________________ आगम 67 अभिधानराजेन्द्रः भाग 2 आगम पदेशिकार्थकृतो वा भवेत्। न तावदाद्य: तथाविधोप-देशाऽश्रवणात्। द्वितीयस्तु स्यात्; न पुनस्तत्रोपदेशस्य प्रामाण्यम, अस्य स्वार्थप्रथामात्रचरितार्थत्वात्। प्रतिपादकत्वेनैव प्रमाणानां प्रामाण्याद्। अन्यथा प्रवृत्ताविव तत्साध्यार्थेऽपि प्रामाण्य-प्रसङ्गात् / प्रत्यक्षस्य च विवक्षितार्थवत्तत्साध्यार्थक्रियापि प्रमेया भवेत्, तस्मात्पुरुषेच्छाप्रतिबद्धवृत्तिप्रवृत्तिरस्तु।मा वा भूत्, प्रमाणेन पदार्थपरिच्छेदश्चेचकाण:, तावतैव प्रेक्षावतोऽपेक्षाबुद्धेः पर्यवसानात्, पुण्य प्रामाण्यमस्यावसेयम्। यता-अस्तु तस्मादत्र प्रवर्तितव्यमित्यवगमात्कुशलोदर्वेत्यादिवाक्यानां प्रामाण्यं किं तु तद्वदेव वेदे कर्तृ प्रतिपादकाऽऽगमस्यापि प्रामाण्यं पासाक्षीदेवेति सिद्ध आगमबाधोऽपि। यत्तु कर्चस्मरणं साधनम्, तद्विशेषणां सविशेषणं वा वयेत। प्राक्तनं, तावत्पुराणकूपप्रासादारामविहारदिभिर्व्यभिचारि, तेषां कर्वस्मरणेऽपि पौरुषेयत्वात्। द्वितीयं तु संप्रदायाव्यवच्छेदे सति कर्चस्मरणादिति व्य॑धिकरणाऽसिद्धम, कर्वस्मरणस्य श्रुते: अन्यत्राश्रये पुंसि वर्तनात्। अथाऽपौरुषेयी श्रुति:: संप्रादायावच्छंदे सत्यस्मऽर्यमाणकर्तृकत्वाद्, आकाशवद् इत्यनुमान-रचनायामनवकाशाव्यधिकरणासिद्धिः। मैवम्। एवमपि विशेषण संदिग्धाऽसिद्धताऽऽपत्तेः। तथाहि आदिमतामपि प्रासादादीनां संप्रदायो व्यवच्छिद्यमानो विलोक्यते, अनादेस्तु श्रुतेरव्यवच्छेदी संप्रदायोऽद्यापि विद्यत इति मृतकमुष्टिबन्धमन्यकार्षीत्; तथा च कथं न संदिग्धाऽसिद्ध विशेषणम्? विशेष्यमप्युभयाऽसिद्धं, वादिप्रतिवादिभ्यां तत्र कर्तुः स्मरणात् / ननु श्रोत्रियाः श्रुतौ कर स्मरन्तीति मृषोद्यं श्रोत्रियापसदा: खल्वमी इति चेत् ननु यूयमानायमाम्रासिष्ट तावत्तत:- "यो वै वेदाँश्च प्रहिणोति' इति, "प्रजापति: सोमं राजानमन्वसृजत्ततस्त्रयो वेदा अन्वसृजन्त' इति च स्वयमेव स्वस्य करि स्मारयन्ती श्रुतिं विश्रुतामश्रुतामिव गणयन्तो यूयमेव श्रोत्रियाऽपसदाः किन्न स्यात् ? किं च-कण्व माध्यन्दिनितित्तिरिप्रभृतिमुनिनामाङ्किता: काश्चन शाखास्तत्कृतत्वादेव मन्वादिस्मृत्य दिवत्। उत्सन्नानां तासां कल्पादौ तैर्दृष्टत्वात्, प्रकाशितत्वाद्वा तन्नामचिह्ने अनादौ कालेऽनन्त- मुनिनामाऽङ्कितत्वं तासां स्यात् / जैनाश्च कालाऽसुरमेतत्कर्तारम् स्मरन्ति। कर्तृविशेष विप्रतिपत्तेरप्रमाणमेवैतत्स्मरणमिति चेत् नैवम्। यतो यत्रैव विप्रतिपत्ति:, तदेवाऽप्रमाणमस्तु, न पुन: कर्तृमात्रस्मरणामपि / "वेदस्याऽध्ययनं सर्व, गुर्वध्ययनपूर्वकम्। वेदाध्ययनवाच्यत्वा-दधुनाऽध्ययनं यथा|१|| अतीताऽनागतौ कालौ, वेदकारविवर्जितौ / कालत्वात्तद्यथा कालो, वर्तमान: समीक्ष्यते // 2 // " इतिकारिकोक्ते: वेदाध्ययनवाच्यत्वकालत्वेऽपि हेतु:' कुरङ्ग- शृङ्गभड्डरं कुरङ्गाक्षीणां चेतः' इति वाक्याध्ययनं गुर्वध्य- यनपूर्वकम् एतद्वाक्याध्ययनवाच्यत्वाद, अधुनातनाध्ययनवद् अतीतानागतौ कालो प्रक्रान्तवाक्यकर्तृवर्जितौ कालत्वात्, वर्तमानकालवत्, इतिवदप्रयोजकत्वाद, अनाकर्णनीयौ सकर्णानाम्। अथाऽअर्थाऽऽपत्तेरपौरुषेयत्वनिर्णयो वेदस्य / तथाहि-संवाद विसंवाददर्शनाऽदर्शनाभ्यां तावदेष नि:शेषपुरुषैः प्रामाण्येन निरणायि। तत्रिर्णयश्चास्य पौरुषेयत्वे दुरापः। यत:"शब्दे दोषोद्भवस्ताव द्वक्तृधीन इति स्थिति:। तदभाव: क्वचित्तावद्, गुणवद्वक्तृकत्वतः||१|| तद्गुणैरपकृष्टानां, शब्दे संक्रान्त्यसंभवात। वेदे तु गुणावान् वक्ता, निर्णेनुं नैव शक्यते||२|| ततश्च दोषाभावोऽपि, निणेतुं शक्यतां कथम्। वक्तभावे तु सुज्ञानो, दोषाभावो विभाव्यते।।३।। यस्माद्वक्तुरभावेन, न स्युर्दोषा निराश्रया:'। तत: प्रामाण्यनिर्णायान्यथाऽनुपपत्तेरपौरुषेयोऽयमितिी अस्तुतावदत्र: कृपणपशुपरंपराप्राणव्यपरोपणप्रगुणप्रचुरोपदेशाऽपवित्रत्वादप्रमाणमेवैष: इत्यनुत्तरोत्तरप्रकारः। प्रामाण्यनिर्णयोऽप्यस्य न साध्यसिद्धिः, विरुद्वत्वाद, गुणवद् वक्तृकतायामेव वाक्येषु प्रामाण्यनिर्णयोपपत्ते:! पुरुषो हि यथा रागादिमान्मृषावादी, तथा सत्यशौचादिमान अवितथवचन: समुपलब्धः। श्रुतौ तुतदुभयाभावेनैरर्थक्यमेव भवेत्। कथं वत्तुर्गुणित्वनिश्चयश्छन्दसीति चेत्, कथं पितृपितामहप्रपितामहादेरप्यसौ ते स्यात्? येन तद्धस्तन्यस्ताक्षरश्रेणे: पारंपर्योपदेशस्य वाऽनुसारेण ग्राह्यदेयनिधानादौ नि:शङ्कः प्रवर्तेथाः। क्वचित्संवादाचेद् , अतएवान्यत्रापि प्रतीहि। कारीर्यादौ संवाददर्शनात्। कदाचित् वचित्संवादस्तु सामग्रीवैगुण्यात्त्वयाऽपि प्रतीयत एव, प्रतीताप्तमन्त्रीपदिष्टमन्त्रवत्। प्रतिपादितश्च प्राक् रागद्वेषाज्ञानशून्यपुरुषविशेषनिर्णयः। किं च अस्य व्याख्यानं तावत्पौरुषेयमेव, अपौरुषेयत्वे भावनानियोगादि-विरुद्धत्वाख्याभेदाभावप्रसङ्गात्,तथा चको नामाऽत्र विश्रम्भो भवेत? कथं चैतद् ध्वनीनामर्थनिर्णीति:? लौकिकध्वन्यनुसारेणेति चेत्, किं न पौरुषेयत्वनिर्णीतिरपि? तत्रोभय-स्याऽपि विभावनाद् / अन्यथा त्वर्द्धजरतीयम्। न च लौकिकाऽ-र्थानुसारेणा मदीयोऽर्थः स्थापनीय इति श्रुतिरेव स्वयं वक्ति, न च जैमिन्यादावपि तथा कथयति प्रत्यय इत्यपौरुषेयवचसामर्थोऽप्यन्य एव कोऽपि संभाव्येता पौरुषेयीणामपि म्लेच्छार्यवाचामैकार्थ्य नाऽस्ति, किं पुनरपौरुषेयवाचाम्। ततः परमकृपापीयूषप्लावितान्त:करण: कोऽपिपुमान् निर्दोषः प्रसिद्धार्थ: ध्वनिभिः स्वाध्यायं विधाय व्याख्याति, इदानींतनग्रन्थकारवत्, इति युक्तं पश्याम:। अवोचाम च- "छन्द: स्वीकुरुषे प्रमाणमथ चेत्तद्वाच्यनिश्चायकं, कंचिद्विश्वविदं नजल्पसि ततो ज्ञातोऽस्य मूल्यक्रयी" इति। आगमोऽपि नापौरुषेयत्वमाख्याति। पौरुषेयत्वाविष्कारिण एवास्योक्तवत्सद्भावात्। अपि च-इयमानुपूर्वी पिपीलिका- दीनामिव देशकृताङ्करपत्रकन्दलकाण्डादीनामिव कालकृता वा वर्णानां वेदे न संभवति तेषां नित्यव्यापकत्वात् / क्रमेणाऽभिव्यक्तेः सा संभवतीति चेत् , तर्हि कथमियमपौरुषेयी भवेद् , अभिव्यक्ते: पौरुषेयत्वात् इति सिद्धा पौरुषेयी श्रुति:। रत्ना०४ परि०। (4) आगमस्य चाप्तप्रणीतस्यैव प्रामाण्यं ; नतु विरुद्धार्थस्यआगमानां च येषां पूर्वापरविरुद्धार्थत्वं तेषामप्रामाण्यमेव