________________ उवट्ठवणा 612 - अभिधानराजेन्द्रः - भाग 2 उवट्ठवणा याए उवसंपजित्ताणं विहरामि' एवं तिन्नि वारे भणावेइ तओ वंदित्ता सीसो भणइ इच्छक्कारि भगवन् ! तुह्य अमं पंचमहाव्रतरात्रिभोजनविरमणषष्ठआरोवओ इत्यादिक्षमाश्रमणानि प्रदक्षिणाश्च प्राग्वत्। तओ सीसस्स आयरियउयज्झायरूवो दुविहो दिसाबंधो कीरइ। यथा कोटिको गणः वइरी शाखा चान्द्र कुलम् / अमुका गुरवः उपाध्यायाश्च साध्वी अमुकी प्रवर्तिनी चेति तृतीयः आचाम्लनिर्विकृतिकादितपः कार्यते / देशनायां च वधूचतुष्ककथावाच्या॥ उट्ठविओ चेव सीसो, मंडलीपवेसत्थं। सत्तआयंविलाणि-कारे अचोतं जहा।। सुते१ अत्थे२भोअण,३काले ४आवस्सए अ५सज्झाए 6 / संथारपविठूअ तहा, सत्ते आ मंडली हुंति / / सूत्रे सूत्रविषये १एवम् अर्थे २भोजने ३कालग्रहे ४आवश्यके प्रतिक्रमणे 5 स्वाध्याये तत्रच प्रस्थापने 6 संस्तारके चैव७ सप्तैता मण्डल्यो भवन्ति। एतासु चैकैकेनाचाम्लेन प्रवेष्टु कल्पते नान्यथेति / तत्र च 'मुहपोत्तिं पहिअवंदणदुर्ग दाउ सुत्तमंडली संदिसावउँ खमाए सुत्तमडलीवासिओ खमा० इत्थं तस्स मिच्छामि दुक्काड तिविहेणं सेसासुत्ति'' इति प्रतिपादितः सप्रपञ्चमुपस्थापनाविधिः / ध०३ अधिक। अप्पत्ते अकहित्ता, अणहिगयपरिच्छण्णये चउगुरुगा। दोहिं गुरु तव गुरुगा, कालगुरुं दोहि वि लहुगा // सूत्रेऽसमाप्ते उपस्थाप्यमाने उपस्थापयितुः प्रायश्चित्तं चत्वारो गुरुकाः / कथम्भूता इत्याह / द्वाभ्यां गुरवस्तद्यथा तपसापिगुरुकाः कालेनापि गुरुकाः। अथ सूत्रप्राप्तस्तथापि तस्यार्थमकथायित्वा यदितमुपस्थापयित तदा तस्य चत्वारो लधुकाः / नवरं कालेनैकेन लघवः / अथ कथितोऽर्थः परं नाद्याप्यधिगतः अथवा अधिगतः परमद्यपि न सम्यक् तं श्रद्दधाति तमनधिगतार्थमश्रद्दधानं वा उपस्थापयतश्चत्वारो लघुकाः / नवरमेकेन तपसा लघवः / अथाधिगतार्थमप्यपरीक्ष्योपस्थापयति तदा चत्वारो लघुकास्तपसापि कालेनापि च लघवः न केवलं तत्प्रायश्चित्त किं स्वाज्ञादयश्च दोषाः तथा सर्वत्र षण्ण जीवनिकायाना यद्विधास्यति तत्सर्वमुपस्थापयन् प्राप्नोति तस्मात् यत एवं प्रायश्चित्तमाज्ञापयन दोषास्मस्मान्नापठिते षड् जीवनिकायसूत्रे नाप्यनधिगतेऽर्थ नापि तस्मिन्नपरीक्षिते उपस्थापना कर्तव्या। अथ कियन्तः षड्जीवनिकायामर्थाधिकारास्तत आह। जीवाजीवाभिगमो, चरित्तधम्मो तहेव जयणा य / उवएसो धम्मफलं, छज्जीवणियाए अहिगारा।। षड् जीवनिकायामिमे पञ्चाधिकारास्तद्यथा प्रथमा जीवाजीवाभिगमो द्वितीयो महाव्रतसूत्रादारभ्य चारित्रधर्मस्तृतोयो 'जयं चर जयं चिट्टे' इत्यादिना यत्नादनन्तरमुपदेशस्ततो धर्मफलमेत विस्तरता दशवैकालिकटीकातः परिभावनीयाः / तत्रास्ताभुपस्थापना कथं स प्रधाजयितव्य इति तदेवोच्यते / तत्र षड्डिधो द्रव्यकल्पो वक्तव्य इति तमभिधित्सुराह / / पव्वावण मुंडावण, सिक्खावणउवट्ठसंभुंजण य संवसण। एसो उदवियकप्पो, छव्विहतो होति नायव्वो।। प्रव्राजना नाम यो धर्मे कथितेऽकथिते वा प्रव्रजामीत्यभ्युस्थितः प्रथमतः पृच्छयते कस्त्वं कुतोवा समागतः कि निमित्तं वा प्रव्रजिष्यसि / तत्र यदा पृच्छा परिशुद्धो भवति तदा प्रव्राजयितुमभ्युपगम्यत अभ्युपगम्य च प्रशस्तेषु द्रव्यादिष्याचार्यः