________________ उवक्कम 900- अभिधानराजेन्द्रः - भाग 2 उवक्कम खण्डादयः प्रतीता एवं नवरं मच्छण्डी खण्डशर्करा एतेषां खण्डाद्यचित्तद्रव्याणामुपायविशेषतो माधुर्यादिगुणविशेषकरणं परिकर्मणि सर्वथाविनाशकरणं वस्तुनाशे अचित्तद्रव्योपक्रम इत्यत्रापि वाक्यशेषः। सेत्तमित्यादिनिगमनम् // अथ मिश्रद्रव्योपक्रममाहसे किं तं मीसए दव्वोवक्कमे, सा चेव थासगमंडिए आसाइ सेत्तं मीसए दव्योवक्कमे सेत्तं जाणयसरीरभविअसरीर तव्वतिरित्ते दव्वोवक्कमे सेत्तं नो आगमतो दव्वोवक्कमे / सेत्तं दव्वोवक्कमे // (सेकिंतमित्यादि) स्थासकोऽश्वाभारणविशेषः आदर्शस्तु वृषभादिग्रीवाभरणम् आदिशब्दात् कुङ्कुमादिपरिग्रहः ततश्च तेषामश्वादीनां कुङ्कमा दिभिर्मण्डितानां स्थासकादिभिस्तु विभूषितानां यच्छिष्यादिगुणविशेषकरणं खङ्गादिभिर्विनाशो वा समिश्रद्रव्योपक्रम इति शेषः / अश्वादीनां सचेतनत्वात् हाँसलादीनामचेतनत्वात् मिश्रद्रव्यत्वमिह भावनीयम् / अत्र च संक्षिप्ततरा अपि वाचनाविशेषा दृश्यन्ते तेऽप्युक्तानुसारेण भावनीयाः। सेत्तमित्यादिनिगमनचतुष्टयम्। उक्तो द्रव्योक्रमः। क्षेत्रोपक्रममभिधित्सुराहसे किं तं खेत्तोवक्कमे जण्णं हलकुलिआइहिं / खेत्ताई उवक्कमिच्छंति सेत्तं खेत्तोवक्कमे / / क्षेत्रस्योपक्रमः परिकर्म विनाशकरणं क्षेत्रोपक्रमः स क इत्याह (खेत्तोवक्कमेत्ति) तत्र हलं प्रतीतम् अधोनिबद्धतिर्यतीक्ष्णलोह-पट्टिकं कुलिक लघुतरं काष्ठं तृणादिच्छेदार्थ यत् क्षेत्रावस्थितं तन्मरुमण्डलादि प्रसिद्ध कुलिकमुच्यते ततश्च यदत्र हलकुलिकादिभिः क्षेत्राण्युपक्रम्यन्ते बीजवपनादियोग्यतामानीयन्ते स परिकर्मणि क्षेत्रोपक्रमः / आदिशब्दागजेन्द्रबन्धनादिभिः क्षेत्राण्युपक्रम्यन्ते विनाश्यन्ते स वस्तुनाशे क्षेत्रोपक्रमः / गजेन्द्रमूत्रपुरीषादिवदेतेषु क्षेत्रेषु बीजानामप्ररोहणाद्विनष्टानि क्षेत्राणि इति व्यपदिश्यन्ते / आह / यद्येवं क्षेत्रगतपृथिव्यादिद्रव्याणामेतौ परिकर्मवि-नाशौ इत्थंचद्रव्योपक्रम एवायं कथं क्षेत्रोपक्रम इति सत्यं किं तु क्षेत्रमाकाशं तस्य चामूर्त्तत्वात् मुख्यतया[पक्रमः संभवति किं तु तदाधेयद्रव्याणां पृथिव्यादीनां यः उपक्रमः स क्षेत्रेऽपि उपचर्यते। दृश्यतेच आवेयधर्मोपचारात् आधारः। उक्तं च / "खेत्तमरूवं निचं, तस्स परिकम्माणं नयविणासो / आहेयगयवसेणउ, करणविणासो वयारोत्थ" इत्यादिसेत्तमित्यादिनिगमनम् // सम्प्रति क्षेत्रोपक्रममाहनोवाए वक्कमणं, हलकुलियाहिं वा वि खित्तस्स। सम्मजभूमिकम्म, पज्जवतलागाइसुं तु परिकम्म।। यन्नावा आदिशब्दादुडुपादिभिश्च नदीं तरति / अथवा हलकुलिकादिभिर्यक्षेत्रस्येक्षुक्षेत्रादिरुपक्रमणम् यदि वा यत् क्रियते गृहादीनां संमार्जनं भूमिकर्म वा देवकुलादीनां यच वा यथोन्मार्गशोधनं तडागः व्याख्यात इत आदिग्रहणे वा तटादिषु यत्परिकर्म खननादिलक्षणमेवं समस्तोऽपि क्षेत्रोपक्रमः।। कालोपक्रमसूत्रम्-- से किं तं कालोवक्कमे 2 जण्णं नालिआइहिं कालस्रोवक्कमणं कीरइ सेत्तं कालोवक्कमे / / कालो द्रव्यपर्यायः स एव द्रव्यपर्यायः चित्रकार्मणवत्सललितरूपान्वित इति द्रव्योपक्रमाभिधाने कालोपक्रम