________________ उवक्कमकाल 103 - अभिधानराजेन्द्रः - भाग 2 उवक्कमकाल उदयखयखओवसमो-वसमा जंच कम्मणो भणियं / दव्वाइपंचयं पइ-जुत्तमवक्कामणमओ वि।। यच यस्मादुदयश्च क्षयश्च क्षयोपशमश्च उपशमश्च उदयक्षयक्षयोपशमोपशमास्ते कर्मणो द्रव्य क्षेत्रकालभवभावपञ्चकं प्रतिभणिता द्रव्यादीनाश्रित्योक्ता अतोऽपि कारणाच्छत्रादिद्रव्याणि प्राप्यायुकादीनां युक्तमुपक्रमणं क्षय इति / तथाह्यसातवेदनीयस्य कर्मणो द्रव्यमहिविषकण्टकादिप्राप्योदयो भवति क्षेत्रं तु नरकवासादिकं कालं तीव्रनिदाघसमयादिकं भवं नारकभवादिकं भावं तु वृद्धभावादिकम् क्षयोऽप्यस्य द्रव्यं सद्गुरुचरण रविन्दादिकं प्राप्य भवति क्षेत्रं तु पुण्यतीर्थादिकं कालं सुषमदुःषमादिकं भवं सुमनुजकुलजन्मलक्षणं भावं तु सम्यग्ज्ञानावरणादिकम् क्षयोपशमोपशमौ तु वेदनीयस्य न भवतः। एवं मोहनीयेऽपि / मिथ्यात्वमोहनीयस्य द्रव्यं कुतीर्थादिकं प्राप्योदयो भवति क्षेत्रंतु कुरुक्षेत्रादिकं साध्वादिरहितदेशाधिकंवा कालंदुःषमादिकं भवं तेजोवाय्वेकेन्द्रियादिकम् अनार्यमनुजकुलजन्मरूपं वा भावं कुसमदेशनादिकमिति। क्षयक्षायोपशमास्त्वस्य द्रव्यं तीर्थकरादिकं प्राप्य भवति / क्षेत्रं तु महाविदेहादिकं, कालं सुषमदुःषमादिकं भवं सुमनुजकुलजन्म भावं तु सम्यग्ज्ञानावरणादिकमिति एवं शेषेऽपि ज्ञानदर्शनावरणादिके कर्मणि निद्रावेदनीयकर्मणो माहिषदधिघृतादिकं द्रव्यमासाद्यो-दयो भवति क्षेत्रं तु अनूपादिकं कालं ग्रीष्मादिकं भवमेकेन्द्रियादिकं भावं तु वृद्धत्वादिकमिति। क्षयोन्यस्योक्तानुसारेण वाच्यः। क्षयोपशमोपशमौत्वस्यापि न भवतः। एवमन्येयामपि कर्मणामुदयादयो यथायोगं द्रव्यादीन् प्राप्यस्वधिया भावनीया इति / अथ दृष्टान्तद्वारेण कर्मणां द्रव्यक्षेत्रादि सहकारिकारणापेक्षा साधयन्नाहपुण्णापुण कयं पि हु, सायमसायं जहोदयाईए। वज्झखलाहाणा उ, देइ तह पुण्णपावं पि।। यथा सातं सुखमसातं तु दुःखं पुण्यापुण्यस्वरूपकमजनितमपि सक्चन्दनाङ्गनादिविषकण्टकादिना बाह्येन सहकारिणा यद्वलस्य सामर्थ्यस्याधानं विधानं तस्माद्देवोदयादीन् ददाति नत्वेवमेव पुण्यपापोदयमात्रात् ततश्च यथैतत्सकललोकस्यानुभवसिद्धं सुखदुःखाख्यं कार्य बाह्यान् द्रव्यक्षेत्रादीनपेक्ष्यैवोदेति क्षीयते वा न पुनरेवमेव तथा तत्कारणं पुण्यपापात्मकं कर्मापि द्रव्यक्षेत्रादीनपेक्ष्यैवोदेति क्षीयते पति सिद्धमेव नहि कार्य द्रव्यादीनपेक्षते तत्कारणं तु तन्निरपेक्ष्यमिति शक्यते वक्तुम् / न खलु कार्यभूतो घटश्चक्रचीवरादीनपेक्ष्यैव जायते तत्कारणभूतस्तु कुलालश्चक्राद्यनपेक्ष एव घट जनयतीत्युच्यमानं शोभा विभर्ति तस्मादुदयादीन् प्रति द्रव्यादिसव्यपेक्षाणां कर्मणां युक्तस्तन्निधानादुपक्रम इति। यदि पुनर्यथा बद्धं तथैव वेद्यते सर्व कर्म न पुनरुपक्रम्यते तदा किं दूषणमित्याहजइताणुभूइओब्विय, खविज्जए कम्म मन्नहा न मयं / तेणासंखभवजिय, नाणागइकारणत्तणउ|| नाणाभवाणुभवणा, भावादेक्चम्मि पज्जएणं वा। अणुभवओ बंधा उ, मोक्खा भावो सचाणिट्ठो। यदि तावयथाबद्धं तथैव प्रतिसमयानुभूतितः प्रतिसमयं विपाकानुभवेनैव कर्म क्षप्यत इति तवानुमतं नान्यथा नोपक्रमद्वारेण तदेतत्कृपणमभिप्रेतं हन्त तेन तर्हि सर्वस्यापि जन्तोमोक्षाभावस्त्वदभिप्रायेण