________________ आगम 68 अभिधानराजेन्द्रः भाग 2 आगम थस्त्वासप्रणीत आगमः स प्रमाणामेव कषच्छेदतापलक्षणोपाधित्रयविशुद्धत्वात्। कषाऽऽदीनां च स्वरूपं पुरस्ताद्वक्ष्याम:। न च वाच्यम् अमाप्त: क्षीणसर्वदोषस्तथाविधं चाऽऽप्तत्वं कस्याऽपि नाऽस्तीति; यतो रागाऽऽदय: कस्यचिदत्यन्तं छिद्यन्ते अस्म-दादिषु तदुच्छेदप्रकर्षाऽपकर्पोपलम्भात् सूर्याऽऽद्यावारकजल-दपटलवत्। तथा चाऽऽहु:- "देशतो नाशिनो भावा दृष्टा निखिल-नश्वराः। मेघपङ्क्त्यादयो यद्वदेवं रागाऽऽदयो मता:"||१|| इति यस्य च निरवयवतयैते विलीना: स एवाऽऽप्तो भगवान् सर्वज्ञः। अथाऽऽनादित्वाद्रागाऽऽदीनां कथं प्रक्षय इति चेत? न; उपायतस्तद्भावात्, अनादेरपि सुवर्णमलस्य क्षारमृत्पु-टपाकादिना विलयोपलम्भात्। तद्वदेवाऽनादीनामपि रागाऽऽदि- दोषाणां प्रतिपक्षभूतरत्नत्रयाऽभ्यासेन विलयोपपत्तेः। क्षीणदोष-स्य च केवलज्ञानाऽव्यभिचारात् सर्वज्ञत्वम्। तत्सिद्धिस्तु ज्ञानतारतम्यं क्वचिद्विश्रान्तं तारतम्यत्वात् आकाशपरिमाणतार-तम्यवत्। तथा सूक्ष्मान्तरितदूरार्थाः कस्यचित्प्रत्यक्षाऽनु- मेयत्वात् क्षितिधरकन्धराधिकरणधूमध्वजवत्। एवं चन्द्रसूर्योपरागादिसूचकत्योतिर्मानाविसंवादार्थानुपपत्ति- प्रभृतयोऽपि हेतवो वाच्यास्तदेवमाप्तेन सर्वविदा प्रणीत आगमः प्रमाणमेव; तदप्रामाण्यं हि प्रणायकदोषनिबन्धनं "रागाद्वा द्वेषाबा, मोहाद्वा वाक्यमुच्यते झनृतम्। यस्य तु नैते दोषा। स्तस्याऽनृतकारणां किं स्यात्"|१|| इति। स्था० 17 श्लोका न च आगमानां परस्परविरुद्धार्थतया सर्वेषामप्यप्रामाण्य-मभ्युपेयं, 'सर्वज्ञमूलस्याऽवश्यं प्रमाणत्वेनाभ्युपगमार्हत्वाद्, अन्यथा-सम्यक् प्रमाणाऽप्रमाणविभागाऽपरिणते: प्रेक्षावत्ता-क्षतिप्रसङ्गात्, अथ कथमेतत्प्रत्येयं यथाअयमागम: सर्वज्ञमूल इति? उच्यते यदुक्तोऽर्थः प्रत्यक्षेणाऽनुमानेन च न बाध्यते नाऽपि पूर्वाऽपरव्याहत: सोऽवसीयते। सर्वज्ञप्रणीतोऽन्यस्य तथारूपत्वा-ऽसंभवात्, ततस्तस्माद्यसिद्धम् तत्सर्व सुसिद्धम, उक्तं च-"दिद्वेणं इटेण य, जम्मि विरोहो नजुज्जइ कहिंचि। सो आगमो ततोज, नाणं तं सम्मनाणं ति॥१॥" (धर्म 519) आम.१ अ०६०० गाथाटी जैनाऽऽगमस्य च सर्वज्ञप्रणीतत्वम"सवण्णु विहाणम्मि वि, दिढेट्ठाबाहिया उ वयणाओ। सव्वण्णू होइ जिणो, सेसा सव्वे असव्वन्नू।।।।" एतेन यदुक्तं भवतु वावर्द्धमानस्वामी सर्वज्ञस्तथाऽपि तस्य सत्कोऽयमाचारादिक उपदेश इति कथं प्रतीयते इति, तदपि दूराऽपास्तम् अन्यस्येत्थंभूतदृष्टे ष्टाबाधितवचनप्रवृत्तेरसंभवात्, यदप्युक्तं भवत्वेषोऽपि निश्चयो यथाऽयमाचारादिक उपदेशोवर्द्धमानस्वामिन इति, तथाऽपि तस्योपदेशस्याऽयमर्थो नाऽन्य इति न शक्यं