उक्त एव भवति / अथवा समयावलियमुहूत्तेत्यादि रूपस्य कालस्य स्वतन्त्रमेवोपक्रममभिधित्सुराह / / सूत्रकारः (सेकिंतमित्यादि) कालस्योपक्रमः कालोपक्रमः स क इत्याह (जण्णं नालिआईहिं) इत्यादिणमिति वाक्यालंकारे यदिह नालिकादिभिरादिशब्दात् तृणच्छायानक्षत्रचारादिपरिग्रहस्तैः काल उपक्रम इतिशेषः / तत्र नालिकाताम्रादिमयघटिका। तृणसंकुच्छायादिना वा एतावत्योरप्यादिकालोऽतिक्रान्त इति यत्परिज्ञानं भवति परिकर्मणि कालोपक्रमः यथा तत्परिज्ञानमेव हि तस्येह परिकर्म यत्तु नक्षत्रादिचारैः कालस्य विनाशनं स वस्तुनाशे कालोपक्र मस्तथा ह्यनेन ग्रहनक्षत्रादिचारेण विनाशितः कालो न भविष्यत्यधुनाधान्यादिसंपत्तय इति वक्तारो भवन्ति। अनु०॥ किञ्चछायाए नालियाए व, परिकम्मं से जहत्थविन्नाणं / रिक्खाइय चारेहि य, तस्स विणासो विवज्जासो॥ (से) तस्य समयावलिका घटिका मुहूर्तादिलक्षणस्य कालस्ये-दमेव परिकर्मयत्किमित्याह यद्यथार्थविज्ञानं यथावत्परिज्ञानं कयेत्याह शङ् क्वादिप्रतिच्छाया रूपच्छायायाघटिकारूपया च नाडिकया विनाशस्तर्हि तस्य क इत्याह विपर्यासो वैपरीत्यभवनमनिष्टफलदायिकतया परिणमनमित्यर्थः / कैरित्याह ऋक्षगृहादिचारैस्तथा च वक्तारो भवन्त्यमुकेन नक्षत्रेण ग्रहेण वा इत्थमित्थं गच्छता विनाशितः काल इति / उक्तः कालोपक्रमः / विशे०। यद्वा "सावविवोहेसु यदुमाणं' द्रुमाणां शमीचिञ्चिनिकाप्रभृतीनां स्वापे विबोधे च ज्ञायते यथागतोऽस्तमादिव्यउदितो वेति। एष कालोपक्रमः। वृ०१ उ०।। अथ भावोपक्रममाह-- से किं तं भावोवक्कमे 2 दुविहे पण्णत्ते तं जहा आगमतो अ नोआगमतो अ। जाणए उववत्ते नो आगमतो दुविहे पण्णते तं जहा पसत्थे अपसत्थे अ॥ भावोपक्रमो द्विविधः प्रज्ञप्तस्तथा आगमतो नो आगमतश्च / तत्रोपक्रमशब्दार्थज्ञस्तत्रोपयुक्तश्चागमतो भावोपक्रमः (से किंतं नो आगमओ इत्यादि) अत्रोत्तरम् (नो आगमओभावोवक्कमे दुविहे त्यादि) इहाभिधायाख्यो जीवद्रव्यपर्यायो भावशब्देनाभिप्रेतः / उक्त च "भावाभिख्या पञ्चस्वभावसत्तात्मयोन्यभिप्रायस्ततश्च भावस्य परकीयाभिप्रायस्योपक्रमणं यथा तत्परिज्ञानं भावोपक्रमः / स च द्विविधः प्रशस्तोऽप्रशस्तश्चेति / तत्राप्रशस्ताभिधित्सया आहतत्थ अपसत्थे डोडिणी गणिआ अमच्चाईणं। (तत्थअप्पसत्थेत्ति) इह तात्पर्य ब्राह्मण्या वैश्यया अमात्येन च यत्परकीयभावस्य यथा तत्परिज्ञानलक्षणमुपक्रमणं कृतं सोऽप्रशस्तभावोपक्रमः संसारफलत्वात् / अनु०। अशुभस्य तस्य भावोपक्रमस्य ब्राह्मणीवेश्याऽमात्यादया दृष्टान्ताः प्रतिपादितास्तद्यथा एकस्या ब्राह्मण्यास्तिस्रः पुत्रिकाः तासां च परिणयनानन्तरं तथा करोमि यथैताः सुखिता भवन्त्विति विचिन्त्य माता ज्येष्ठदुहितरं प्रत्यवोचद्यदुत त्वया वासभवनसमागमे स्वभर्ता किंचिदपराधमुद्भाव्य मूनि पादप्रहारेण हन्तव्यो हतश्च यदनुतिष्ठति तन्ममाख्येयं कृतं च तया तथैव सोऽप्यतिसोहतरलितमना अपि प्रियतमे पीडितस्ते सुकुमारचरणो भविष्यतीत्यभिधानपूर्वकं तस्याश्चरणोपमईनं चकार / अमु च व्यतिकरं सा मात्र निये दितवती साप्युपक्रान्तजामातृकभावा दृष्टा दुहितरं प्रत्यऽवादीत्। पुत्रिके यद्रोचते