेसु॥ यावजीवं गोचरचर्यया भिक्षामटित्वा अचित्तस्यैषणादिशुद्धस्य जनं कर्तव्यं तदपि वालवृद्धशैक्षकादिसंविभागेन तथा चतुष्कालं स्वाइ यायो विधातव्यः / यावज्जीवं देशतः सर्वतश्चास्नानं ऋतुबद्धे काले भूमौ शय्या आदिशब्दावर्षा रात्रेः फलकादिषु शयनं दिवसे न स्वप्तव्यं रात्रौ तृतीये यामे निद्रामोक्ष एवमुक्ते यद्यभ्युपगच्छतितत एतस्मिन्नभ्युपगते तस्य दीक्षा प्रशस्तेषु द्रव्ये शाल्यादि संचयादौ प्रशस्तक्षेत्रे गम्भीरसानुनादादौ प्रशस्ते भावे प्रवर्द्धमानपरिणामादौ दातव्या। लग्गादिं च तुरंतं, अनुकूले दिक्खिए उ अह जायं। सयमेव तु थिरहत्थो, गुरू जहण्णेण तिण्णट्ठा / / इहोत्सर्गतो लोचे कृते यथा जाते चरजोहरणादिके समप्पिते पश्चात्रिः कृत्वः सामायिकमुच्चार्यते इत्येष विधिः / यदि पुनर्लग्नादिकं त्वरमाणं स्यात्ततोऽनुकूले लगादावादिशब्दान्मुहूर्तादिपरिग्रहस्त्वरमाणः शीघ्र समापतति यथा ज्ञातं सनिषा रजोहरणमुखवस्विकाग्रपूररूपं दीयते। उक्तंचा "अह जायं नाम सनिसेजंरयहरणमुहपोत्तिया वालपज्जे य इति "ततो यदिगुरुःस्थिरहस्तोन कम्पते अटुंगृह्णानस्य हस्तः तर्हि स्वयमेव जघन्येन तिस्रोऽष्ट अव्यवच्छित्वा गृह्णाति। समर्थः सर्व चालोचं करोति / / अण्णो वा थिरहत्थो, सामाइयतिगुणमट्टगहणं च। तिगुणं पादक्खिण्णं, नित्थारगगुरुगणविवड्डी॥ आचार्यस्य स्थिरहस्तत्वाभावे अन्यो वा स्थिरहस्तः प्रव्राजयति समस्तंलोचं करोतीति भावः। तदनन्तरंगुरुः शोभने लग्नादौ प्राप्ते त्रिगुणं त्रीन्वारान् सामायिक मुन्धारयति / / इयमत्र भावना / प्रथमतः। प्रव्राजनीयमात्मनो वामपार्वेस्थापयित्वा चैत्यानितेन सह वन्दते ततः परिहितचोलपट्टस्य रजोहरणं मुखवस्त्रिकांच ददाति तदनन्तरमर्थग्रहणं लोचं वा कृत्वा सामायिकारोपणनिमित्तं कायोत्सर्ग करोति / तत्र चतुर्विंशतिस्तवं चिन्तयित्वा नमस्कारेण पारयित्वा चतुर्विंशतिस्तवमाकृष्य त्रिःकृत्वः सामायिकमुच्चारयति / तदनन्तरमर्थग्रहणं स कारयितव्यः / सामायिकार्थस्तस्य व्याख्यायते इति भावः / ततः सूत्रतोऽर्थतश्च गृहीतं सामायिकमिति तदनुज्ञानिमित्तं विधिना त्रिगुणं प्रादक्षिण्यं कार्यते तत्र तृतीयस्यां प्रदक्षिणायामनुज्ञा क्रियते यथा निस्तारको भव गुरुगुणैर्विवृद्धिर्भवतु वर्द्धस्वेत्यर्थः / एवं प्रव्राजनायां कृतायां यत्कर्तव्यं तदाह / / फासुय आहारो से, अणहिंडंतो य गाहए सिक्खं / ताहे उ उवट्ठावणा, छज्जीवणियं तु पत्तस्स / / प्रव्रज्याप्रदानानन्तरं (से) तस्य प्रासुक आहारो दीयते स च भिक्षा हिण्डाप्यते किं त्वहिण्डमान एव भिक्षां ग्रहणभिक्षामासेवनाशिक्षां च ग्राह्यते ततः षड्जीवनिकां प्राप्तस्याधिगृह्यत षड्जीवनिकाध्ययनस्य उपस्थापना क्रियते॥ विक्षेपप्रायश्चित्तविधिमाह || अप्पत्ते अकहेत्ता, अणहिगए(अ)परिच्छए(अ)तिकम्मे से। एक्कक्के चउगुरुगा, चोयगसुत्तं तु कारणियं // अप्राप्ते षड्जीवनिका पर्यायं वा जघन्यतः षण्मासानुत्कर्षतो द्वादश संवत्सराणि तथा अकथयित्वा जीवादीन् तथा अनधिगतेजीवाजीवादी तथा अपरीक्षायां परीक्षाया अभावे तथा (से) तस्य उपस्थापयिनोऽतिक्रमे एकैकस्य व्रतस्य वारत्रयमनुच्चारणे एतेषु सर्वेषु प्रत्येकमेकैकस्मिन्प्रायश्चित्तं चत्वारो गुरुकाः / अथ सूत्रे पर्यायादिकं नोपात्तमिति तत्कथने कथं न सूत्रविरोधस्तत्राह हे चोदक ! सूत्रमिदं कारणिकं पुरुषविशेषपात्रापेक्षमतः पयार्याधनभिधानेऽप्रिन दोषः / एनामेव गाथा भाष्यकृद्विवृणोति। अप्पत्ते सुएणं परि-यागमुवट्ठावणे य चउगुरुगा। आणादिणो य दोसा, विराहणा छण्हकायाणं॥ श्रुतेन षड्जीविनिकापर्यन्तेनाप्राप्ते पर्यायं वाजधन्यादिभेदभिन्नमप्राप्ते उपस्थाप्यमाने उपस्थापयितुः प्रायश्चित्तं प्रायश्चित्तं चत्वारो