प्रत्येतु-मित्यादि, तदप्युक्तं, भगवान् हि वीतरागस्ततो न विप्रतारयति विप्रतरणाहेतुरागाऽऽदिदोषगणाऽसंभवात्। तथा सर्वज्ञत्वेन विपरीतं सम्यग्वार्थमवबुध्यमानं शिष्यं जानाति ततो यदि विपरीतमर्थमवबुध्यते श्रोता तर्हि निवारयेत्, न च निवारयति न च विप्रतारयति, करोति च देशनां कृतकृत्योऽपि तीर्थकरनामक-र्मोदयात् ततो ज्ञायते एष एवाऽस्योपदेशस्याऽर्थ इति। उक्तंच "नाए वितदुपएसे, एसेवत्थो मओ त्ति से एवं। नज्जइ पवत्तमाणं, जैन निवारेइ तह चेव / / 1 / / अन्नह य पवत्तं तं, निवारइ नय तओ पवंचेइ। जम्हा स वीयरागो, कहणे पुण कारणं कम्मं // 2 // " एवं च भगवद्विवक्षायाः परोक्षत्वेऽपि सम्यगुपदेशस्यार्थनिश्चये जाते। यदुक्तम- 'गौतमादिरपि छद्मस्थ' इत्यादि, तदप्यसार- मवसेयं, छद्मस्थस्याऽप्युक्तप्रकारेण भगवदुपदेशार्थनिश्च- योपपत्तेः। तथा चित्रार्था अपि शब्दा: भगवते व समर्थितास्ते च प्रकरणाद्यनुरोधेन तत्तदर्थप्रतिपादका: प्रतिपादितास्ततो न कश्चिद्घोषः, तत्तत्प्रकरणाद्यनुरोधेन तत्तदर्थनिश्चयोपत्तेः। भगवताऽपि च तथा तथाऽर्थावगमे प्रतिषेधाऽकरणादिति एवं च तदानीं गौतमादीनां सम्यगुपदेशार्थस्यावगतावाचार्य परंपरात इदानीमपि तदर्थागमो भवति। नचाऽऽचार्यपरम्परा न प्रमाणम् अविपरीतार्थव्याख्यातृत्वेन तस्याः प्रामाण्यस्या-ऽपाकर्तुमशक्यत्वात् अपि च भवदर्शनमपि किमागममूलम्, अनागममूलं वा ? यद्यागममूलंतर्हि कथमाचार्यपरंपरामन्तरेणा? आगमार्थस्याऽवबोद्धमशक्यत्वात् , अथाऽनागममूलं तर्हि न प्रमाणम्, उन्मत्तकविरचितदर्शनवत्।नं। 46 सूत्रटी। (5) संभवद्रूपस्यैव वचनस्य प्रामाण्यं नत्वसंभवद्रूपस्येतिएवं पिण जुत्तिखमं, ण वयणमित्ताउ होइ एवमियं / संसारमोअगाण वि, - धम्मो दोसप्पसंगाओ / 1233 / / पं.व.। एतदपि न युक्तिक्षमं यदुक्तं परेण, कुत इत्याह- न वचनमात्रादनुपपत्तिकाद्भवत्येवमेतत्सर्वं, कुत इत्याह-संसार मोचका-नामपि वचनात् हिंसाकारिणां धर्मस्य, दु:खिनो हन्तव्या इत्यस्याऽदोषप्रसङ्गाददुष्टतापत्तेरित्यर्थः / / 124|| प्रति.। सिय तण सम्मवयणं, इयरं सम्मवयणंति किं माणं? अह लोगो चिय णेयं, तहा अपाढा विगाणा य||१२३४ा पंक। स्यात् 'तत् -'संसारमोचकवचनं, न सम्यग्वचनमित्याशङ्ख्याह'इतरद' वैदिकं सम्यग् वचनमिति किं मानम् ? अथ लोक एवं मानमित्याशङ्कथाह-नैतत्तथा, लोकस्य प्रमाणतया अपाठात्, अन्यथा प्रमाणस्य षट्संख्याविरोधात् / तथाविगानाच, नहि वेदवचनं प्रमाणमित्येकवाक्यता लोकानामिति // 125// प्रतिः। अह पाढोऽभिमओ चिय, विगाणमवि एत्थ थो (थे) वगाणं तु / इत्थं पिणप्पमाणं, सव्वेसि विदंसणाओ उ|१२३५।। पं.व.। अथा पाठोऽभिमत एव लोक स्य प्रमाणमध्ये, षण्णामुप