स्वयमेवाष्टा (स्तोककेश) ग्रहणं करोति एतावता प्रवाजनाद्वारम् / तदनन्तरं स्थिरहस्तेन लोचे कृत रजोहरणमर्पयित्वातस्य सामायिकसूत्रं दीयते / ततः सामायिक में दत्तमिच्छामोनुशिष्टिमिति / सूरयो बुवते निरस्तारपारगो भव क्षमाश्रमणगुणैर्वर्द्धस्व एषा मुण्डापना (सिक्खावणत्ति) तदनन्तरं द्विविधामपि शिक्षा ग्राह्यते तद्यथा ग्रहणशिक्षामासेवनशिक्षां च / ग्रहणशिक्षा नाम पाठः / आसेवनशिक्षा सामाचारीशिक्षणम् / यता द्विविधामपि शिक्षा ग्राहितो भवति तदा उपस्थाप्यते प्रशस्तेषु द्रव्यक्षेत्रादिषु / द्रव्यतः शालिकरणे इक्षुकरणे चैत्यवृक्षे वा / क्षेत्रतः पद्मसरसि सानुनादे चैत्यगृहे वा कालतश्चतुर्थ्यष्टम्यादिवर्जितासु तिथिषु भावतोऽनुकू ले नक्षत्रे यदि तस्य जन्मनक्षत्रं जायते तदा आचार्यस्यानुकूलनक्षत्रे सुन्दरे मुहूर्ते यथाजातेन लिन / तद्यथा रजोहरणेन निषिद्याद्वयोपेतमुखपोत्तिकया चोलपट्टेन च वामपाव स्थापयित्वा एकैकं महाव्रतं त्रीन वारान् उच्चायत यावत् रात्रिभोजनम् / अथ ते द्वौ त्रयो बहवो वा भवेयुस्ततो यथावयोवृद्धम् अथ ते क्षत्रिया राजपुत्रास्तत्र यः स्वत एवासन्नतर आचार्यस्य स रत्नाधिकः क्रियते इतरो लब्धे अथ द्वावप्युभयतः पार्श्वयोः समौ व्यवस्थितौ तदा तो द्वावपि समरत्नाधिको ब्रतेषूचारितेषु प्रदक्षिणां कारयित्वा पादयोः पात्येते भण्यले च महाव्रतानि ममारोपितानि इच्छामोऽनुशिष्टिं शेषाणमपि साधूनां निवेदयामि / गुरुर्भणति / निवेदय इदं च भणति निस्तारगपारगो--भव क्षमाश्रमणानां य गुणैर्वर्द्धस्व एवमुपस्थापिते द्विविधसंग्रहः साधेर्यशा अहं तव आचार्योऽमुकस्ते उपाध्यायः / साध्व्यास्त्रिविधसंग्रहस्तत्र तृतीय अमुका ते प्रवर्तिनी एवमुपस्थाप्य केषांचित्पञ्चकल्याणकं केषांचिदभक्तार्थ केषांचिदाचाम्लं केषांचिन्नि-विकृतिकमपरषां न किंचित् / किं बहुना यत् यस्य तपो कर्म आवलिकागतं तस्य तद्वत्वा तेन सहकत्र मण्डल्यां संभुड ते संवसनं च करोति। शैक्षकमध्ये परिपालन्र चेयं राथा यावन्नोपस्थाप्यते तावन्न भिक्षां हिण्डापयितव्यः कथ पुनरुपस्थापनीय इत्यत आह // पढिएयं कहिय अहिगय,परिहर उट्ठायणा य सो कप्पो। छकंतीहिं विसुद्धं,परिहरनवगेण भेएण || सूत्रं प्रथमतः पाठयित्वा तदनन्तरमर्थं कथयित्वा ततोऽधिगता-- ऽनेनार्थः सम्यक् श्रद्धानविषयीकृतश्चेति परीक्ष्य यदा षडू षड् - जीवनिकायान् त्रिभिर्मनोवाक्कायै विशुद्ध भावतो न परानुवृत्त्या परिहरतीत्यत आह नवकभेदेन न षट्कं मनसा स्वयं परिहरति अन्यः परिहारयति परिहरन्तमन्यं समनुजानाति / एवं वाचाकायेन प्रत्येवं त्रयस्त्रयां भेदा द्रष्टव्याः। एष उपस्थापनायाः कल्पः वृ०१३॥नि००। उपस्थापनाविधिः। (सूत्रम्) आयरिय उवज्झाय समिरमाणे परं चउराओ पंचराओ कप्पागं भिक्खूणो उवट्ठावइ कप्पाइं अत्थियाइं से केइ माणणिज्जे कप्पागे णत्थियाइं से केइ छेए वा परिहारे वा नत्थि याइं से केइमाणणिज्जे कप्पइ सेसंतरा छए वा परिहारे वा / / आचार्य उपाध्यायो वा स्मरन् अयमुपस्थापनाह इति जनानः परं चतूरात्रात् पञ्चरात्राद्वा कल्पाकं सूत्रतोऽर्थतक्ष प्राप्त भिक्षुर्नोपस्थापयति / तत्र यदि तस्मिन्कल्प के सत्यस्ति तणा