प्राप्नोति स चानिष्ट एव कस्मात्पुनर्मोक्षाभाव- | प्राप्तिरित्याह / तद्भवसिद्धिकस्यापि सत्तायामसंख्येयभवार्जितकर्मणः सद्भावात्तस्य च नानाध्यवसायबद्धत्वेन नरकादिनाना-गतिकारणत्वाततस्तस्य विपाकत एवानुभवने एकस्मिन्नपि तत्र चरमभये नानाभावानामनुभवनं प्राप्नोति तच्चायुक्तं कुत इत्याह। (नाणाभवाणुत्ति) तत्र चैकस्मिन्मनुष्यगतिवर्तिनि चरमभवे नारकतिर्यगादिनाना भवानां परस्पविरुद्धत्वेनानुभवनाभावात्तर्हि तन्नानागतिकारणं कर्म पर्यायेणापि क्रमेण नानाभवेष्वनुभूय सिध्यतु किमेतावता विनश्यति तदयुक्तं कुत इत्याह / (पज्जएणवा इति) इदमुक्तं भवति पर्यायेण वा क्रमेण तान्नानाभवान्विपाकतोऽनुभवतः पुनरपि नानागतिकारणस्य कर्मणो बन्धः पुनरपि च क्रमेण नानाभवभ्रमणं पुनर्नानागतिकारणं कर्म बन्ध इत्येवं मोक्षाभावः। एतच्चानिष्ट तस्मादेष्टव्यः कर्मणा मुपक्रम इति। अथ प्रकारान्तरेणोत्तरदित्सया पूर्वविहितमेव प्रेर्यं पुनः कारयन्नाह। नणु तन्न जहोवचियं, तदाणुभवओ कया गमाईय। तप्पओग्गतं चिय, तेण विय सब्मरोगोव्व / / ननु यदुपक्रमाल्लघुस्थितिकं कृत्वा जीवो वेदयति तदायुष्कर्म न भवति / कथभूतमित्याह येनप्रकारेण वर्षशतभोग्यत्वलक्षणेन पूर्वमुपचितं तेन जीवेन बद्धं यथोपचितमिति / यादृशं पूर्वजन्मनि बद्धम् तादृशमेव तन्न भवतीत्यर्थः / वर्षशतभोग्यत्वं हि दीर्घकालस्थितिकं पूर्वभवे बद्धं उपक्रमानन्तरंतु यदन्तमुहूर्तादिलघुस्थि-तिकमनुभवत्यायुस्तदन्यदेव अन्यथा अनुभवादिति भावः / ततः को दोष इत्याह (तहाणुभवओ इत्यादि) यथा तेन प्रकारेण पूर्वबद्धविलक्षणमायुरनुभवतो जीवस्य पूर्वोक्ता अकृतागमादयो दोषा प्रसञ्जन्ति अत्रोत्तरमाह / (तप्पाओग्गमित्यादि) तस्योपक्रमस्य प्रायोग्य उपक्रमार्हमेव तदायुष्कर्म तेन सोपक्रमायुषा जीवेन चित्तं पूर्वजन्मनि बद्धं साध्यरोगवदिति। ततश्च यथोपक्रमसाध्ये रोगो व्याधिः केनापि प्रागुपार्जित इत्युपक्रम्य तं स्फोटयति न च तस्य तथा कुर्वतोऽकृतागमादयः एवमायुरप्युपक्रमसाध्यतया बद्धत्वात् / यद्यपक्रमस्यैव वेदयति तदा केन स्यात्कृतागम इति। ननु साध्योऽसाध्यो वा रोग इति कथं ज्ञायत इत्याह। अणुवक्कमओ नासइ, कालेणोवक्कमेण खिप्पंति। कालेण चेव सज्झा-सज्झा सज्झंतहा कम्मं / / साध्यो रोग इति स चानुपक्रमतः उपक्रमाभावात्कालेन निजभुक्तिच्छेदेन नश्यति / उपक्रमेण तु विहितेन क्षिप्रमर्वागपि शीघ्रं नश्यति साध्यत्वादेव / यस्त्वसाध्यो रोगः स कालो मरणं तेनैव नश्यति नतूपक्रमशतैरपि / तथा कापि यत्साध्यं बन्धकालेप्युक्रमसव्यपेक्षमेव बद्धं तदुपक्रमसामग्यभावे कालेन संपूर्णवर्षशतादिलक्षणेन निजभुक्तिच्छेदेन नश्यति उपक्रमसामग्रीसन्नि-धाने तु शीघ्रमन्तर्मुहूर्तादिनैव कालेन नश्यति साध्यत्वादेव यत्पुनसाध्य बन्धकाले निकाचितावस्थमनुपक्रमे च बद्धं तदनेकोपक्रमसद्भावेऽपि निजपरिपूर्तिकालमन्तरेण न नश्यति / अस्यैवार्थस्य साधनार्थमाह। सज्झासज्झं कम्मे, किरियाए दोसओ जहा रोगो। सज्झमुवक्कामिजइ, एत्तो चिय सज्झरोगो व्व / / (किरियाए त्ति) क्रियाया उपक्र मलक्षणायाः साध्यमसाध्य च कम भवतीति प्रतिज्ञा (दो स ओत्ति) दोषत्वादिति हेतुर्यो यो दोषः स स उपक्रमक्रियायाः साध्योऽसाध्यश्च भवति