________________ उवक्कमकाल १०२-अभिधानराजेन्द्रः - भाग 2 उवक्कमकाल नीतमस्मदादीनां समीपीकृतं स एष समस्तसाधुवर्ग: प्रत्यक्षः (ओहाइत्ति) ओघनियुक्तिस्तथा "इच्छामिच्छातहकारो इत्यादि" दशधा सामाचारीप्रतिपादको ग्रन्थश्छेदसूत्राणि चेति त्रिविधः समयचर्यया समयपरिभाषया उपक्रमः सामाचार्युपक्रमकालो भण्यत इत्यर्थः / इदमुक्तं भवति लोके न समाचार्युपक्रमकालतया कश्चित्कालो रूढः समस्ति। आगमे पुनरसौ भण्यते कथमिति चेदुच्यते येन प्रभूतेन कालेन नवमपूर्वादिगतं सामाचारीश्रुतं शिष्योऽध्ये तुमलप्स्यत स कालः सामाचारीश्रुतोपक्रमणद्वारेण स्थविरैरुपक्रम्य किलागिप्यानीतस्तत्काललभ्यस्य सामाचारीश्रुतस्य स्थविरैरिदानीमपि विनेयेभ्यः प्रदानात्ततश्च सामाचार्युपक्रमद्वारेणोपचारतः कालस्यापि तस्योपक्रमान्तत्वात्सामाचार्युपक्रमकालोऽसौ भण्यत इति। आयुष्कोपक्रमस्यापि यथायुष्कोपक्रमकालतां दर्शयन्नाह--- जं जीवियसंवट्टण-मज्झवसाणाइ हेउसंजणियं / सोवक्कमाउयाणं, स जीवओवक्कमणकालो। स जीवितोपक्रमणालः यथाऽऽयुष्कोपक्रमकालोऽभिधीयत इत्यर्थः। तत्किमित्याह यज्जीवितस्य यद्वा बद्धस्य दीर्घकालवेद्यस्यायुष्कस्य संवर्तनं स्वल्पस्थितिकत्वापादनम् / केषां सोपक्रमायुषां जीवाना निरुपक्रमायुषां निकाचितावस्थस्यैकबद्धत्वादपवर्तनायोगात् किं निर्हेतुकमेव जीवितसंवर्तनं नेत्याह अध्यवसान-निमित्तादिहेतुसंजनितम् / अत्रायमभिप्रायो यश्चिरेण मरणकालोऽभविष्यदसौ आयुष्कर्मास्थित्यपवर्तनद्वारेणोपचारतः किलोपक्रम्यार्वागानीत इत्यसो यथायुष्कोपक्रमकाल उच्यत इति / नन्वेवमुपक्रमः किमायुष एव भवत्याहोश्विदन्यासामपि ज्ञानावरणादिप्रकृतीनामिति विनेयप्रश्नमाशक्याह / / सव्वपगईणमेवं, परिणामवसादुवक्कमे होजा। पायमनिकाइयाणं, यवसा उ निकाइयाणं पि॥ न केवलमायुषः किं तु सर्वासामपि ज्ञानावरणादिप्रकृतीनां शुभाशुभपरिणामवशादपवर्तनाकरणेन यथायोग स्थित्यादिखण्डनद्वारेणापवर्त्यमानानामुपक्रमो भवति स च प्रायो निकाचनाकरणेनानिकाचितानां स्पृष्टबद्धतावस्थानामेव भवतिप्रायो ग्रहणस्य फलमाह। तीव्रण तपसा पुनर्निकाचिता न्यपि कर्माण्युपक्रम्यन्त एव यदि पुनर्यथा बद्धं तथैवानुपक्रान्तं सर्वमपि कर्म वेद्येत तदा मुक्तिगमनं कस्यापि न स्यात्तद्भवसिद्धिकानामपि नियमेन सत्तायामतः सागरोपमकोटीकोटीस्थितिकस्य कर्मणः सद्भावादेतच स्वत एव वक्ष्यति तयुषि एव किमित्यत्रोपक्रमकाल उक्तो न शेषकर्मणामिति चेदुच्यते लोके आयुष्कोपक्रमस्यैव प्रसिद्धत्वात्तदुपक्रमकाल एवेह प्रोक्तः उपलक्षणव्याख्यानाच्छेषकर्मोपक्रमकालोऽपि द्रष्टव्य इति।। अथ प्रेरकः प्राहकम्मोवक्कामिजइ, अपत्तकालं पिजइ तओ पत्ता। अकयागमकयनासा, मोक्खाणासासया दोसा। ननु यद्यप्राप्तकालमपि बहुकालवेद्यं कर्मत्थमुपक्रम्यते इदानीमपि क्षिप्रमेव वेद्यतेततस्तकृतागमकृतनाशौ मोक्षोनाश्वासादयश्चेत्येते दोषाः प्राप्ताः / तथाहि यदीदानीमेवोपक्रमाकृताल्पस्थितादिरूपं कर्म वेद्यते तत्पूर्वमकृतमेवोपगतमित्यकृताभ्यागमः। यत्तु पूर्व दीर्घस्थितादिरूपतया कृतं बद्धं तस्यापवर्तनाकरणोपक्रमेण नाशितत्वात्कृतनाशः ततो मोक्षोऽप्येव मनाश्वासः सिद्धानामप्येवं कृतकाभ्यागमेन प्रतिपात- / प्रसङ्गादिति / अत्रोत्तरमाहनहि दीहकालियस्स वि, नासो तस्साणुइओ खिप्पं / बहुकालाहारस्सव, दुयमग्गिय रोगिणो भोगे॥ न कृतनाशादयो दोषा इति प्रकरणागम्यते कुत इत्याह न यस्मातस्यायुष्कादेः कर्मणो दीर्घकालिकस्यापि दीर्घस्थित्यादिरूप-तया बद्धस्याप्युपक्रमेण नाशः क्रियते। कुत इत्याह क्षिप्रं शीध्रमेव सर्वस्यापि तस्याध्यवसायवशादनुभूतेर्वेदनाद् यदि हि तगहुकाले वेद्यं कर्मा अवेदितमेव नश्येद्यचाल्पस्थित्यादिविशिष्ट वेद्यते तत्त-तोऽन्यदेव भवेत्तदा कृतनाशाकृताभ्यागमौ भवेताम् यदा तु तदेव दीर्घकालवेद्यमध्यवसायविशेषादुपक्रम्य स्वल्पेनैव कालेन वेद्यते तदा कथं कृतनाशादिदोषः यथाहि बहुकालभोगयोग्यस्याऽऽहारस्य धान्यमूषकदस्युकादेरनिरोगिणो भस्मकवातव्याधिमतो हृतं स्वल्पकालेनैव भोगो भवति न च तत्र कृतनाशो नाप्यकृताभ्यागम इत्येवमिहापि भावनीयमिति / अत्राह ननु यद्द्धं तद्यदि स्वल्पकालेन सर्वमपि वेद्यते तर्हि प्रसन्न चन्द्रादिभिः सप्तमनरकपृथिवीयोग्यमसातवेदनीयादि किं कर्मबद्ध श्रूयते तद्यदि सर्वमपि तैर्वेदितं तर्हि सप्तमनरकपृथ्वीसंभविदुःखोदयप्रसङ्गः / अथ न सर्वमपि वेदितं तर्हि कथं न कृतनाशादिदोषः / सत्यमुक्तं किंतु प्रदेशापेक्षयैव तस्य सर्वस्यापि शीघ्रमनुभवनमुच्यते अनुभागवेदनंतुन भवत्यपीत्येतदेवाहसव्वं च पएसतया, भुजइ कम्ममणुभागओ भइयं / तेणावस्साणुभवे, के कयनासाद जो तस्स / / सर्वमष्टप्रकारमपि कर्म सोत्तरभेदं प्रदेश या प्रदेशानुभवद्वारेण भुज्यते वेद्यत एवेत्येष तावन्नियमोऽनुमागस्तु सानुभवमाश्रित्येत्यर्थ / भजनीयं विकल्पनीयम् अनुभागः कोऽपि वेद्यते कोऽपि पुनरध्यवसायविशेषेण हेतुत्वान्न वेद्यत इत्यर्थः / तदुक्तमागमे "तत्त्य णं जंतं अणुभागकम्म तं अत्थेगइए यं वेयइ अत्थेगइयं नो वेयइ तत्थ णं जंतं पएसकम्भत नियम विएइत्ति" अतः प्रसन्नचन्द्रादिभिस्तस्य नरकयोग्यकर्मणः प्रदेशा एव नीरसा इह वेदिता नत्वनुभागस्य शुभाध्यवसायेन हतत्वादत एव न तेषां नरकसंभविदुः खोदयः कर्मणां विपाकानुभव एव सुखदुःखयोर्वेदनाद्येनैवं तेन बद्धस्य कर्मणः सर्वेषामपि प्रदेशानामवश्यं वेदनात् के किल तस्य कर्मोपक्रमं कर्तुं कृतनाशादयो दोषा न के चिदित्यर्थः / आह नन्वेवमप्यनुभागो यथा बद्धस्तथैव प्रसन्नचन्द्रादिभिर्न वेदित इति कथ न कृतनाशः अस्त्वेव कृतनाशः / ननु काचिद्विधा यदि ह्यध्यवसायविशेषेणोपहतत्वानश्यति रसस्वदा किमनिष्ट सर्वस्यापि ह्यष्टप्रकारकर्मणो मूलोच्छेदाय यतन्त एवसाधव इत्यभीष्ट एवेत्थं तेषां कृतनाशः / यदा बहुरसंबहुस्थितिकं च सत्कर्म अल्परसमल्पस्थितिक च कृत्वा वेदयति तदा तस्याल्पस्थितिकस्य च कर्मणः पूर्वमकृतस्यागमतस्ततश्च मोक्षेप्यनाश्वासः सिद्धानामप्यकृ तकनुिगमेन पुनरावृत्तिप्रसङ्गादिति चेत्तदयुक्त यदि ह्यल्परसत्वमल्पस्थितिकत्वं च कर्मणोऽत्र निर्हेतुकं स्यात्एवं चनास्ति अल्परसत्वम् अध्यवसायविशेषकृतत्वेनाभ्यागमत्वायोगादल्पस्थितिकत्वमप्यायुष्कादीनां निर्हेतुकमेव जायते अध्यवसाननिमित्तादिहेतूनां दर्शितत्वादतस्तत्रापि कथमकृतागमत्वम् / अत एव न सिद्धानां कर्मसमागमस्तदागमहेतूनां तेष्वभावादित्यलं प्रसङ्गेन / भाष्यकारेणाप्यस्यार्थस्य प्रपदायिष्यमाणत्वादिति युक्तियुक्तश्चोपक्रमः कर्मणां कुत इत्याह